कबन्धग्राहः
अरण्यकाण्डः / कबन्धग्राहः
Script
Translation
Previous
जटयुस्संस्कारः
Next
कबन्धबाहुच्छेदः
अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे कबन्धग्राहः नाम एकोनसप्ततितमः सर्गः ॥३-६९॥
कृत्वैवमुदकं तस्मै प्रस्थितौ राघवौ तदा ।
अवेक्षन्तौ वने सीतां जग्मतुः पश्चिमां दिशम् ॥३-६९-१॥
तां दिशं दक्षिणां गत्वा शरचापासिधारिणौ ।
अविप्रहतमैक्ष्वाकौ पन्थानं प्रतिपेदतुः ॥३-६९-२॥
गुल्मैर्वृक्षैश्च बहुभिर्लताभिश्च प्रवेष्टितम् ।
आवृतं सर्वतो दुर्गं गहनं घोरदर्शनम् ॥३-६९-३॥
व्यतिक्रम्य तु वेगेन गृहीत्वा दक्षिणां दिशम् ।
सुभीमं तन्महारण्यं व्यतियातौ महाबलौ ॥३-६९-४॥
ततः परं जनस्थानात् त्रिकोशं गम्य राघवौ ।
क्रौञ्चारण्यं विविशतुर्गहनं तौ महौजसौ ॥३-६९-५॥
नानामेघघनप्रख्यं प्रहृष्टमिव सर्वतः ।
नानावर्णैः शुभैः पुष्पैर्मृगपक्षिगणैर्युतम् ॥३-६९-६॥
दिदृक्षमाणौ वैदेहीं तद् वनं तौ विचिक्यतुः ।
तत्र तत्रावतिष्ठन्तौ सीताहरणदुःखितौ ॥३-६९-७॥
ततः पूर्वेण तौ गत्वा त्रिक्रोशं भ्रातरौ तदा ।
क्रौञ्चारण्यमतिक्रम्य मतङ्गाश्रममन्तरे ॥३-६९-८॥
दृष्ट्वा तु तद् वनं घोरं बहुभीममृगद्विजम् ।
नानावृक्षसमाकीर्णं सर्वं गहनपादपम् ॥३-६९-९॥
ददृशाते गिरौ तत्र दरीं दशरथात्मजौ ।
पातालसमगम्भीरां तमसा नित्यसंवृताम् ॥३-६९-१०॥
आसाद्य च नरव्याघ्रौ दर्यास्तस्याविदूरतः ।
ददर्शतुर्महारूपां राक्षसीं विकृताननाम् ॥३-६९-११॥
भयदामल्पसत्त्वानां बीभत्सां रौद्रदर्शनाम् ।
लम्बोदरीं तीक्ष्णदंष्ट्रां करालीं परुषत्वचम् ॥३-६९-१२॥
भक्षयन्तीं मृगान् भीमान् विकटां मुक्तमूर्धजाम् ।
अवैक्षतां तु तौ तत्र भ्रातरौ रामलक्ष्मणौ ॥३-६९-१३॥
सा समासाद्य तौ वीरौ व्रजन्तं भ्रातुरग्रतः ।
एहि रंस्यावहेत्युक्त्वा समालम्भत लक्ष्मणम् ॥३-६९-१४॥
उवाच चैनं वचनं सौमित्रिमुपगुह्य च ।
अहं त्वयोमुखी नाम लाभस्ते त्वमसि प्रियः ॥३-६९-१५॥
नाथ पर्वतदुर्गेषु नदीनां पुलिनेषु च ।
आयुश्चिरमिदं वीर त्वं मया सह रंस्यसे ॥३-६९-१६॥
एवमुक्तस्तु कुपितः खड्गमुद्धृत्य लक्ष्मणः ।
कर्णनासस्तनं तस्या निचकर्तारिसूदनः ॥३-६९-१७॥
कर्णनासे निकृत्ते तु विस्वरं विननाद सा ।
यथागतं प्रदुद्राव राक्षसी घोरदर्शना ॥३-६९-१८॥
तस्यां गतायां गहनं व्रजन्तौ वनमोजसा ।
आसेदतुरमित्रघ्नौ भ्रातरौ रामलक्ष्मणौ ॥३-६९-१९॥
लक्ष्मणस्तु महातेजाः सत्त्ववाञ्छीलवाञ्छुचिः ।
अब्रवीत् प्राञ्जलिर्वाक्यं भ्रातरं दीप्ततेजसम् ॥३-६९-२०॥
स्पन्दते मे दृढं बाहुरुद्विग्नमिव मे मनः ।
प्रायशश्चाप्यनिष्टानि निमित्तान्युपलक्षये ॥३-६९-२१॥
तस्मात् सज्जीभवार्य त्वं कुरुष्व वचनं मम ।
ममैव हि निमित्तानि सद्यः शंसन्ति सम्भ्रमम् ॥३-६९-२२॥
एष वञ्जुलको नाम पक्षी परमदारुणः ।
आवयोर्विजयं युद्धे शंसन्निव विनर्दति ॥३-६९-२३॥
तयोरन्वेषतोरेवं सर्वं तद् वनमोजसा ।
संजज्ञे विपुलः शब्दः प्रभञ्जन्निव तद् वनम् ॥३-६९-२४॥
संवेष्टितमिवात्यर्थं गहनं मातरिश्वना ।
वनस्य तस्य शब्दोऽभूद् वनमापूरयन्निव ॥३-६९-२५॥
तं शब्दं कांक्षमाणस्तु रामः खड्गी सहानुजः ।
ददर्श सुमहाकायं राक्षसं विपुलोरसम् ॥३-६९-२६॥
आसेदतुश्च तद्रक्षस्तावुभौ प्रमुखे स्थितम् ।
विवृद्धमशिरोग्रीवं कबन्धमुदरेमुखम् ॥३-६९-२७॥
रोमभिर्निशितैस्तीक्ष्णैर्महागिरिमिवोच्छ्रितम् ।
नीलमेघनिभं रौद्रं मेघस्तनितनिःस्वनम् ॥३-६९-२८॥
अग्निज्वालानिकाशेन ललाटस्थेन दीप्यता ।
महापक्षेण पिङ्गेन विपुलेनायतेन च ॥३-६९-२९॥
एकेनोरसि घोरेण नयनेन सुदर्शिना ।
महादंष्ट्रोपपन्नं तं लेलिहानं महामुखम् ॥३-६९-३०॥
भक्षयन्तं महाघोरानृक्षसिंहमृगद्विजान् ।
घोरौ भुजौ विकुर्वाणमुभौ योजनमायतौ ॥३-६९-३१॥
कराभ्यां विविधान् गृह्य ऋक्षान् पक्षिगणान् मृगान् ।
आकर्षन्तं विकर्षन्तमनेकान् मृगयूथपान् ॥३-६९-३२॥
स्थितमावृत्य पन्थानं तयोर्भ्रात्रोः प्रपन्नयोः ।
अथ तं समतिक्रम्य क्रोशमात्रं ददर्शतुः ॥३-६९-३३॥
महान्तं दारुणं भीमं कबन्धं भुजसंवृतम् ।
कबन्धमिव संस्थानादतिघोरप्रदर्शनम् ॥३-६९-३४॥
स महाबाहुरत्यर्थं प्रसार्य विपुलौ भुजौ ।
जग्राह सहितावेव राघवौ पीडयन् बलात् ॥३-६९-३५॥
खड्गिनौ दृढधन्वानौ तिग्मतेजौ महाभुजौ ।
भ्रातरौ विवशं प्राप्तौ कृष्यमाणौ महाबलौ ॥३-६९-३६॥
तत्र धैर्याच्च शूरस्तु राघवो नैव विव्यथे ।
बाल्यादनाश्रयाच्चैव लक्ष्मणस्त्वभिविव्यथे ॥३-६९-३७॥
उवाच च विषण्णः सन् राघवं राघवानुजः ।
पश्य मां विवशं वीर राक्षसस्य वशंगतम् ॥३-६९-३८॥
मयैकेन तु निर्युक्तः परिमुच्यस्व राघव ।
मां हि भूतबलिं दत्त्वा पलायस्व यथासुखम् ॥३-६९-३९॥
अधिगन्तासि वैदेहीमचिरेणेति मे मतिः ।
प्रतिलभ्य च काकुत्स्थ पितृपैतामहीं महीम् ॥३-६९-४०॥
तत्र मां राम राज्यस्थः स्मर्तुमर्हसि सर्वदा ।
लक्ष्मणेनैवमुक्तस्तु रामः सौमित्रिमब्रवीत् ॥३-६९-४१॥
मा स्म त्रासं वृथा वीर नहि त्वादृग् विषीदति ।
एतस्मिन्नन्तरे क्रूरो भ्रातरौ रामलक्ष्मणौ ॥३-६९-४२॥
तावुवाच महाबाहुः कबन्धो दानवोत्तमः ।
कौ युवां वृषभस्कन्धौ महाखड्गधनुर्धरौ ॥३-६९-४३॥
घोरं देशमिमं प्राप्तौ दैवेन मम चाक्षुषौ ।
वदतं कार्यमिह वां किमर्थं चागतौ युवाम् ॥३-६९-४४॥
इमं देशमनुप्राप्तौ क्षुधार्तस्येह तिष्ठतः ।
सबाणचापखड्गौ च तीक्ष्णशृङ्गाविवर्षभौ ॥३-६९-४५॥
मां तूर्णमनुसम्प्राप्तौ दुर्लभं जीवितं हि वाम् ।
तस्य तद् वचनं श्रुत्वा कबन्धस्य दुरात्मनः ॥३-६९-४६॥
उवाच लक्ष्मणं रामो मुखेन परिशुष्यता ।
कृच्छ्रात् कृच्छ्रतरं प्राप्य दारुणं सत्यविक्रम ॥३-६९-४७॥
व्यसनं जीवितान्ताय प्राप्तमप्राप्य तां प्रियाम् ।
कालस्य सुमहद् वीर्यं सर्वभूतेषु लक्ष्मण ॥३-६९-४८॥
त्वां च मां च नरव्याघ्र व्यसनैः पश्य मोहितौ ।
नहि भारोऽस्ति दैवस्य सर्वभूतेषु लक्ष्मण ॥३-६९-४९॥
शूराश्च बलवन्तश्च कृतास्त्राश्च रणाजिरे ।
कालाभिपन्नाः सीदन्ति यथा वालुकसेतवः ॥३-६९-५०॥
इति ब्रुवाणो दृढसत्यविक्रमो महायशा दाशरथिः प्रतापवान् ।
अवेक्ष्य सौमित्रिमुदग्रविक्रमः स्थिरां तदा स्वां मतिमात्मनाकरोत् ॥३-६९-५१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे कबन्धग्राहः नाम एकोनसप्ततितमः सर्गः ॥३-६९॥
Previous
जटयुस्संस्कारः
Next
कबन्धबाहुच्छेदः