जटयुस्संस्कारः

अरण्यकाण्डः / जटयुस्संस्कारः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे जटयुस्संस्कारः नाम अष्टषष्ठितमः सर्गः ॥३-६८॥
रामः प्रेक्ष्य तु तं गृध्रं भुवि रौद्रेण पातितम् । सौमित्रिं मित्रसम्पन्नमिदं वचनमब्रवीत् ॥३-६८-१॥
ममायं नूनमर्थेषु यतमानो विहंगमः । राक्षसेन हतः संख्ये प्राणांस्त्यजति मत्कृते ॥३-६८-२॥
अतिखिन्नः शरीरेऽस्मिन् प्राणो लक्ष्मण विद्यते । तथा स्वरविहीनोऽयं विक्लवं समुदीक्षते ॥३-६८-३॥
जटायो यदि शक्नोषि वाक्यं व्याहरितुं पुनः । सीतामाख्याहि भद्रं ते वधमाख्याहि चात्मनः ॥३-६८-४॥
किंनिमित्तो जहारार्यां रावणस्तस्य किं मया । अपराधं तु यं दृष्ट्वा रावणेन हृता प्रिया ॥३-६८-५॥
कथं तच्चन्द्रसंकाशं मुखमासीन्मनोहरम् । सीतया कानि चोक्तानि तस्मिन् काले द्विजोत्तम ॥३-६८-६॥
कथंवीर्यः कथंरूपः किंकर्मा स च राक्षसः । क्व चास्य भवनं तात ब्रूहि मे परिपृच्छतः ॥३-६८-७॥
तमुद्वीक्ष्य स धर्मात्मा विलपन्तमनाथवत् । वाचा विक्लवया राममिदं वचनमब्रवीत् ॥३-६८-८॥
सा हृता राक्षसेन्द्रेण रावणेन दुरात्मना । मायामास्थाय विपुलां वातदुर्दिनसंकुलाम् ॥३-६८-९॥
परिक्लान्तस्य मे तात पक्षौ छित्त्वा निशाचरः । सीतामादाय वैदेहीं प्रयातो दक्षिणामुखः ॥३-६८-१०॥
उपरुध्यन्ति मे प्राणा दृष्टिर्भ्रमति राघव । पश्यामि वृक्षान् सौवर्णानुशीरकृतमूर्धजान् ॥३-६८-११॥
येन याति मुहूर्तेन सीतामादाय रावणः । विप्रणष्टं धनं क्षिप्रं तत्स्वामी प्रतिपद्यते ॥३-६८-१२॥
विन्दो नाम मुहूर्तोऽसौ न च काकुत्स्थ सोऽबुधत् । त्वत्प्रियां जानकीं हृत्वा रावणो राक्षसेश्वरः । झषवद् बडिशं गृह्य क्षिप्रमेव विनश्यति ॥३-६८-१३॥
न च त्वया व्यथा कार्या जनकस्य सुतां प्रति । वैदेह्या रंस्यसे क्षिप्रं हत्वा तं रणमूर्धनि ॥३-६८-१४॥
असम्मूढस्य गृध्रस्य रामं प्रत्यनुभाषतः । आस्यात् सुस्राव रुधिरं म्रियमाणस्य सामिषम् ॥३-६८-१५॥
पुत्रो विश्रवसः साक्षाद् भ्राता वैश्रवणस्य च । इत्युक्त्वा दुर्लभान् प्राणान् मुमोच पतगेश्वरः ॥३-६८-१६॥
ब्रूहि ब्रूहीति रामस्य ब्रुवाणस्य कृताञ्जलेः । त्यक्त्वा शरीरं गृध्रस्य प्राणा जग्मुर्विहायसम् ॥३-६८-१७॥
स निक्षिप्य शिरो भूमौ प्रसार्य चरणौ तथा । विक्षिप्य च शरीरं स्वं पपात धरणीतले ॥३-६८-१८॥
तं गृध्रं प्रेक्ष्य ताम्राक्षं गतासुमचलोपमम् । रामः सुबहुभिर्दुःखैर्दीनः सौमित्रिमब्रवीत् ॥३-६८-१९॥
बहूनि रक्षसां वासे वर्षाणि वसता सुखम् । अनेन दण्डकारण्ये विशीर्णमिह पक्षिणा ॥३-६८-२०॥
अनेकवार्षिको यस्तु चिरकालसमुत्थितः । सोऽयमद्य हतः शेते कालो हि दुरतिक्रमः ॥३-६८-२१॥
पश्य लक्ष्मण गृध्रोऽयमुपकारी हतश्च मे । सीतामभ्यवपन्नो हि रावणेन बलीयसा ॥३-६८-२२॥
गृध्रराज्यं परित्यज्य पितृपैतामहं महत् । मम हेतोरयं प्राणान् मुमोच पतगेश्वरः ॥३-६८-२३॥
सर्वत्र खलु दृश्यन्ते साधवो धर्मचारिणः । शूराः शरण्याः सौमित्रे तिर्यग्योनिगतेष्वपि ॥३-६८-२४॥
सीताहरणजं दुःखं न मे सौम्य तथागतम् । यथा विनाशो गृध्रस्य मत्कृते च परंतप ॥३-६८-२५॥
राजा दशरथः श्रीमान् यथा मम महायशाः । पूजनीयश्च मान्यश्च तथायं पतगेश्वरः ॥३-६८-२६॥
सौमित्रे हर काष्ठानि निर्मथिष्यामि पावकम् । गृध्रराजं दिधक्ष्यामि मत्कृते निधनं गतम् ॥३-६८-२७॥
नाथं पतगलोकस्य चितिमारोपयाम्यहम् । इमं धक्ष्यामि सौमित्रे हतं रौद्रेण रक्षसा ॥३-६८-२८॥
या गतिर्यज्ञशीलानामाहिताग्नेश्च या गतिः । अपरावर्तिनां या च या च भूमिप्रदायिनाम् ॥३-६८-२९॥
मया त्वं समनुज्ञातो गच्छ लोकाननुत्तमान् । गृध्रराज महासत्त्व संस्कृतश्च मया व्रज ॥३-६८-३०॥
एवमुक्त्वा चितां दीप्तामारोप्य पतगेश्वरम् । ददाह रामो धर्मात्मा स्वबन्धुमिव दुःखितः ॥३-६८-३१॥
रामोऽथ सहसौमित्रिर्वनं गत्वा स वीर्यवान् । स्थूलान् हत्वा महारोहीननुतस्तार तं द्विजम् ॥३-६८-३२॥
रोहिमांसानि चोद्धृत्य पेशीकृत्वा महायशाः । शकुनाय ददौ रामो रम्ये हरितशाद्वले ॥३-६८-३३॥
यत् तत् प्रेतस्य मर्त्यस्य कथयन्ति द्विजातयः । तत् स्वर्गगमनं पित्र्यं तस्य रामो जजाप ह ॥३-६८-३४॥
ततो गोदावरीं गत्वा नदीं नरवरात्मजौ । उदकं चक्रतुस्तस्मै गृध्रराजाय तावुभौ ॥३-६८-३५॥
शास्त्रदृष्टेन विधिना जलं गृध्राय राघवौ । स्नात्वा तौ गृध्रराजाय उदकं चक्रतुस्तदा ॥३-६८-३६॥
स गृध्रराजः कृतवान् यशस्करं सुदुष्करं कर्म रणे निपातितः । महर्षिकल्पेन च संस्कृतस्तदा जगाम पुण्यां गतिमात्मनः शुभाम् ॥३-६८-३७॥
कृतोदकौ तावपि पक्षिसत्तमे स्थिरां च बुद्धिं प्रणिधाय जग्मतुः । प्रवेश्य सीताधिगमे ततो मनो वनं सुरेन्द्राविव विष्णुवासवौ ॥३-६८-३८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे जटयुस्संस्कारः नाम अष्टषष्ठितमः सर्गः ॥३-६८॥