गृध्रराजदर्शनम्
अरण्यकाण्डः / गृध्रराजदर्शनम्
Script
Translation
Previous
औचित्यप्रबोधनम्
Next
जटयुस्संस्कारः
अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे गृध्रराजदर्शनम् नाम सप्तषष्ठितमः सर्गः ॥३-६७॥
पूर्वजोऽप्युक्तमात्रस्तु लक्ष्मणेन सुभाषितम् ।
सारग्राही महासारं प्रतिजग्राह राघवः ॥३-६७-१॥
स निगृह्य महाबाहुः प्रवृद्धं रोषमात्मनः ।
अवष्टभ्य धनुश्चित्रं रामो लक्ष्मणमब्रवीत् ॥३-६७-२॥
किं करिष्यावहे वत्स क्व वा गच्छाव लक्ष्मण ।
केनोपायेन पश्यावः सीतामिह विचिन्तय ॥३-६७-३॥
तं तथा परितापार्तं लक्ष्मणो वाक्यमब्रवीत् ।
इदमेव जनस्थानं त्वमन्वेषितुमर्हसि ॥३-६७-४॥
राक्षसैर्बहुभिः कीर्णं नानाद्रुमलतायुतम् ।
सन्तीह गिरिदुर्गाणि निर्दराः कन्दराणि च ॥३-६७-५॥
गुहाश्च विविधा घोरा नानामृगगणाकुलाः ।
आवासाः किंनराणां च गन्धर्वभवनानि च ॥३-६७-६॥
तानि युक्तो मया सार्धं समन्वेषितुमर्हसि ।
त्वद्विधा बुद्धिसम्पन्ना महात्मानो नरर्षभाः ॥३-६७-७॥
आपत्सु न प्रकम्पन्ते वायुवेगैरिवाचलाः ।
इत्युक्तस्तद् वनं सर्वं विचचार सलक्ष्मणः ॥३-६७-८॥
क्रुद्धो रामः शरं घोरं संधाय धनुषि क्षुरम् ।
ततः पर्वतकूटाभं महाभागं द्विजोत्तमम् ॥३-६७-९॥
ददर्श पतितं भूमौ क्षतजार्द्रं जटायुषम् ।
तं दृष्ट्वा गिरिशृङ्गाभं रामो लक्ष्मणमब्रवीत् ॥३-६७-१०॥
अनेन सीता वैदेही भक्षिता नात्र संशयः ।
गृध्ररूपमिदं व्यक्तं रक्षो भ्रमति काननम् ॥३-६७-११॥
भक्षयित्वा विशालाक्षीमास्ते सीतां यथासुखम् ।
एनं वधिष्ये दीप्ताग्रैः शरैर्घोरैरजिह्मगैः ॥३-६७-१२॥
इत्युक्त्वाभ्यपतद् द्रष्टुं संधाय धनुषि क्षुरम् ।
क्रुद्धो रामः समुद्रान्तां चालयन्निव मेदिनीम् ॥३-६७-१३॥
तं दीनदीनया वाचा सफेनं रुधिरं वमन् ।
अभ्यभाषत पक्षी स रामं दशरथात्मजम् ॥३-६७-१४॥
यामोषधीमिवायुष्मन्नन्वेषसि महावने ।
सा देवी मम च प्राणा रावणेनोभयं हृतम् ॥३-६७-१५॥
त्वया विरहिता देवी लक्ष्मणेन च राघव ।
ह्रियमाणा मया दृष्टा रावणेन बलीयसा ॥३-६७-१६॥
सीतामभ्यवपन्नोऽहं रावणश्च रणे प्रभो ।
विध्वंसितरथच्छत्रः पतितो धरणीतले ॥३-६७-१७॥
एतदस्य धनुर्भग्नमेते चास्य शरास्तथा ।
अयमस्य रणे राम भग्नः सांग्रामिको रथः ॥३-६७-१८॥
अयं तु सारथिस्तस्य मत्पक्षनिहतो भुवि ।
परिश्रान्तस्य मे पक्षौ छित्त्वा खड्गेन रावणः ॥३-६७-१९॥
सीतामादाय वैदेहीमुत्पपात विहायसम् ।
रक्षसा निहतं पूर्वं मां न हन्तुं त्वमर्हसि ॥३-६७-२०॥
रामस्तस्य तु विज्ञाय सीतासक्तां प्रियां कथाम् ।
गृध्रराजं परिष्वज्य परित्यज्य महद् धनुः ॥३-६७-२१॥
निपपातावशो भूमौ रुरोद सहलक्ष्मणः ।
द्विगुणीकृततापार्तो रामो धीरतरोऽपि सन् ॥३-६७-२२॥
एकमेकायने कृच्छ्रे निःश्वसन्तं मुहुर्मुहुः ।
समीक्ष्य दुःखितो रामः सौमित्रिमिदमब्रवीत् ॥३-६७-२३॥
राज्यं भ्रष्टं वने वासः सीता नष्टा मृतो द्विजः ।
ईदृशीयं ममालक्ष्मीर्दहेदपि हि पावकम् ॥३-६७-२४॥
सम्पूर्णमपि चेदद्य प्रतरेयं महोदधिम् ।
सोऽपि नूनं ममालक्ष्म्या विशुष्येत् सरितां पतिः ॥३-६७-२५॥
नास्त्यभाग्यतरो लोके मत्तोऽस्मिन् स चराचरे ।
येनेयं महती प्राप्ता मया व्यसनवागुरा ॥३-६७-२६॥
अयं पितुर्वयस्यो मे गृध्रराजो महाबलः ।
शेते विनिहतो भूमौ मम भाग्यविपर्ययात् ॥३-६७-२७॥
इत्येवमुक्त्वा बहुशो राघवः सहलक्ष्मणः ।
जटायुषं च पस्पर्श पितृस्नेहं निदर्शयन् ॥३-६७-२८॥
निकृत्तपक्षं रुधिरावसिक्तं तं गृध्रराजं परिगृह्य राघवः ।
क्व मैथिली प्राणसमा गतेति विमुच्य वाचं निपपात भूमौ ॥३-६७-२९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे गृध्रराजदर्शनम् नाम सप्तषष्ठितमः सर्गः ॥३-६७॥
Previous
औचित्यप्रबोधनम्
Next
जटयुस्संस्कारः