अनिमित्तदर्शनम्
अरण्यकाण्डः / अनिमित्तदर्शनम्
Script
Translation
Previous
रामप्रत्यागमनम्
Next
लक्ष्मणागमनविगर्हणम्
अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे अनिमित्तदर्शनम् नाम अष्टपञ्चाशः सर्गः ॥३-५८॥
स दृष्ट्वा लक्ष्मणं दीनं शून्यं दशरथात्मजः ।
पर्यपृच्छत धर्मात्मा वैदेहीमागतं विना ॥३-५८-१॥
प्रस्थितं दण्डकारण्यं या मामनुजगाम ह ।
क्व सा लक्ष्मण वैदेही यां हित्वा त्वमिहागतः ॥३-५८-२॥
राज्यभ्रष्टस्य दीनस्य दण्डकान् परिधावतः ।
क्व सा दुःखसहाया मे वैदेही तनुमध्यमा ॥३-५८-३॥
यां विना नोत्सहे वीर मुहूर्तमपि जीवितुम् ।
क्व सा प्राणसहाया मे सीता सुरसुतोपमा ॥३-५८-४॥
पतित्वममराणां हि पृथिव्याश्चापि लक्ष्मण ।
विना तां तपनीयाभां नेच्छेयं जनकात्मजाम् ॥३-५८-५॥
कच्चिज्जीवति वैदेही प्राणैः प्रियतरा मम ।
कच्चित् प्रव्राजनं वीर न मे मिथ्या भविष्यति ॥३-५८-६॥
सीतानिमित्तं सौमित्रे मृते मयि गते त्वयि ।
कच्चित् सकामा कैकेयी सुखिता सा भविष्यति ॥३-५८-७॥
सपुत्रराज्यां सिद्धार्थां मृतपुत्रा तपस्विनी ।
उपस्थास्यति कौसल्या कच्चित् सौम्येन कैकयीम् ॥३-५८-८॥
यदि जीवति वैदेही गमिष्याम्याश्रमं पुनः ।
संवृत्ता यदि वृत्ता सा प्राणांस्त्यक्ष्यामि लक्ष्मण ॥३-५८-९॥
यदि मामाश्रमगतं वैदेही नाभिभाषते ।
पुरः प्रहसिता सीता विनशिष्यामि लक्ष्मण ॥३-५८-१०॥
ब्रूहि लक्ष्मण वैदेही यदि जीवति वा न वा ।
त्वयि प्रमत्ते रक्षोभिर्भक्षिता वा तपस्विनी ॥३-५८-११॥
सुकुमारी च बाला च नित्यं चादुःखभागिनी ।
मद्वियोगेन वैदेही व्यक्तं शोचति दुर्मनाः ॥३-५८-१२॥
सर्वथा रक्षसा तेन जिह्मेन सुदुरात्मना ।
वदता लक्ष्मणेत्युच्चैस्तवापि जनितं भयम् ॥३-५८-१३॥
श्रुतश्च मन्ये वैदेह्या स स्वरः सदृशो मम ।
त्रस्तया प्रेषितस्त्वं च द्रष्टुं मां शीघ्रमागतः ॥३-५८-१४॥
सर्वथा तु कृतं कष्टं सीतामुत्सृजता वने ।
प्रतिकर्तुं नृशंसानां रक्षसां दत्तमन्तरम् ॥३-५८-१५॥
दुःखिताः खरघातेन राक्षसाः पिशिताशनाः ।
तैः सीता निहता घोरैर्भविष्यति न संशयः ॥३-५८-१६॥
अहोऽस्मि व्यसने मग्नः सर्वथा रिपुनाशन ।
किं त्विदानीं करिष्यामि शङ्के प्राप्तव्यमीदृशम् ॥३-५८-१७॥
इति सीतां वरारोहां चिन्तयन्नेव राघवः ।
आजगाम जनस्थानं त्वरया सहलक्ष्मणः ॥३-५८-१८॥
विगर्हमाणोऽनुजमार्तरूपं क्षुधाश्रमेणैव पिपासया च ।
विनिःश्वसन् शुष्कमुखो विषण्णः प्रतिश्रयं प्राप्य समीक्ष्य शून्यम् ॥३-५८-१९॥
स्वमाश्रमं स प्रविगाह्य वीरो विहारदेशाननुसृत्य कांश्चित् ।
एतत्तदित्येव निवासभूमौ प्रहृष्टरोमा व्यथितो बभूव ॥३-५८-२०॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे अनिमित्तदर्शनम् नाम अष्टपञ्चाशः सर्गः ॥३-५८॥
Previous
रामप्रत्यागमनम्
Next
लक्ष्मणागमनविगर्हणम्