रामप्रत्यागमनम्
अरण्यकाण्डः / रामप्रत्यागमनम्
Script
Translation
Previous
वत्सरावधिकरणम्
Next
अनिमित्तदर्शनम्
अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे रामप्रत्यागमनम् नाम सप्तपञ्चाशः सर्गः ॥३-५७॥
राक्षसं मृगरूपेण चरन्तं कामरूपिणम् ।
निहत्य रामो मारीचं तूर्णं पथि न्यवर्तत ॥३-५७-१॥
तस्य संत्वरमाणस्य द्रष्टुकामस्य मैथिलीम् ।
क्रूरस्वनोऽथ गोमायुर्विननादास्य पृष्ठतः ॥३-५७-२॥
स तस्य स्वरमाज्ञाय दारुणं रोमहर्षणम् ।
चिन्तयामास गोमायोः स्वरेण परिशङ्कितः ॥३-५७-३॥
अशुभं बत मन्येऽहं गोमायुर्वाश्यते यथा ।
स्वस्ति स्यादपि वैदेह्या राक्षसैर्भक्षणं विना ॥३-५७-४॥
मारीचेन तु विज्ञाय स्वरमालक्ष्य मामकम् ।
विक्रुष्टं मृगरूपेण लक्ष्मणः शृणुयाद् यदि ॥३-५७-५॥
स सौमित्रिः स्वरं श्रुत्वा तां च हित्वाथ मैथिलीम् ।
तयैव प्रहितः क्षिप्रं मत्सकाशमिहैष्यति ॥३-५७-६॥
राक्षसैः सहितैर्नूनं सीताया ईप्सितो वधः ।
काञ्चनश्च मृगो भूत्वा व्यपनीयाश्रमात्तु माम् ॥३-५७-७॥
दूरं नीत्वाथ मारीचो राक्षसोऽभूच्छराहतः ।
हा लक्ष्मण हतोऽस्मीति यद्वाक्यं व्याजहार ह ॥३-५७-८॥
अपि स्वस्ति भवेद् द्वाभ्यां रहिताभ्यां मया वने ।
जनस्थाननिमित्तं हि कृतवैरोऽस्मि राक्षसैः ॥३-५७-९॥
निमित्तानि च घोराणि दृश्यन्तेऽद्य बहूनि च ।
इत्येवं चिन्तयन् रामः श्रुत्वा गोमायुनिःस्वनम् ॥३-५७-१०॥
निवर्तमानस्त्वरितो जगामाश्रममात्मवान् ।
आत्मनश्चापनयनं मृगरूपेण रक्षसा ॥३-५७-११॥
आजगाम जनस्थानं राघवः परिशङ्कितः ।
तं दीनमानसं दीनमासेदुर्मृगपक्षिणः ॥३-५७-१२॥
सव्यं कृत्वा महात्मानं घोरांश्च ससृजुः स्वरान् ।
तानि दृष्ट्वा निमित्तानि महाघोराणि राघवः ।
न्यवर्तताथ त्वरितो जवेनाश्रममात्मनः ॥३-५७-१३॥
ततो लक्ष्मणमायान्तं ददर्श विगतप्रभम् ।
ततोऽविदूरे रामेण समीयाय स लक्ष्मणः ॥३-५७-१४॥
विषण्णः सन् विषण्णेन दुःखितो दुःखभागिना ।
स जगर्हेऽथ तं भ्राता दृष्ट्वा लक्ष्मणमागतम् ॥३-५७-१५॥
विहाय सीतां विजने वने राक्षससेविते ।
गृहीत्वा च करं सव्यं लक्ष्मणं रघुनन्दनः ॥३-५७-१६॥
उवाच मधुरोदर्कमिदं परुषमार्तवत् ।
अहो लक्ष्मण गर्ह्यं ते कृतं यत् त्वं विहाय ताम् ॥३-५७-१७॥
सीतामिहागतः सौम्य कच्चित् स्वस्ति भवेदिति ।
न मेऽस्ति संशयो वीर सर्वथा जनकात्मजा ॥३-५७-१८॥
विनष्टा भक्षिता वापि राक्षसैर्वनचारिभिः ।
अशुभान्येव भूयिष्ठं यथा प्रादुर्भवन्ति मे ॥३-५७-१९॥
अपि लक्ष्मण सीतायाः सामग्र्यं प्राप्नुयामहे ।
जीवन्त्याः पुरुषव्याघ्र सुताया जनकस्य वै ॥३-५७-२०॥
यथा वै मृगसंघाश्च गोमायुश्चैव भैरवम् ।
वाश्यन्ते शकुनाश्चापि प्रदीप्तामभितो दिशम् ।
अपि स्वस्ति भवेत् तस्या राजपुत्र्या महाबल ॥३-५७-२१॥
इदं हि रक्षो मृगसंनिकाशं प्रलोभ्य मां दूरमनुप्रयातम् ।
हतं कथंचिन्महता श्रमेण स राक्षसोऽभून्म्रियमाण एव ॥३-५७-२२॥
मनश्च मे दीनमिहाप्रहृष्टं चक्षुश्च सव्यं कुरुते विकारम् ।
असंशयं लक्ष्मण नास्ति सीता हृता मृता वा पथि वर्तते वा ॥३-५७-२३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे रामप्रत्यागमनम् नाम सप्तपञ्चाशः सर्गः ॥३-५७॥
Previous
वत्सरावधिकरणम्
Next
अनिमित्तदर्शनम्