लक्ष्मणागमनविगर्हणम्
अरण्यकाण्डः / लक्ष्मणागमनविगर्हणम्
Script
Translation
Previous
अनिमित्तदर्शनम्
Next
रामोन्मादः
अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे लक्ष्मणागमनविगर्हणम् नाम एकोनषष्ठितमः सर्गः ॥३-५९॥
अथाश्रमादुपावृत्तमन्तरा रघुनन्दनः ।
परिपप्रच्छ सौमित्रिं रामो दुःखादिदं वचः ॥३-५९-१॥
तमुवाच किमर्थं त्वमागतोऽपास्य मैथिलीम् ।
यदा सा तव विश्वासाद् वने विरहिता मया ॥३-५९-२॥
दृष्ट्वैवाभ्यागतं त्वां मे मैथिलीं त्यज्य लक्ष्मण ।
शङ्कमानं महत् पापं यत्सत्यं व्यथितं मनः ॥३-५९-३॥
स्फुरते नयनं सव्यं बाहुश्च हृदयं च मे ।
दृष्ट्वा लक्ष्मण दूरे त्वां सीताविरहितं पथि ॥३-५९-४॥
एवमुक्तस्तु सौमित्रिर्लक्ष्मणः शुभलक्षणः ।
भूयो दुःखसमाविष्टो दुःखितं राममब्रवीत् ॥३-५९-५॥
न स्वयं कामकारेण तां त्यक्त्वाहमिहागतः ।
प्रचोदितस्तयैवोग्रैस्त्वत्सकाशमिहागतः ॥३-५९-६॥
आर्येणेव परिक्रुष्टं लक्ष्मणेति सुविस्वरम् ।
परित्राहीति यद्वाक्यं मैथिल्यास्तच्छ्रुतिं गतम् ॥३-५९-७॥
सा तमार्तस्वरं श्रुत्वा तव स्नेहेन मैथिली ।
गच्छ गच्छेति मामाशु रुदती भयविक्लवा ॥३-५९-८॥
प्रचोद्यमानेन मया गच्छेति बहुशस्तया ।
प्रत्युक्ता मैथिली वाक्यमिदं तत् प्रत्ययान्वितम् ॥३-५९-९॥
न तत् पश्याम्यहं रक्षो यदस्य भयमावहेत् ।
निर्वृता भव नास्त्येतत् केनाप्येतदुदाहृतम् ॥३-५९-१०॥
विगर्हितं च नीचं च कथमार्योऽभिधास्यति ।
त्राहीति वचनं सीते यस्त्रायेत् त्रिदशानपि ॥३-५९-११॥
किंनिमित्तं तु केनापि भ्रातुरालम्ब्य मे स्वरम् ।
विस्वरं व्याहृतं वाक्यं लक्ष्मण त्राहि मामिति ॥३-५९-१२॥
राक्षसेनेरितं वाक्यं त्रासात् त्राहीति शोभने ।
न भवत्या व्यथा कार्या कुनारीजनसेविता ॥३-५९-१३॥
अलं विक्लवतां गन्तुं स्वस्था भव निरुत्सुका ।
न चास्ति त्रिषु लोकेषु पुमान् यो राघवं रणे ॥३-५९-१४॥
जातो वा जायमानो वा संयुगे यः पराजयेत् ।
अजेयो राघवो युद्धे देवैः शक्रपुरोगमैः ॥३-५९-१५॥
एवमुक्ता तु वैदेही परिमोहितचेतना ।
उवाचाश्रूणि मुञ्चन्ती दारुणं मामिदं वचः ॥३-५९-१६॥
भावो मयि तवात्यर्थं पाप एव निवेशितः ।
विनष्टे भ्रातरि प्राप्तुं न च त्वं मामवाप्स्यसे ॥३-५९-१७॥
संकेताद् भरतेन त्वं रामं समनुगच्छसि ।
क्रोशन्तं हि यथात्यर्थं नैनमभ्यवपद्यसे ॥३-५९-१८॥
रिपुः प्रच्छन्नचारी त्वं मदर्थमनुगच्छसि ।
राघवस्यान्तरं प्रेप्सुस्तथैनं नाभिपद्यसे ॥३-५९-१९॥
एवमुक्तस्तु वैदेह्या संरब्धो रक्तलोचनः ।
क्रोधात् प्रस्फुरमाणोष्ठ आश्रमादभिनिर्गतः ॥३-५९-२०॥
एवं ब्रुवाणं सौमित्रिं रामः संतापमोहितः ।
अब्रवीद् दुष्कृतं सौम्य तां विना त्वमिहागतः ॥३-५९-२१॥
जानन्नपि समर्थं मां रक्षसामपवारणे ।
अनेन क्रोधवाक्येन मैथिल्या निर्गतो भवान् ॥३-५९-२२॥
नहि ते परितुष्यामि त्यक्त्वा यदसि मैथिलीम् ।
क्रुद्धायाः परुषं श्रुत्वा स्त्रिया यत् त्वमिहागतः ॥३-५९-२३॥
सर्वथा त्वपनीतं ते सीतया यत् प्रचोदितः ।
क्रोधस्य वशमागम्य नाकरोः शासनं मम ॥३-५९-२४॥
असौ हि राक्षसः शेते शरेणाभिहतो मया ।
मृगरूपेण येनाहमाश्रमादपवाहितः ॥३-५९-२५॥
विकृष्य चापं परिधाय सायकं सलीलबाणेन च ताडितो मया ।
मार्गीं तनुं त्यज्य च विक्लवस्वरो बभूव केयूरधरः स राक्षसः ॥३-५९-२६॥
शराहतेनैव तदार्तया गिरा स्वरं ममालम्ब्य सुदूरसुश्रवम् ।
उदाहृतं तद् वचनं सुदारुणं त्वमागतो येन विहाय मैथिलीम् ॥३-५९-२७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे लक्ष्मणागमनविगर्हणम् नाम एकोनषष्ठितमः सर्गः ॥३-५९॥
Previous
अनिमित्तदर्शनम्
Next
रामोन्मादः