वत्सरावधिकरणम्

अरण्यकाण्डः / वत्सरावधिकरणम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे वत्सरावधिकरणम् नाम षट्पञ्चाशः सर्गः ॥३-५६॥
प्रवेशितायां सीतायां लङ्कां प्रति पितामहः । तदा प्रोवाच देवेन्द्रं परितुष्टं शतक्रतुम् ॥३-५६-१॥
त्रैलोक्यस्य हितार्थाय रक्षसामहिताय च । लङ्कां प्रवेशिता सीता रावणेन दुरात्मना ॥३-५६-२॥
पतिव्रता महाभागा नित्यं चैव सुखैधिता । अपश्यन्ती च भर्तारं पश्यन्ती राक्षसीजनम् ॥३-५६-३॥
राक्षसीभिः परिवृता भर्तृदर्शनलालसा । निविष्टा हि पुरी लङ्का तीरे नदनदीपतेः ॥३-५६-४॥
कथं ज्ञास्यति तां रामस्तत्रस्थां तामनिन्दिताम् । दुःखं संचिन्तयन्ती सा बहुशः परिदुर्लभा ॥३-५६-५॥
प्राणयात्रामकुर्वाणा प्राणांस्त्यक्ष्यत्यसंशयम् । स भूयः संशयो जातः सीतायाः प्राणसंक्षये ॥३-५६-६॥
स त्वं शीघ्रमितो गत्वा सीतां पश्य शुभाननाम् । प्रविश्य नगरीं लङ्कां प्रयच्छ हविरुत्तमम् ॥३-५६-७॥
एवमुक्तोऽथ देवेन्द्रः पुरीं रावणपालिताम् । आगच्छन्निद्रया सार्धं भगवान् पाकशासनः ॥३-५६-८॥
निद्रां चोवाच गच्छ त्वं राक्षसान् सम्प्रमोहय । सा तथोक्ता मघवता देवी परमहर्षिता ॥३-५६-९॥
देवकार्यार्थसिद्ध्यर्थं प्रामोहयत राक्षसान् । एतस्मिन्नन्तरे देवः सहस्राक्षः शचीपतिः ॥३-५६-१०॥
आससाद वनस्थां तां वचनं चेदमब्रवीत् । देवराजोऽस्मि भद्रं ते इह चास्मि शुचिस्मिते ॥३-५६-११॥
अहं त्वां कार्यसिद्ध्यर्थं राघवस्य महात्मनः । साहाय्यं कल्पयिष्यामि मा शुचो जनकात्मजे ॥३-५६-१२॥
मत्प्रसादात् समुद्रं स तरिष्यति बलैः सह । मयैवेह च राक्षस्यो मायया मोहिताः शुभे ॥३-५६-१३॥
तस्मादन्नमिदं सीते हविष्यान्नमहं स्वयम् । स त्वां संगृह्य वैदेहि आगतः सह निद्रया ॥३-५६-१४॥
एतदत्स्यसि मद्धस्तान्न त्वां बाधिष्यते शुभे । क्षुधा तृषा च रम्भोरु वर्षाणामयुतैरपि ॥३-५६-१५॥
एवमुक्ता तु देवेन्द्रमुवाच परिशङ्किता । कथं जानामि देवेन्द्रं त्वामिहस्थं शचीपतिम् ॥३-५६-१६॥
देवलिङ्गानि दृष्टानि रामलक्ष्मणसंनिधौ । तानि दर्शय देवेन्द्र यदि त्वं देवराट् स्वयम् ॥३-५६-१७॥
सीताया वचनं श्रुत्वा तथा चक्रे शचीपतिः । पृथिवीं नास्पृशत् पद्भ्यामनिमेषेक्षणानि च ॥३-५६-१८॥
अरजोऽम्बरधारी च न म्लानकुसुमस्तथा । तं ज्ञात्वा लक्षणैः सीता वासवं परिहर्षिता ॥३-५६-१९॥
उवाच वाक्यं रुदती भगवन् राघवं प्रति । सह भ्रात्रा महाबाहुर्दिष्ट्या मे श्रुतिमागतः ॥३-५६-२०॥
यथा मे श्वशुरो राजा यथा च मिथिलाधिपः । तथा त्वामद्य पश्यामि सनाथो मे पतिस्त्वया ॥३-५६-२१॥
तवाज्ञया च देवेन्द्र पयोभूतमिदं हविः । अशिष्यामि त्वया दत्तं रघूणां कुलवर्धनम् ॥३-५६-२२॥
इन्द्रहस्ताद् गृहीत्वा तत् पायसं सा शुचिस्मिता । न्यवेदयत भर्त्रे सा लक्ष्मणाय च मैथिली ॥३-५६-२३॥
यदि जीवति मे भर्ता सह भ्रात्रा महाबलः । इदमस्तु तयोर्भक्त्या तदाश्नात् पायसं स्वयम् ॥३-५६-२४॥
इतीव तत् प्राश्य हविर्वरानना जहौ क्षुधादुःखसमुद्भवं च तम् । इन्द्रात् प्रवृत्तिम् उपलभ्य जानकी काकुत्स्थयोः प्रीतमना बभूव ॥३-५६-२५॥
स चापि शक्रस्त्रिदिवालयं तदा प्रीतो ययौ राघवकार्यसिद्धये । आमन्त्र्य सीतां स ततो महात्मा जगाम निद्रासहितः स्वमालयम् ॥३-५६-२६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे वत्सरावधिकरणम् नाम षट्पञ्चाशः सर्गः ॥३-५६॥