सीताविलोभनोद्यमः

अरण्यकाण्डः / सीताविलोभनोद्यमः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे सीताविलोभनोद्यमः नाम पञ्चपञ्चाशः सर्गः ॥३-५५॥
संदिश्य राक्षसान् घोरान् रावणोऽष्टौ महाबलान् । आत्मानं बुद्धिवैक्लव्यात् कृत्कृत्यममन्यत ॥३-५५-१॥
स चिन्तयानो वैदेहीं कामबाणैः प्रपीडितः । प्रविवेश गृहं रम्यं सीतां द्रष्टुमभित्वरन् ॥३-५५-२॥
स प्रविश्य तु तद्वेश्म रावणो राक्षसाधिपः । अपश्यद् राक्षसीमध्ये सीतां दुःखपरायणाम् ॥३-५५-३॥
अश्रुपूर्णमुखीं दीनां शोकभारावपीडिताम् । वायुवेगैरिवाक्रान्तां मज्जन्तीं नावमर्णवे ॥३-५५-४॥
मृगयूथपरिभ्रष्टां मृगीं श्वभिरिवावृताम् । अधोगतमुखीं सीतां तामभ्येत्य निशाचरः ॥३-५५-५॥
तां तु शोकवशाद् दीनामवशां राक्षसाधिपः । सबलाद् दर्शयामास गृहं देवगृहोपमम् ॥३-५५-६॥
हर्म्यप्रासादसम्बाधं स्त्रीसहस्रनिषेवितम् । नानापक्षिगणैर्जुष्टं नानारत्नसमन्वितम् ॥३-५५-७॥
दान्तकैस्तापनीयैश्च स्फाटिकै राजतैस्तथा । वज्रवैदूर्यचित्रैश्च स्तम्भैर्दृष्टिमनोरमैः ॥३-५५-८॥
दिव्यदुन्दुभिनिर्घोषं तप्तकाञ्चनभूषणम् । सोपानं काञ्चनं चित्रमारुरोह तया सह ॥३-५५-९॥
दान्तका राजताश्चैव गवाक्षाः प्रियदर्शनाः । हेमजालावृताश्चासंस्तत्र प्रासादपङ्क्तयः ॥३-५५-१०॥
सुधामणिविचित्राणि भूमिभागानि सर्वशः । दशग्रीवः स्वभवने प्रादर्शयत मैथिलीम् ॥३-५५-११॥
दीर्घिकाः पुष्करिण्यश्च नानापुष्पसमावृताः । रावणो दर्शयामास सीतां शोकपरायणाम् ॥३-५५-१२॥
दर्शयित्वा तु वैदेहीं कृत्स्नं तद्भवनोत्तमम् । उवाच वाक्यं पापात्मा सीतां लोभितुमिच्छया ॥३-५५-१३॥
दश राक्षसकोट्यश्च द्वाविंशतिरथापराः । वर्जयित्वा जरावृद्धान् बालांश्च रजनीचरान् ॥३-५५-१४॥
तेषां प्रभुरहं सीते सर्वेषां भीमकर्मणाम् । सहस्रमेकमेकस्य मम कार्यपुरःसरम् ॥३-५५-१५॥
यदिदं राज्यतन्त्रं मे त्वयि सर्वं प्रतिष्ठितम् । जीवितं च विशालाक्षि त्वं मे प्राणैर्गरीयसी ॥३-५५-१६॥
बह्वीनामुत्तमस्त्रीणां मम योऽसौ परिग्रहः । तासां त्वमीश्वरी सीते मम भार्या भव प्रिये ॥३-५५-१७॥
साधु किं तेऽन्यथाबुद्ध्या रोचयस्व वचो मम । भजस्व माभितप्तस्य प्रसादं कर्तुमर्हसि ॥३-५५-१८॥
परिक्षिप्ता समुद्रेण लङ्केयं शतयोजना । नेयं धर्षयितुं शक्या सेन्द्रैरपि सुरासुरैः ॥३-५५-१९॥
न देवेषु न यक्षेषु न गन्धर्वेषु नर्षिषु । अहं पश्यामि लोकेषु यो मे वीर्यसमो भवेत् ॥३-५५-२०॥
राज्यभ्रष्टेन दीनेन तापसेन पदातिना । किं करिष्यसि रामेण मानुषेणाल्पतेजसा ॥३-५५-२१॥
भजस्व सीते मामेव भर्ताहं सदृशस्तव । यौवनं त्वध्रुवं भीरु रमस्वेह मया सह ॥३-५५-२२॥
दर्शने मा कृथा बुद्धिं राघवस्य वरानने । कास्य शक्तिरिहागन्तुमपि सीते मनोरथैः ॥३-५५-२३॥
न शक्यो वायुराकाशे पाशैर्बद्धुं महाजवः । दीप्यमानस्य वाप्यग्नेर्ग्रहीतुं विमलाः शिखाः ॥३-५५-२४॥
त्रयाणामपि लोकानां न तं पश्यामि शोभने । विक्रमेण नयेद् यस्त्वां मद्बाहुपरिपालिताम् ॥३-५५-२५॥
लङ्कायाः सुमहद्राज्यमिदं त्वमनुपालय । त्वत्प्रेष्या मद्विधाश्चैव देवाश्चापि चराचरम् ॥३-५५-२६॥
अभिषेकजलक्लिन्ना तुष्टा च रमयस्व च । दुष्कृतं यत्पुरा कर्म वनवासेन तद्गतम् ॥३-५५-२७॥
यच्च ते सुकृतं कर्म तस्येह फलमाप्नुहि । इह सर्वाणि माल्यानि दिव्यगन्धानि मैथिलि ॥३-५५-२८॥
भूषणानि च मुख्यानि तानि सेव मया सह । पुष्पकं नाम सुश्रोणि भ्रातुर्वैश्रवणस्य मे ॥३-५५-२९॥
विमानं सूर्यसंकाशं तरसा निर्जितं रणे । विशालं रमणीयं च तद्विमानं मनोजवम् ॥३-५५-३०॥
तत्र सीते मया सार्धं विहरस्व यथासुखम् । वदनं पद्मसंकाशं विमलं चारुदर्शनम् ॥३-५५-३१॥
शोकार्तं तु वरारोहे न भ्राजति वरानने । एवं वदति तस्मिन् सा वस्त्रान्तेन वराङ्गना ॥३-५५-३२॥
पिधायेन्दुनिभं सीता मन्दमश्रूण्यवर्तयत् । ध्यायन्तीं तामिवास्वस्थां सीतां चिन्ताहतप्रभाम् ॥३-५५-३३॥
उवाच वचनं वीरो रावणो रजनीचरः । अलं व्रीडेन वैदेहि धर्मलोपकृतेन ते ॥३-५५-३४॥
आर्षोऽयं देवि निष्पन्दो यस्त्वामभिभविष्यति । एतौ पादौ मया स्निग्धौ शिरोभिः परिपीडितौ ॥३-५५-३५॥
प्रसादं कुरु मे क्षिप्रं वश्यो दासोऽहमस्मि ते । इमाः शून्या मया वाचः शुष्यमाणेन भाषिताः ॥३-५५-३६॥
न चापि रावणः कांचिन्मूर्ध्ना स्त्रीं प्रणमेत ह । एवमुक्त्वा दशग्रीवो मैथिलीं जनकात्मजाम् । कृतान्तवशमापन्नो ममेयमिति मन्यते ॥३-५५-३७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे सीताविलोभनोद्यमः नाम पञ्चपञ्चाशः सर्गः ॥३-५५॥