लङ्काप्रापणम्

अरण्यकाण्डः / लङ्काप्रापणम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे लङ्काप्रापणम् नाम चतुःपञ्चाशः सर्गः ॥३-५४॥
ह्रियमाणा तु वैदेही कंचिन्नाथमपश्यती । ददर्श गिरिशृङ्गस्थान् पञ्च वानरपुङ्गवान् ॥३-५४-१॥
तेषां मध्ये विशालाक्षी कौशेयं कनकप्रभम् । उत्तरीयं वरारोहा शुभान्याभरणानि च ॥३-५४-२॥
मुमोच यदि रामाय शंसेयुरिति भामिनी । वस्त्रमुत्सृज्य तन्मध्ये निक्षिप्तं सहभूषणम् ॥३-५४-३॥
सम्भ्रमात् तु दशग्रीवस्तत्कर्म च न बुद्धवान् । पिङ्गाक्षास्तां विशालाक्षीं नेत्रैरनिमिषैरिव ॥३-५४-४॥
विक्रोशन्तीं तदा सीतां ददृशुर्वानरोत्तमाः । स च पम्पामतिक्रम्य लङ्कामभिमुखः पुरीम् ॥३-५४-५॥
जगाम मैथिलीं गृह्य रुदतीं राक्षसेश्वरः । तां जहार सुसंहृष्टो रावणो मृत्युमात्मनः ॥३-५४-६॥
उत्सङ्गेनैव भुजगीं तीक्ष्णदंष्ट्रां महाविषाम् । वनानि सरितः शैलान् सरांसि च विहायसा ॥३-५४-७॥
स क्षिप्रं समतीयाय शरश्चापादिव च्युतः । तिमिनक्रनिकेतं तु वरुणालयमक्षयम् ॥३-५४-८॥
सरितां शरणं गत्वा समतीयाय सागरम् । सम्भ्रमात् परिवृत्तोर्मी रुद्धमीनमहोरगः ॥३-५४-९॥
वैदेह्यां ह्रियमाणायां बभूव वरुणालयः । अन्तरिक्षगता वाचः ससृजुश्चारणास्तदा ॥३-५४-१०॥
एतदन्तो दशग्रीव इति सिद्धास्तथाब्रुवन् । स तु सीतां विचेष्टन्तीमङ्केनादाय रावणः ॥३-५४-११॥
प्रविवेश पुरीं लङ्कां रूपिणीं मृत्युमात्मनः । सोऽभिगम्य पुरीं लङ्कां सुविभक्तमहापथाम् ॥३-५४-१२॥
संरूढकक्ष्यां बहुलां स्वमन्तःपुरमाविशत् । तत्र तामसितापाङ्गीं शोकमोहसमन्विताम् ॥३-५४-१३॥
निदधे रावणः सीतां मयो मायामिवासुरीम् । अब्रवीच्च दशग्रीवः पिशाचीर्घोरदर्शनाः ॥३-५४-१४॥
यथा नैनां पुमान् स्त्री वा सीतां पश्यत्यसम्मतः । मुक्तामणिसुवर्णानि वस्त्राण्याभरणानि च ॥३-५४-१५॥
यद् यदिच्छेत् तदैवास्या देयं मच्छन्दतो यथा । या च वक्ष्यति वैदेहीं वचनं किंचिदप्रियम् ॥३-५४-१६॥
अज्ञानाद् यदि वा ज्ञानान्न तस्या जीवितं प्रियम् । तथोक्त्वा राक्षसीस्तास्तु राक्षसेन्द्रः प्रतापवान् ॥३-५४-१७॥
निष्क्रम्यान्तःपुरात् तस्मात् किं कृत्यमिति चिन्तयन् । ददर्शाष्टौ महावीर्यान् राक्षसान् पिशिताशनान् ॥३-५४-१८॥
स तान् दृष्ट्वा महावीर्यो वरदानेन मोहितः । उवाच तानिदं वाक्यं प्रशस्य बलवीर्यतः ॥३-५४-१९॥
नानाप्रहरणाः क्षिप्रमितो गच्छत सत्वराः । जनस्थानं हतस्थानं भूतपूर्वं खरालयम् ॥३-५४-२०॥
तत्रास्यतां जनस्थाने शून्ये निहतराक्षसे । पौरुषं बलमाश्रित्य त्रासमुत्सृज्य दूरतः ॥३-५४-२१॥
बहुसैन्यं महावीर्यं जनस्थाने निवेशितम् । सदूषणखरं युद्धे निहतं रामसायकैः ॥३-५४-२२॥
ततः क्रोधो ममापूर्वो धैर्यस्योपरि वर्धते । वैरं च सुमहज्जातं रामं प्रति सुदारुणम् ॥३-५४-२३॥
निर्यातयितुमिच्छामि तच्च वैरं महारिपोः । नहि लप्स्याम्यहं निद्रामहत्वा संयुगे रिपुम् ॥३-५४-२४॥
तं त्विदानीमहं हत्वा खरदूषणघातिनम् । रामं शर्मोपलप्स्यामि धनं लब्ध्वेव निर्धनः ॥३-५४-२५॥
जनस्थाने वसद्भिस्तु भवद्भी राममाश्रिता । प्रवृत्तिरुपनेतव्या किं करोतीति तत्त्वतः ॥३-५४-२६॥
अप्रमादाच्च गन्तव्यं सर्वैरेव निशाचरैः । कर्तव्यश्च सदा यत्नो राघवस्य वधं प्रति ॥३-५४-२७॥
युष्माकं तु बलं ज्ञातं बहुशो रणमूर्धनि । अतश्चास्मिञ्जनस्थाने मया यूयं निवेशिताः ॥३-५४-२८॥
ततः प्रियं वाक्यमुपेत्य राक्षसा महार्थमष्टावभिवाद्य रावणम् । विहाय लङ्कां सहिताः प्रतस्थिरे यतो जनस्थानमलक्ष्यदर्शनाः ॥३-५४-२९॥
ततस्तु सीतामुपलभ्य रावणः सुसम्प्रहृष्टः परिगृह्य मैथिलीम् । प्रसज्य रामेण च वैरमुत्तमं बभूव मोहान्मुदितः स रावणः ॥३-५४-३०॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे लङ्काप्रापणम् नाम चतुःपञ्चाशः सर्गः ॥३-५४॥