रावणभर्त्सनम्
अरण्यकाण्डः / रावणभर्त्सनम्
Script
Translation
Previous
सीताविक्रोशः
Next
लङ्काप्रापणम्
अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे रावणभर्त्सनम् नाम त्रिपञ्चाशः सर्गः ॥३-५३॥
खमुत्पतन्तं तं दृष्ट्वा मैथिली जनकात्मजा ।
दुःखिता परमोद्विग्ना भये महति वर्तिनी ॥३-५३-१॥
रोषरोदनताम्राक्षी भीमाक्षं राक्षसाधिपम् ।
रुदती करुणं सीता ह्रियमाणा तमब्रवीत् ॥३-५३-२॥
न व्यपत्रपसे नीच कर्मणानेन रावण ।
ज्ञात्वा विरहितां यो मां चोरयित्वा पलायसे ॥३-५३-३॥
त्वयैव नूनं दुष्टात्मन् भीरुणा हर्तुमिच्छता ।
ममापवाहितो भर्ता मृगरूपेण मायया ॥३-५३-४॥
यो हि मामुद्यतस्त्रातुं सोऽप्ययं विनिपातितः ।
गृध्रराजः पुराणोऽसौ श्वशुरस्य सखा मम ॥३-५३-५॥
परमं खलु ते वीर्यं दृश्यते राक्षसाधम ।
विश्राव्य नामधेयं हि युद्धे नास्मि जिता त्वया ॥३-५३-६॥
ईदृशं गर्हितं कर्म कथं कृत्वा न लज्जसे ।
स्त्रियाश्चाहरणं नीच रहिते च परस्य च ॥३-५३-७॥
कथयिष्यन्ति लोकेषु पुरुषाः कर्म कुत्सितम् ।
सुनृशंसमधर्मिष्ठं तव शौटीर्यमानिनः ॥३-५३-८॥
धिक् ते शौर्यं च सत्त्वं च यत्त्वया कथितं तदा ।
कुलाक्रोशकरं लोके धिक् ते चारित्रमीदृशम् ॥३-५३-९॥
किं शक्यं कर्तुमेवं हि यज्जवेनैव धावसि ।
मुहूर्तमपि तिष्ठ त्वं न जीवन् प्रतियास्यसि ॥३-५३-१०॥
नहि चक्षुःपथं प्राप्य तयोः पार्थिवपुत्रयोः ।
ससैन्योऽपि समर्थस्त्वं मुहूर्तमपि जीवितुम् ॥३-५३-११॥
न त्वं तयोः शरस्पर्शं सोढुं शक्तः कथंचन ।
वने प्रज्वलितस्येव स्पर्शमग्नेर्विहंगमः ॥३-५३-१२॥
साधु कृत्वाऽऽत्मनः पथ्यं साधु मां मुञ्च रावण ।
मत्प्रधर्षणसंक्रुद्धो भ्रात्रा सह पतिर्मम ॥३-५३-१३॥
विधास्यति विनाशाय त्वं मां यदि न मुञ्चसि ।
येन त्वं व्यवसायेन बलान्मां हर्तुमिच्छसि ॥३-५३-१४॥
व्यवसायस्तु ते नीच भविष्यति निरर्थकः ।
नह्यहं तमपश्यन्ती भर्तारं विबुधोपमम् ॥३-५३-१५॥
उत्सहे शत्रुवशगा प्राणान् धारयितुं चिरम् ।
न नूनं चात्मनः श्रेयः पथ्यं वा समवेक्षसे ॥३-५३-१६॥
मृत्युकाले यथा मर्त्यो विपरीतानि सेवते ।
मुमूर्षूणां तु सर्वेषां यत् पथ्यं तन्न रोचते ॥३-५३-१७॥
पश्यामीह हि कण्ठे त्वां कालपाशावपाशितम् ।
यथा चास्मिन् भयस्थाने न बिभेषि निशाचर ॥३-५३-१८॥
व्यक्तं हिरण्मयांस्त्वं हि सम्पश्यसि महीरुहान् ।
नदीं वैतरणीं घोरां रुधिरौघविवाहिनीम् ॥३-५३-१९॥
खड्गपत्रवनं चैव भीमं पश्यसि रावण ।
तप्तकाञ्चनपुष्पां च वैदूर्यप्रवरच्छदाम् ॥३-५३-२०॥
द्रक्ष्यसे शाल्मलीं तीक्ष्णामायसैः कण्टकैश्चिताम् ।
नहि त्वमीदृशं कृत्वा तस्यालीकं महात्मनः ॥३-५३-२१॥
धारितुं शक्ष्यसि चिरं विषं पीत्वेव निर्घृण ।
बद्धस्त्वं कालपाशेन दुर्निवारेण रावण ॥३-५३-२२॥
क्व गतो लप्स्यसे शर्म मम भर्तुर्महात्मनः ।
निमेषान्तरमात्रेण विना भ्रातरमाहवे ॥३-५३-२३॥
राक्षसा निहता येन सहस्राणि चतुर्दश ।
कथं स राघवो वीरः सर्वास्त्रकुशलो बली ॥३-५३-२४॥
न त्वां हन्याच्छरैस्तीक्ष्णैरिष्टभार्यापहारिणम् ।
एतच्चान्यच्च परुषं वैदेही रावणाङ्कगा ।
भयशोकसमाविष्टा करुणं विललाप ह ॥३-५३-२५॥
तदा भृशार्तां बहु चैव भाषिणीं विलापपूर्वं करुणं च भामिनीम् ।
जहार पापस्तरुणीं विचेष्टतीं नृपात्मजामागतगात्रवेपथुः ॥३-५३-२६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे रावणभर्त्सनम् नाम त्रिपञ्चाशः सर्गः ॥३-५३॥
Previous
सीताविक्रोशः
Next
लङ्काप्रापणम्