सीताविक्रोशः
अरण्यकाण्डः / सीताविक्रोशः
Script
Translation
Previous
जटायुरावणयुद्धम्
Next
रावणभर्त्सनम्
अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे सीताविक्रोशः नाम द्विपञ्चाशः सर्गः ॥३-५२॥
सा तु ताराधिपमुखी रावणेन निरीक्ष्य तम् ।
गृध्रराजं विनिहतं विललाप सुदुःखिता ॥३-५२-१॥
निमित्तं लक्षणं स्वप्नं शकुनिस्वरदर्शनम् ।
अवश्यं सुखदुःखेषु नराणां परिदृश्यते ॥३-५२-२॥
न नूनं राम जानासि महद्व्यसनमात्मनः ।
धावन्ति नूनं काकुत्स्थ मदर्थं मृगपक्षिणः ॥३-५२-३॥
अयं हि कृपया राम मां त्रातुमिह संगतः ।
शेते विनिहतो भूमौ ममाभाग्याद् विहंगमः ॥३-५२-४॥
त्राहि मामद्य काकुत्स्थ लक्ष्मणेति वराङ्गना ।
सुसंत्रस्ता समाक्रन्दच्छृण्वतां तु यथान्तिके ॥३-५२-५॥
तां क्लिष्टमाल्याभरणां विलपन्तीमनाथवत् ।
अभ्यधावत वैदेहीं रावणो राक्षसाधिपः ॥३-५२-६॥
तां लतामिव वेष्टन्तीमालिङ्गन्तीं महाद्रुमान् ।
मुञ्च मुञ्चेति बहुशः प्राप तां राक्षसाधिपः ॥३-५२-७॥
क्रोशन्तीं राम रामेति रामेण रहितां वने ।
जीवितान्ताय केशेषु जग्राहान्तकसंनिभः ॥३-५२-८॥
प्रधर्षितायां वैदेह्यां बभूव सचराचरम् ।
जगत् सर्वममर्यादं तमसान्धेन संवृतम् ॥३-५२-९॥
न वाति मारुतस्तत्र निष्प्रभोऽभूद् दिवाकरः ।
दृष्ट्वा सीतां परामृष्टां देवो दिव्येन चक्षुषा ॥३-५२-१०॥
कृतं कार्यमिति श्रीमान् व्याजहार पितामहः ।
प्रहृष्टा व्यथिताश्चासन् सर्वे ते परमर्षयः ॥३-५२-११॥
दृष्ट्वा सीतां परामृष्टां दण्डकारण्यवासिनः ।
रावणस्य विनाशं च प्राप्तं बुद्ध्वा यदृच्छया ॥३-५२-१२॥
स तु तां राम रामेति रुदतीं लक्ष्मणेति च ।
जगामादाय चाकाशं रावणो राक्षसेश्वरः ॥३-५२-१३॥
तप्ताभरणवर्णाङ्गी पीतकौशेयवासिनी ।
रराज राजपुत्री तु विद्युत्सौदामनी यथा ॥३-५२-१४॥
उद्धूतेन च वस्त्रेण तस्याः पीतेन रावणः ।
अधिकं परिबभ्राज गिरिर्दीप्त इवाग्निना ॥३-५२-१५॥
तस्याः परमकल्याण्यास्ताम्राणि सुरभीणि च ।
पद्मपत्राणि वैदेह्या अभ्यकीर्यन्त रावणम् ॥३-५२-१६॥
तस्याः कौशेयमुद्धूतमाकाशे कनकप्रभम् ।
बभौ चादित्यरागेण ताम्रमभ्रमिवातपे ॥३-५२-१७॥
तस्यास्तद् विमलं वक्त्रमाकाशे रावणाङ्कगम् ।
न रराज विना रामं विनालमिव पङ्कजम् ॥३-५२-१८॥
बभूव जलदं नीलं भित्त्वा चन्द्र इवोदितः ।
सुललाटं सुकेशान्तं पद्मगर्भाभमव्रणम् ॥३-५२-१९॥
शुक्लैः सुविमलैर्दन्तैः प्रभावद्भिरलंकृतम् ।
तस्याः सुनयनं वक्त्रमाकाशे रावणाङ्कगम् ॥३-५२-२०॥
रुदितं व्यपमृष्टास्रं चन्द्रवत् प्रियदर्शनम् ।
सुनासं चारुताम्रोष्ठमाकाशे हाटकप्रभम् ॥३-५२-२१॥
राक्षसेन्द्रसमाधूतं तस्यास्तद् वदनं शुभम् ।
शुशुभे न विना रामं दिवा चन्द्र इवोदितः ॥३-५२-२२॥
सा हेमवर्णा नीलाङ्गं मैथिली राक्षसाधिपम् ।
शुशुभे काञ्चनी काञ्ची नीलं गजमिवाश्रिता ॥३-५२-२३॥
सा पद्मपीता हेमाभा रावणं जनकात्मजा ।
विद्युद् घनमिवाविश्य शुशुभे तप्तभूषणा ॥३-५२-२४॥
तस्या भूषणघोषेण वैदेह्या राक्षसेश्वरः ।
बभूव विमलो नीलः सघोष इव तोयदः ॥३-५२-२५॥
उत्तमाङ्गच्युता तस्याः पुष्पवृष्टिः समन्ततः ।
सीताया ह्रियमाणायाः पपात धरणीतले ॥३-५२-२६॥
सा तु रावणवेगेन पुष्पवृष्टिः समन्ततः ।
समाधूता दशग्रीवं पुनरेवाभ्यवर्तत ॥३-५२-२७॥
अभ्यवर्तत पुष्पाणां धारा वैश्रवणानुजम् ।
नक्षत्रमाला विमला मेरुं नगमिवोन्नतम् ॥३-५२-२८॥
चरणान्नूपुरं भ्रष्टं वैदेह्या रत्नभूषितम् ।
विद्युन्मण्डलसंकाशं पपात धरणीतले ॥३-५२-२९॥
तरुप्रवालरक्ता सा नीलाङ्गं राक्षसेश्वरम् ।
प्रशोभयत वैदेही गजं कक्ष्येव काञ्चनी ॥३-५२-३०॥
तां महोल्कामिवाकाशे दीप्यमानां स्वतेजसा ।
जहाराकाशमाविश्य सीतां वैश्रवणानुजः ॥३-५२-३१॥
तस्यास्तान्यग्निवर्णानि भूषणानि महीतले ।
सघोषाण्यवशीर्यन्त क्षीणास्तारा इवाम्बरात् ॥३-५२-३२॥
तस्याः स्तनान्तराद् भ्रष्टो हारस्ताराधिपद्युतिः ।
वैदेह्या निपतन् भाति गङ्गेव गगनच्युता ॥३-५२-३३॥
उत्पातवाताभिरता नानाद्विजगणायुताः ।
मा भैरिति विधूताग्रा व्याजह्रुरिव पादपाः ॥३-५२-३४॥
नलिन्यो ध्वस्तकमलास्त्रस्तमीनजलेचराः ।
सखीमिव गतोत्साहां शोचन्तीव स्म मैथिलीम् ॥३-५२-३५॥
समन्तादभिसम्पत्य सिंहव्याघ्रमृगद्विजाः ।
अन्वधावंस्तदा रोषात् सीताच्छायानुगामिनः ॥३-५२-३६॥
जलप्रपातास्रमुखाः शृङ्गैरुच्छ्रितबाहुभिः ।
सीतायां ह्रियमाणायां विक्रोशन्तीव पर्वताः ॥३-५२-३७॥
ह्रियमाणां तु वैदेहीं दृष्ट्वा दीनो दिवाकरः ।
प्रविध्वस्तप्रभः श्रीमानासीत् पाण्डुरमण्डलः ॥३-५२-३८॥
नास्ति धर्मः कुतः सत्यं नार्जवं नानृशंसता ।
यत्र रामस्य वैदेहीं सीतां हरति रावणः ॥३-५२-३९॥
इति भूतानि सर्वाणि गणशः पर्यदेवयन् ।
वित्रस्तका दीनमुखा रुरुदुर्मृगपोतकाः ॥३-५२-४०॥
उद्वीक्ष्योद्वीक्ष्य नयनैर्भयादिव विलक्षणैः ।
सुप्रवेपितगात्राश्च बभूवुर्वनदेवताः ॥३-५२-४१॥
विक्रोशन्तीं दृढं सीतां दृष्ट्वा दुःखं तथा गताम् ।
तां तु लक्ष्मण रामेति क्रोशन्तीं मधुरस्वराम् ॥३-५२-४२॥
अवेक्षमाणां बहुशो वैदेहीं धरणीतलम् ।
स तामाकुलकेशान्तां विप्रमृष्टविशेषकाम् ।
जहारात्मविनाशाय दशग्रीवो मनस्विनीम् ॥३-५२-४३॥
ततस्तु सा चारुदती शुचिस्मिता विनाकृता बन्धुजनेन मैथिली ।
अपश्यती राघवलक्ष्मणावुभौ विवर्णवक्त्रा भयभारपीडिता ॥३-५२-४४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे सीताविक्रोशः नाम द्विपञ्चाशः सर्गः ॥३-५२॥
Previous
जटायुरावणयुद्धम्
Next
रावणभर्त्सनम्