रावणभिक्षुसत्कारः

अरण्यकाण्डः / रावणभिक्षुसत्कारः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे रावणभिक्षुसत्कारः नाम षड्चत्वारिंशः सर्गः ॥३-४६॥
तया परुषमुक्तस्तु कुपितो राघवानुजः । स विकांक्षन् भृशं रामं प्रतस्थे नचिरादिव ॥३-४६-१॥
तदासाद्य दशग्रीवः क्षिप्रमन्तरमास्थितः । अभिचक्राम वैदेहीं परिव्राजकरूपधृक् ॥३-४६-२॥
श्लक्ष्णकाषायसंवीतः शिखी छत्री उपानही । वामे चांसेऽवसज्याथ शुभे यष्टिकमण्डलू ॥३-४६-३॥
परिव्राजकरूपेण वैदेहीमन्ववर्तत । तामाससादातिबलो भ्रातृभ्यां रहितां वने ॥३-४६-४॥
रहितां सूर्यचन्द्राभ्यां संध्यामिव महत्तमः । तामपश्यत् ततो बालां राजपुत्रीं यशस्विनीम् ॥३-४६-५॥
रोहिणीं शशिना हीनां ग्रहवद् भृशदारुणः । तमुग्रं पापकर्माणं जनस्थानगता द्रुमाः ॥३-४६-६॥
संदृश्य न प्रकम्पन्ते न प्रवाति च मारुतः । शीघ्रस्रोताश्च तं दृष्ट्वा वीक्षन्तं रक्तलोचनम् ॥३-४६-७॥
स्तिमितं गन्तुमारेभे भयाद् गोदावरी नदी । रामस्य त्वन्तरं प्रेप्सुर्दशग्रीवस्तदन्तरे ॥३-४६-८॥
उपतस्थे च वैदेहीं भिक्षुरूपेण रावणः । अभव्यो भव्यरूपेण भर्तारमनुशोचतीम् ॥३-४६-९॥
अभ्यवर्तत वैदेहीं चित्रामिव शनैश्चरः । सहसा भव्यरूपेण तृणैः कूप इवावृतः ॥३-४६-१०॥
अतिष्ठत् प्रेक्ष्य वैदेहीं रामपत्नीं यशस्विनीम् । तिष्ठन् सम्प्रेक्ष्य च तदा पत्नीं रामस्य रावणः ॥३-४६-११॥
शुभां रुचिरदन्तोष्ठीं पूर्णचन्द्रनिभाननाम् । आसीनां पर्णशालायां बाष्पशोकाभिपीडिताम् ॥३-४६-१२॥
स तां पद्मपलाशाक्षीं पीतकौशेयवासिनीम् । अभ्यगच्छत वैदेहीं हृष्टचेता निशाचरः ॥३-४६-१३॥
दृष्ट्वा कामशराविद्धो ब्रह्मघोषमुदीरयन् । अब्रवीत् प्रश्रितं वाक्यं रहिते राक्षसाधिपः ॥३-४६-१४॥
तामुत्तमां त्रिलोकानां पद्महीनामिव श्रियम् । विभ्राजमानां वपुषा रावणः प्रशशंस ह ॥३-४६-१५॥
रौप्यकाञ्चनवर्णाभे पीतकौशेयवासिनि । कमलानां शुभां मालां पद्मिनीव च बिभ्रती ॥३-४६-१६॥
ह्रीः श्रीः कीर्तिः शुभा लक्ष्मीरप्सरा वा शुभानने । भूतिर्वा त्वं वरारोहे रतिर्वा स्वैरचारिणी ॥३-४६-१७॥
समाः शिखरिणः स्निग्धाः पाण्डुरा दशनास्तव । विशाले विमले नेत्रे रक्तान्ते कृष्णतारके ॥३-४६-१८॥
विशालं जघनं पीनमूरू करिकरोपमौ । एतावुपचितौ वृत्तौ संहतौ सम्प्रगल्भितौ ॥३-४६-१९॥
पीनोन्नतमुखौ कान्तौ स्निग्धतालफलोपमौ । मणिप्रवेकाभरणौ रुचिरौ ते पयोधरौ ॥३-४६-२०॥
चारुस्मिते चारुदति चारुनेत्रे विलासिनि । मनो हरसि मे रामे नदीकूलमिवाम्भसा ॥३-४६-२१॥
करान्तमितमध्यासि सुकेशे संहतस्तनि । नैव देवी न गन्धर्वी न यक्षी न च किंनरी ॥३-४६-२२॥
नैवंरूपा मया नारी दृष्टपूर्वा महीतले । रूपमग्र्यं च लोकेषु सौकुमार्यं वयश्च ते ॥३-४६-२३॥
इह वासश्च कान्तारे चित्तमुन्माथयन्ति मे । सा प्रतिक्राम भद्रं ते न त्वं वस्तुमिहार्हसि ॥३-४६-२४॥
राक्षसानामयं वासो घोराणां कामरूपिणाम् । प्रासादाग्राणि रम्याणि नगरोपवनानि च ॥३-४६-२५॥
सम्पन्नानि सुगन्धीनि युक्तान्याचरितुं त्वया । वरं माल्यं वरं गन्धं वरं वस्त्रं च शोभने ॥३-४६-२६॥
भर्तारं च वरं मन्ये त्वद्युक्तमसितेक्षणे । का त्वं भवसि रुद्राणां मरुतां वा शुचिस्मिते ॥३-४६-२७॥
वसूनां वा वरारोहे देवता प्रतिभासि मे । नेह गच्छन्ति गन्धर्वा न देवा न च किन्नराः ॥३-४६-२८॥
राक्षसानामयं वासः कथं तु त्वमिहागता । इह शाखामृगाः सिंहा द्वीपिव्याघ्रमृगा वृकाः ॥३-४६-२९॥
ऋक्षास्तरक्षवः कङ्काः कथं तेभ्यो न बिभ्यसे । मदान्वितानां घोराणां कुञ्जराणां तरस्विनाम् ॥३-४६-३०॥
कथमेका महारण्ये न बिभेषि वरानने । कासि कस्य कुतश्च त्वं किं निमित्तं च दण्डकान् ॥३-४६-३१॥
एका चरसि कल्याणि घोरान् राक्षससेवितान् । इति प्रशस्ता वैदेही रावणेन महात्मना ॥३-४६-३२॥
द्विजातिवेषेण हि तं दृष्ट्वा रावणमागतम् । सर्वैरतिथिसत्कारैः पूजयामास मैथिली ॥३-४६-३३॥
उपानीयासनं पूर्वं पाद्येनाभिनिमन्त्र्य च । अब्रवीत् सिद्धमित्येव तदा तं सौम्यदर्शनम् ॥३-४६-३४॥
द्विजातिवेषेण समीक्ष्य मैथिली समागतं पात्रकुसुम्भधारिणम् । अशक्यमुद्द्वेष्टुमुपायदर्शनान्न्यमन्त्रयद् ब्राह्मणवत् तथागतम् ॥३-४६-३५॥
इयं बृसी ब्राह्मण काममास्यतामिदं च पाद्यं प्रतिगृह्यतामिति । इदं च सिद्धं वनजातमुत्तमं त्वदर्थमव्यग्रमिहोपभुज्यताम् ॥३-४६-३६॥
निमन्त्र्यमाणः प्रतिपूर्णभाषिणीं नरेन्द्रपत्नीं प्रसमीक्ष्य मैथिलीम् । प्रसह्य तस्या हरणे दृढं मनः समर्पयामास वधाय रावणः ॥३-४६-३७॥
ततः सुवेषं मृगयागतं पतिं प्रतीक्षमाणा सहलक्ष्मणं तदा । निरीक्षमाणा हरितं ददर्श तन्महद् वनं नैव तु रामलक्ष्मणौ ॥३-४६-३८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे रावणभिक्षुसत्कारः नाम षड्चत्वारिंशः सर्गः ॥३-४६॥