रावणाधिक्षेपः
अरण्यकाण्डः / रावणाधिक्षेपः
Script
Translation
Previous
रावणभिक्षुसत्कारः
Next
रवणविकत्थनम्
अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे रावणाधिक्षेपः नाम सप्तचत्वारिंशः सर्गः ॥३-४७॥
रावणेन तु वैदेही तदा पृष्टा जिहीर्षुणा ।
परिव्राजकरूपेण शशंसात्मानमात्मना ॥३-४७-१॥
ब्राह्मणश्चातिथिश्चैष अनुक्तो हि शपेत माम् ।
इति ध्यात्वा मुहूर्तं तु सीता वचनमब्रवीत् ॥३-४७-२॥
दुहिता जनकस्याहं मैथिलस्य महात्मनः ।
सीता नाम्नास्मि भद्रं ते रामस्य महिषी प्रिया ॥३-४७-३॥
उषित्वा द्वादश समा इक्ष्वाकूणां निवेशने ।
भुञ्जाना मानुषान् भोगान् सर्वकामसमृद्धिनी ॥३-४७-४॥
तत्र त्रयोदशे वर्षे राजाऽमन्त्रयत प्रभुः ।
अभिषेचयितुं रामं समेतो राजमन्त्रिभिः ॥३-४७-५॥
तस्मिन् सम्भ्रियमाणे तु राघवस्याभिषेचने ।
कैकेयी नाम भर्तारं ममार्या याचते वरम् ॥३-४७-६॥
परिगृह्य तु कैकेयी श्वशुरं सुकृतेन मे ।
मम प्रव्राजनं भर्तुर्भरतस्याभिषेचनम् ॥३-४७-७॥
द्वावयाचत भर्तारं सत्यसंधं नृपोत्तमम् ।
नाद्य भोक्ष्ये न च स्वप्स्ये न पास्ये न कदाचन ॥३-४७-८॥
एष मे जीवितस्यान्तो रामो यदभिषिच्यते ।
इति ब्रुवाणां कैकेयीं श्वशुरो मे स पार्थिवः ॥३-४७-९॥
अयाचतार्थैरन्वर्थैर्न च याच्ञां चकार सा ।
मम भर्ता महातेजा वयसा पञ्चविंशकः ॥३-४७-१०॥
अष्टादश हि वर्षाणि मम जन्मनि गण्यते ।
रामेति प्रथितो लोके सत्यवान् शीलवान् शुचिः ॥३-४७-११॥
विशालाक्षो महाबाहुः सर्वभूतहिते रतः ।
कामार्तश्च महाराजः पिता दशरथः स्वयम् ॥३-४७-१२॥
कैकेय्याः प्रियकामार्थं तं रामं नाभ्यषेचयत् ।
अभिषेकाय तु पितुः समीपं राममागतम् ॥३-४७-१३॥
कैकेयी मम भर्तारमित्युवाच द्रुतं वचः ।
तव पित्रा समाज्ञप्तं ममेदं शृणु राघव ॥३-४७-१४॥
भरताय प्रदातव्यमिदं राज्यमकण्टकम् ।
त्वया तु खलु वस्तव्यं नव वर्षाणि पञ्च च ॥३-४७-१५॥
वने प्रव्रज काकुत्स्थ पितरं मोचयानृतात् ।
तथेत्युवाच तां रामः कैकेयीमकुतोभयः ॥३-४७-१६॥
चकार तद्वचः श्रुत्वा भर्ता मम दृढव्रतः ।
दद्यान्न प्रतिगृह्णीयात् सत्यं ब्रूयान्न चानृतम् ॥३-४७-१७॥
एतद् ब्राह्मण रामस्य व्रतं धृतमनुत्तमम् ।
तस्य भ्राता तु वैमात्रो लक्ष्मणो नाम वीर्यवान् ॥३-४७-१८॥
रामस्य पुरुषव्याघ्रः सहायः समरेऽरिहा ।
स भ्राता लक्ष्मणो नाम ब्रह्मचारी दृढव्रतः ॥३-४७-१९॥
अन्वगच्छद् धनुष्पाणिः प्रव्रजन्तं मया सह ।
जटी तापसरूपेण मया सह सहानुजः ॥३-४७-२०॥
प्रविष्टो दण्डकारण्यं धर्मनित्यो दृढव्रतः ।
ते वयं प्रच्युता राज्यात् कैकेय्यास्तु कृते त्रयः ॥३-४७-२१॥
विचराम द्विजश्रेष्ठ वनं गम्भीरमोजसा ।
समाश्वस मुहूर्तं तु शक्यं वस्तुमिह त्वया ॥३-४७-२२॥
आगमिष्यति मे भर्ता वन्यमादाय पुष्कलम् ।
रुरून् गोधान् वराहांश्च हत्वाऽऽदायामिषं बहु ॥३-४७-२३॥
स त्वं नाम च गोत्रं च कुलमाचक्ष्व तत्त्वतः ।
एकश्च दण्डकारण्ये किमर्थं चरसि द्विज ॥३-४७-२४॥
एवं ब्रुवत्यां सीतायां रामपत्न्यां महाबलः ।
प्रत्युवाचोत्तरं तीव्रं रावणो राक्षसाधिपः ॥३-४७-२५॥
येन वित्रासिता लोकाः सदेवासुरमानुषाः ।
अहं स रावणो नाम सीते रक्षोगणेश्वरः ॥३-४७-२६॥
त्वां तु काञ्चनवर्णाभां दृष्ट्वा कौशेयवासिनीम् ।
रतिं स्वकेषु दारेषु नाधिगच्छाम्यनिन्दिते ॥३-४७-२७॥
बह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः ।
सर्वासामेव भद्रं ते ममाग्रमहिषी भव ॥३-४७-२८॥
लङ्का नाम समुद्रस्य मध्ये मम महापुरी ।
सागरेण परिक्षिप्ता निविष्टा गिरिमूर्धनि ॥३-४७-२९॥
तत्र सीते मया सार्धं वनेषु विचरिष्यसि ।
न चास्य वनवासस्य स्पृहयिष्यसि भामिनि ॥३-४७-३०॥
पञ्च दास्यः सहस्राणि सर्वाभरणभूषिताः ।
सीते परिचरिष्यन्ति भार्या भवसि मे यदि ॥३-४७-३१॥
रावणेनैवमुक्ता तु कुपिता जनकात्मजा ।
प्रत्युवाचानवद्याङ्गी तमनादृत्य राक्षसम् ॥३-४७-३२॥
महागिरिमिवाकम्प्यं महेन्द्रसदृशं पतिम् ।
महोदधिमिवाक्षोभ्यमहं राममनुव्रता ॥३-४७-३३॥
सर्वलक्षणसम्पन्नं न्यग्रोधपरिमण्डलम् ।
सत्यसंधं महाभागमहं राममनुव्रता ॥३-४७-३४॥
महाबाहुं महोरस्कं सिंहविक्रान्तगामिनम् ।
नृसिंहं सिंहसंकाशमहं राममनुव्रता ॥३-४७-३५॥
पूर्णचन्द्राननं रामं राजवत्सं जितेन्द्रियम् ।
पृथुकीर्तिं महाबाहुमहं राममनुव्रता ॥३-४७-३६॥
त्वं पुनर्जम्बुकः सिंहीं मामिहेच्छसि दुर्लभाम् ।
नाहं शक्या त्वया स्प्रष्टुमादित्यस्य प्रभा यथा ॥३-४७-३७॥
पादपान् काञ्चनान् नूनं बहून् पश्यसि मन्दभाक् ।
राघवस्य प्रियां भार्यां यस्त्वमिच्छसि राक्षस ॥३-४७-३८॥
क्षुधितस्य च सिंहस्य मृगशत्रोस्तरस्विनः ।
आशीविषस्य वदनाद् दंष्ट्रामादातुमिच्छसि ॥३-४७-३९॥
मन्दरं पर्वतश्रेष्ठं पाणिना हर्तुमिच्छसि ।
कालकूटं विषं पीत्वा स्वस्तिमान् गन्तुमिच्छसि ॥३-४७-४०॥
अक्षि सूच्या प्रमृजसि जिह्वया लेढि च क्षुरम् ।
राघवस्य प्रियां भार्यामधिगन्तुं त्वमिच्छसि ॥३-४७-४१॥
अवसज्य शिलां कण्ठे समुद्रं तर्तुमिच्छसि ।
सूर्याचन्द्रमसौ चोभौ पाणिभ्यां हर्तुमिच्छसि ॥३-४७-४२॥
यो रामस्य प्रियां भार्यां प्रधर्षयितुमिच्छसि ।
अग्निं प्रज्वलितं दृष्ट्वा वस्त्रेणाहर्तुमिच्छसि ॥३-४७-४३॥
कल्याणवृत्तां यो भार्यां रामस्याहर्तुमिच्छसि ।
अयोमुखानां शूलानामग्रे चरितुमिच्छसि ।
रामस्य सदृशीं भार्यां योऽधिगन्तुं त्वमिच्छसि ॥३-४७-४४॥
यदन्तरं सिंहसृगालयोर्वने यदन्तरं स्यन्दनिकासमुद्रयोः ।
सुराग्र्यसौवीरकयोर्यदन्तरं तदन्तरं दाशरथेस्तवैव च ॥३-४७-४५॥
यदन्तरं काञ्चनसीसलोहयोर्यदन्तरं चन्दनवारिपङ्कयोः ।
यदन्तरं हस्तिबिडालयोर्वने तदन्तरं दाशरथेस्तवैव च ॥३-४७-४६॥
यदन्तरं वायसवैनतेययोर्यदन्तरं मद्गुमयूरयोरपि ।
यदन्तरं हंसकगृध्रयोर्वने तदन्तरं दाशरथेस्तवैव च ॥३-४७-४७॥
तस्मिन् सहस्राक्षसमप्रभावे रामे स्थिते कार्मुकबाणपाणौ ।
हृतापि तेऽहं न जरां गमिष्ये आज्यं यथा मक्षिकयावगीर्णम् ॥३-४७-४८॥
इतीव तद्वाक्यमदुष्टभावा सुदुष्टमुक्त्वा रजनीचरं तम् ।
गात्रप्रकम्पाद् व्यथिता बभूव वातोद्धता सा कदलीव तन्वी ॥३-४७-४९॥
तां वेपमानामुपलक्ष्य सीतां स रावणो मृत्युसमप्रभावः ।
कुलं बलं नाम च कर्म चात्मनः समाचचक्षे भयकारणार्थम् ॥३-४७-५०॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे रावणाधिक्षेपः नाम सप्तचत्वारिंशः सर्गः ॥३-४७॥
Previous
रावणभिक्षुसत्कारः
Next
रवणविकत्थनम्