सीतापारुष्यम्
अरण्यकाण्डः / सीतापारुष्यम्
Script
Translation
Previous
मारीचवञ्चना
Next
रावणभिक्षुसत्कारः
अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे सीतापारुष्यम् नाम पञ्चचत्वारिंशः सर्गः ॥३-४५॥
आर्तस्वरं तु तं भर्तुर्विज्ञाय सदृशं वने ।
उवाच लक्ष्मणं सीता गच्छ जानीहि राघवम् ॥३-४५-१॥
नहि मे जीवितं स्थाने हृदयं वावतिष्ठते ।
क्रोशतः परमार्तस्य श्रुतः शब्दो मया भृशम् ॥३-४५-२॥
आक्रन्दमानं तु वने भ्रातरं त्रातुमर्हसि ।
तं क्षिप्रमभिधाव त्वं भ्रातरं शरणैषिणम् ॥३-४५-३॥
रक्षसां वशमापन्नं सिंहानामिव गोवृषम् ।
न जगाम तथोक्तस्तु भ्रातुराज्ञाय शासनम् ॥३-४५-४॥
तमुवाच ततस्तत्र क्षुभिता जनकात्मजा ।
सौमित्रे मित्ररूपेण भ्रातुस्त्वमसि शत्रुवत् ॥३-४५-५॥
यस्त्वमस्यामवस्थायां भ्रातरं नाभिपद्यसे ।
इच्छसि त्वं विनश्यन्तं रामं लक्ष्मण मत्कृते ॥३-४५-६॥
लोभात्तु मत्कृते नूनं नानुगच्छसि राघवम् ।
व्यसनं ते प्रियं मन्ये स्नेहो भ्रातरि नास्ति ते ॥३-४५-७॥
तेन तिष्ठसि विस्रब्धं तमपश्यन् महाद्युतिम् ।
किं हि संशयमापन्ने तस्मिन्निह मया भवेत् ॥३-४५-८॥
कर्तव्यमिह तिष्ठन्त्या यत्प्रधानस्त्वमागतः ।
एवं ब्रुवाणां वैदेहीं बाष्पशोकसमन्विताम् ॥३-४५-९॥
अब्रवील्लक्ष्मणस्त्रस्तां सीतां मृगवधूमिव ।
पन्नगासुरगन्धर्वदेवदानवराक्षसैः ॥३-४५-१०॥
अशक्यस्तव वैदेहि भर्ता जेतुं न संशयः ।
देवि देवमनुष्येषु गन्धर्वेषु पतत्रिषु ॥३-४५-११॥
राक्षसेषु पिशाचेषु किन्नरेषु मृगेषु च ।
दानवेषु च घोरेषु न स विद्येत शोभने ॥३-४५-१२॥
यो रामं प्रतियुध्येत समरे वासवोपमम् ।
अवध्यः समरे रामो नैवं त्वं वक्तुमर्हसि ॥३-४५-१३॥
न त्वामस्मिन् वने हातुमुत्सहे राघवं विना ।
अनिवार्यं बलं तस्य बलैर्बलवतामपि ॥३-४५-१४॥
त्रिभिर्लोकैः समुदितैः सेश्वरैः सामरैरपि ।
हृदयं निर्वृतं तेऽस्तु संतापस्त्यज्यतां तव ॥३-४५-१५॥
आगमिष्यति ते भर्ता शीघ्रं हत्वा मृगोत्तमम् ।
न स तस्य स्वरो व्यक्तं न कश्चिदपि दैवतः ॥३-४५-१६॥
गन्धर्वनगरप्रख्या माया तस्य च रक्षसः ।
न्यासभूतासि वैदेहि न्यस्ता मयि महात्मना ॥३-४५-१७॥
रामेण त्वं वरारोहे न त्वां त्यक्तुमिहोत्सहे ।
कृतवैराश्च कल्याणि वयमेतैर्निशाचरैः ॥३-४५-१८॥
खरस्य निधने देवि जनस्थानवधं प्रति ।
राक्षसा विविधा वाचो व्याहरन्ति महावने ॥३-४५-१९॥
हिंसाविहारा वैदेहि न चिन्तयितुमर्हसि ।
लक्ष्मणेनैवमुक्ता तु क्रुद्धा संरक्तलोचना ॥३-४५-२०॥
अब्रवीत् परुषं वाक्यं लक्ष्मणं सत्यवादिनम् ।
अनार्याकरुणारम्भ नृशंस कुलपांसन ॥३-४५-२१॥
अहं तव प्रियं मन्ये रामस्य व्यसनं महत् ।
रामस्य व्यसनं दृष्ट्वा तेनैतानि प्रभाषसे ॥३-४५-२२॥
नैव चित्रं सपत्नेषु पापं लक्ष्मण यद् भवेत् ।
त्वद्विधेषु नृशंसेषु नित्यं प्रच्छन्नचारिषु ॥३-४५-२३॥
सुदुष्टस्त्वं वने राममेकमेकोऽनुगच्छसि ।
मम हेतोः प्रतिच्छन्नः प्रयुक्तो भरतेन वा ॥३-४५-२४॥
तन्न सिध्यति सौमित्रे तवापि भरतस्य वा ।
कथमिन्दीवरश्यामं रामं पद्मनिभेक्षणम् ॥३-४५-२५॥
उपसंश्रित्य भर्तारं कामयेयं पृथग्जनम् ।
समक्षं तव सौमित्रे प्राणांस्त्यक्ष्याम्यसंशयम् ॥३-४५-२६॥
रामं विना क्षणमपि नैव जीवामि भूतले ।
इत्युक्तः परुषं वाक्यं सीतया रोमहर्षणम् ॥३-४५-२७॥
अब्रवील्लक्ष्मणः सीतां प्राञ्जलिः स जितेन्द्रियः ।
उत्तरं नोत्सहे वक्तुं दैवतं भवती मम ॥३-४५-२८॥
वाक्यमप्रतिरूपं तु न चित्रं स्त्रीषु मैथिलि ।
स्वभावस्त्वेष नारीणामेषु लोकेषु दृश्यते ॥३-४५-२९॥
विमुक्तधर्माश्चपलास्तीक्ष्णा भेदकराः स्त्रियः ।
न सहे हीदृशं वाक्यं वैदेहि जनकात्मजे ॥३-४५-३०॥
श्रोत्रयोरुभयोर्मध्ये तप्तनाराचसंनिभम् ।
उपशृण्वन्तु मे सर्वे साक्षिणो हि वनेचराः ॥३-४५-३१॥
न्यायवादी यथा वाक्यमुक्तोऽहं परुषं त्वया ।
धिक् त्वामद्य विनश्यन्तीं यन्मामेवं विशङ्कसे ॥३-४५-३२॥
स्त्रीत्वाद् दुष्टस्वभावेन गुरुवाक्ये व्यवस्थितम् ।
गच्छामि यत्र काकुत्स्थः स्वस्ति तेऽस्तु वरानने ॥३-४५-३३॥
रक्षन्तु त्वां विशालाक्षि समग्रा वनदेवताः ।
निमित्तानि हि घोराणि यानि प्रादुर्भवन्ति मे ।
अपि त्वां सह रामेण पश्येयं पुनरागतः ॥३-४५-३४॥
लक्ष्मणेनैवमुक्ता तु रुदती जनकात्मजा ।
प्रत्युवाच ततो वाक्यं तीव्रबाष्पपरिप्लुता ॥३-४५-३५॥
गोदावरीं प्रवेक्ष्यामि हीना रामेण लक्ष्मण ।
आबन्धिष्येऽथवा त्यक्ष्ये विषमे देहमात्मनः ॥३-४५-३६॥
पिबामि वा विषं तीक्ष्णं प्रवेक्ष्यामि हुताशनम् ।
न त्वहं राघवादन्यं कदापि पुरुषं स्पृशे ॥३-४५-३७॥
इति लक्ष्मणमाश्रुत्य सीता शोकसमन्विता ।
पाणिभ्यां रुदती दुःखादुदरं प्रजघान ह ॥३-४५-३८॥
तामार्तरूपां विमना रुदन्तीं सौमित्रिरालोक्य विशालनेत्राम् ।
आश्वासयामास न चैव भर्तुस्तं भ्रातरं किंचिदुवाच सीता ॥३-४५-३९॥
ततस्तु सीतामभिवाद्य लक्ष्मणः कृताञ्जलिः किंचिदभिप्रणम्य ।
अवेक्षमाणो बहुशः स मैथिलीं जगाम रामस्य समीपमात्मवान् ॥३-४५-४०॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे सीतापारुष्यम् नाम पञ्चचत्वारिंशः सर्गः ॥३-४५॥
Previous
मारीचवञ्चना
Next
रावणभिक्षुसत्कारः