मारीचवञ्चना
अरण्यकाण्डः / मारीचवञ्चना
Script
Translation
Previous
लक्ष्मणशङ्काप्रतिसमाधानम्
Next
सीतापारुष्यम्
अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे मारीचवञ्चना नाम चतुश्चत्वारिंशः सर्गः ॥३-४४॥
तथा तु तं समादिश्य भ्रातरं रघुनन्दनः ।
बबन्धासिं महातेजा जाम्बूनदमयत्सरुम् ॥३-४४-१॥
ततस्त्रिविनतं चापमादायात्मविभूषणम् ।
आबध्य च कपालौ द्वौ जगामोदग्रविक्रमः ॥३-४४-२॥
तं वन्यराजो राजेन्द्रमापतन्तं निरीक्ष्य वै ।
बभूवान्तर्हितस्त्रासात् पुनः संदर्शनेऽभवत् ॥३-४४-३॥
बद्धासिर्धनुरादाय प्रदुद्राव यतो मृगः ।
तं स्म पश्यति रूपेण द्योतयन्तमिवाग्रतः ॥३-४४-४॥
अवेक्ष्यावेक्ष्य धावन्तं धनुष्पाणिर्महावने ।
अतिवृत्तमिवोत्पाताल्लोभयानं कदाचन ॥३-४४-५॥
शङ्कितं तु समुद्भ्रान्तमुत्पतन्तमिवाम्बरम् ।
दृश्यमानमदृश्यं च वनोद्देशेषु केषुचित् ॥३-४४-६॥
छिन्नाभ्रैरिव संवीतं शारदं चन्द्रमण्डलम् ।
मुहूर्तादेव ददृशे मुहुर्दूरात् प्रकाशते ॥३-४४-७॥
दर्शनादर्शनेनैव सोऽपाकर्षत राघवम् ।
स दूरमाश्रमस्यास्य मारीचो मृगतां गतः ॥३-४४-८॥
आसीत् क्रुद्धस्तु काकुत्स्थो विवशस्तेन मोहितः ।
अथावतस्थे सुश्रान्तश्छायामाश्रित्य शाद्वले ॥३-४४-९॥
स तमुन्मादयामास मृगरूपो निशाचरः ।
मृगैः परिवृतोऽथान्यैरदूरात् प्रत्यदृश्यत ॥३-४४-१०॥
ग्रहीतुकामं दृष्ट्वा तं पुनरेवाभ्यधावत ।
तत्क्षणादेव संत्रासात् पुनरन्तर्हितोऽभवत् ॥३-४४-११॥
पुनरेव ततो दूराद् वृक्षखण्डाद् विनिःसृतः ।
दृष्ट्वा रामो महातेजास्तं हन्तुं कृतनिश्चयः ॥३-४४-१२॥
भूयस्तु शरमुद्धृत्य कुपितस्तत्र राघवः ।
सूर्यरश्मिप्रतीकाशं ज्वलन्तमरिमर्दनम् ॥३-४४-१३॥
संधाय सुदृढे चापे विकृष्य बलवद्बली ।
तमेव मृगमुद्दिश्य श्वसन्तमिव पन्नगम् ॥३-४४-१४॥
मुमोच ज्वलितं दीप्तमस्त्रं ब्रह्मविनिर्मितम् ।
शरीरं मृगरूपस्य विनिर्भिद्य शरोत्तमः ॥३-४४-१५॥
मारीचस्यैव हृदयं बिभेदाशनिसंनिभः ।
तालमात्रमथोत्प्लुत्य न्यपतत् स भृशातुरः ॥३-४४-१६॥
व्यनदद् भैरवं नादं धरण्यामल्पजीवितः ।
म्रियमाणस्तु मारीचो जहौ तां कृत्रिमां तनुम् ॥३-४४-१७॥
स्मृत्वा तद्वचनं रक्षो दध्यौ केन तु लक्ष्मणम् ।
इह प्रस्थापयेत् सीता तां शून्ये रावणो हरेत् ॥३-४४-१८॥
स प्राप्तकालमाज्ञाय चकार च ततः स्वनम् ।
सदृशं राघवस्येव हा सीते लक्ष्मणेति च ॥३-४४-१९॥
तेन मर्मणि निर्विद्धं शरेणानुपमेन हि ।
मृगरूपं तु तत् त्यक्त्वा राक्षसं रूपमास्थितः ॥३-४४-२०॥
चक्रे स सुमहाकायं मारीचो जीवितं त्यजन् ।
तं दृष्ट्वा पतितं भूमौ राक्षसं भीमदर्शनम् ॥३-४४-२१॥
रामो रुधिरसिक्ताङ्गं चेष्टमानं महीतले ।
जगाम मनसा सीतां लक्ष्मणस्य वचः स्मरन् ॥३-४४-२२॥
मारीचस्य तु मायैषा पूर्वोक्तं लक्ष्मणेन तु ।
तत् तथा ह्यभवच्चाद्य मारीचोऽयं मया हतः ॥३-४४-२३॥
हा सीते लक्ष्मणेत्येवमाक्रुश्य तु महास्वनम् ।
ममार राक्षसः सोऽयं श्रुत्वा सीता कथं भवेत् ॥३-४४-२४॥
लक्ष्मणश्च महाबाहुः कामवस्थां गमिष्यति ।
इति संचिन्त्य धर्मात्मा रामो हृष्टतनूरुहः ॥३-४४-२५॥
तत्र रामं भयं तीव्रमाविवेश विषादजम् ।
राक्षसं मृगरूपं तं हत्वा श्रुत्वा च तत्स्वनम् ॥३-४४-२६॥
निहत्य पृषतं चान्यं मांसमादाय राघवः ।
त्वरमाणो जनस्थानं ससाराभिमुखं तदा ॥३-४४-२७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे मारीचवञ्चना नाम चतुश्चत्वारिंशः सर्गः ॥३-४४॥
Previous
लक्ष्मणशङ्काप्रतिसमाधानम्
Next
सीतापारुष्यम्