रावणनिन्दा

अरण्यकाण्डः / रावणनिन्दा

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे रावणनिन्दा नाम एकचत्वारिंशः सर्गः ॥३-४१॥
आज्ञप्तो रावणेनेत्थं प्रतिकूलं च राजवत् । अब्रवीत् परुषं वाक्यं निःशङ्को राक्षसाधिपम् ॥३-४१-१॥
केनायमुपदिष्टस्ते विनाशः पापकर्मणा । सपुत्रस्य सराज्यस्य सामात्यस्य निशाचर ॥३-४१-२॥
कस्त्वया सुखिना राजन् नाभिनन्दति पापकृत् । केनेदमुपदिष्टं ते मृत्युद्वारमुपायतः ॥३-४१-३॥
शत्रवस्तव सुव्यक्तं हीनवीर्या निशाचर । इच्छन्ति त्वां विनश्यन्तमुपरुद्धं बलीयसा ॥३-४१-४॥
केनेदमुपदिष्टं ते क्षुद्रेणाहितबुद्धिना । यस्त्वामिच्छति नश्यन्तं स्वकृतेन निशाचर ॥३-४१-५॥
वध्याः खलु न वध्यन्ते सचिवास्तव रावण । ये त्वामुत्पथमारूढं न निगृह्णन्ति सर्वशः ॥३-४१-६॥
अमात्यैः कामवृत्तो हि राजा कापथमाश्रितः । निग्राह्यः सर्वथा सद्भिः स निग्राह्यो न गृह्यसे ॥३-४१-७॥
धर्ममर्थं च कामं च यशश्च जयतां वर । स्वामिप्रसादात् सचिवाः प्राप्नुवन्ति निशाचर ॥३-४१-८॥
विपर्यये तु तत्सर्वं व्यर्थं भवति रावण । व्यसनं स्वामिवैगुण्यात् प्राप्नुवन्तीतरे जनाः ॥३-४१-९॥
राजमूलो हि धर्मश्च यशश्च जयतां वर । तस्मात् सर्वास्ववस्थासु रक्षितव्या नराधिपाः ॥३-४१-१०॥
राज्यं पालयितुं शक्यं न तीक्ष्णेन निशाचर । न चातिप्रतिकूलेन नाविनीतेन राक्षस ॥३-४१-११॥
ये तीक्ष्णमन्त्राः सचिवा भुज्यन्ते सह तेन वै । विषमेषु रथाः शीघ्रं मन्दसारथयो यथा ॥३-४१-१२॥
बहवः साधवो लोके युक्तधर्ममनुष्ठिताः । परेषामपराधेन विनष्टाः सपरिच्छदाः ॥३-४१-१३॥
स्वामिना प्रतिकूलेन प्रजास्तीक्ष्णेन रावण । रक्ष्यमाणा न वर्धन्ते मेषा गोमायुना यथा ॥३-४१-१४॥
अवश्यं विनशिष्यन्ति सर्वे रावण राक्षसाः । येषां त्वं कर्कशो राजा दुर्बुद्धिरजितेन्द्रियः ॥३-४१-१५॥
तदिदं काकतालीयं घोरमासादितं मया । अत्र त्वं शोचनीयोऽसि ससैन्यो विनशिष्यसि ॥३-४१-१६॥
मां निहत्य तु रामोऽसावचिरात् त्वां वधिष्यति । अनेन कृतकृत्योऽस्मि म्रिये चाप्यरिणा हतः ॥३-४१-१७॥
दर्शनादेव रामस्य हतं मामवधारय । आत्मानं च हतं विद्धि हृत्वा सीतां सबान्धवम् ॥३-४१-१८॥
आनयिष्यसि चेत् सीतामाश्रमात् सहितो मया । नैव त्वमपि नाहं वै नैव लङ्का न राक्षसाः ॥३-४१-१९॥
निवार्यमाणस्तु मया हितैषिणा न मृष्यसे वाक्यमिदं निशाचर । परेतकल्पा हि गतायुषो नरा हितं न गृह्णन्ति सुहृद्भिरीरितम् ॥३-४१-२०॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे रावणनिन्दा नाम एकचत्वारिंशः सर्गः ॥३-४१॥