मायामृगरूपपरिग्रहनिर्बन्धः

अरण्यकाण्डः / मायामृगरूपपरिग्रहनिर्बन्धः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे मायामृगरूपपरिग्रहनिर्बन्धः नाम चत्वारिंशः सर्गः ॥३-४०॥
मारीचस्य तु तद् वाक्यं क्षमं युक्तं च रावणः । उक्तो न प्रतिजग्राह मर्तुकाम इवौषधम् ॥३-४०-१॥
तं पथ्यहितवक्तारं मारीचं राक्षसाधिपः । अब्रवीत् परुषं वाक्यमयुक्तं कालचोदितः ॥३-४०-२॥
दुष्कुलैतदयुक्तार्थं मारीच मयि कथ्यते । वाक्यं निष्फलमत्यर्थं बीजमुप्तमिवोषरे ॥३-४०-३॥
त्वद्वाक्यैर्न तु मां शक्यं भेत्तुं रामस्य संयुगे । मूर्खस्य पापशीलस्य मानुषस्य विशेषतः ॥३-४०-४॥
यस्त्यक्त्वा सुहृदो राज्यं मातरं पितरं तथा । स्त्रीवाक्यं प्राकृतं श्रुत्वा वनमेकपदे गतः ॥३-४०-५॥
अवश्यं तु मया तस्य संयुगे खरघातिनः । प्राणैः प्रियतरा सीता हर्तव्या तव संनिधौ ॥३-४०-६॥
एवं मे निश्चिता बुद्धिर्हृदि मारीच विद्यते । न व्यावर्तयितुं शक्या सेन्द्रैरपि सुरासुरैः ॥३-४०-७॥
दोषं गुणं वा सम्पृष्टस्त्वमेवं वक्तुमर्हसि । अपायं वा उपायं वा कार्यस्यास्य विनिश्चये ॥३-४०-८॥
सम्पृष्टेन तु वक्तव्यं सचिवेन विपश्चिता । उद्यताञ्जलिना राज्ञो य इच्छेद् भूतिमात्मनः ॥३-४०-९॥
वाक्यमप्रतिकूलं तु मृदुपूर्वं शुभं हितम् । उपचारेण वक्तव्यो युक्तं च वसुधाधिपः ॥३-४०-१०॥
सावमर्दं तु यद्वाक्यमथवा हितमुच्यते । नाभिनन्देत तद् राजा मानार्थी मानवर्जितम् ॥३-४०-११॥
पञ्च रूपाणि राजानो धारयन्त्यमितौजसः । अग्नेरिन्द्रस्य सोमस्य यमस्य वरुणस्य च ॥३-४०-१२॥
औष्ण्यं तथा विक्रमं च सौम्यं दण्डं प्रसन्नताम् । धारयन्ति महात्मानो राजानः क्षणदाचर ॥३-४०-१३॥
तस्मात् सर्वास्ववस्थासु मान्याः पूज्याश्च नित्यदा । त्वं तु धर्ममविज्ञाय केवलं मोहमाश्रितः ॥३-४०-१४॥
अभ्यागतं तु दौरात्म्यात् परुषं वदसीदृशम् । गुणदोषौ न पृच्छामि क्षेमं चात्मनि राक्षस ॥३-४०-१५॥
मयोक्तमपि चैतावत् त्वां प्रत्यमितविक्रम । अस्मिंस्तु स भवान् कृत्ये साहाय्यं कर्तुमर्हसि ॥३-४०-१६॥
शृणु तत्कर्म साहाय्ये यत्कार्यं वचनान्मम । सौवर्णस्त्वं मृगो भूत्वा चित्रो रजतबिन्दुभिः ॥३-४०-१७॥
आश्रमे तस्य रामस्य सीतायाः प्रमुखे चर । प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि ॥३-४०-१८॥
त्वां हि मायामयं दृष्ट्वा काञ्चनं जातविस्मया । आनयैनमिति क्षिप्रं रामं वक्ष्यति मैथिली ॥३-४०-१९॥
अपक्रान्ते च काकुत्स्थे दूरं गत्वाप्युदाहर । हा सीते लक्ष्मणेत्येवं रामवाक्यानुरूपकम् ॥३-४०-२०॥
तच्छ्रुत्वा रामपदवीं सीतया च प्रचोदितः । अनुगच्छति सम्भ्रान्तः सौमित्रिरपि सौहृदात् ॥३-४०-२१॥
अपक्रान्ते च काकुत्स्थे लक्ष्मणे च यथासुखम् । आहरिष्यामि वैदेहीं सहस्राक्षः शचीमिव ॥३-४०-२२॥
एवं कृत्वा त्विदं कार्यं यथेष्टं गच्छ राक्षस । राज्यस्यार्धं प्रदास्यामि मारीच तव सुव्रत ॥३-४०-२३॥
गच्छ सौम्य शिवं मार्गं कार्यस्यास्य विवृद्धये । अहं त्वानुगमिष्यामि सरथो दण्डकावनम् ॥३-४०-२४॥
प्राप्य सीतामयुद्धेन वञ्चयित्वा तु राघवम् । लङ्कां प्रति गमिष्यामि कृतकार्यः सह त्वया ॥३-४०-२५॥
नो चेत् करोषि मारीच हन्मि त्वामहमद्य वै । एतत् कार्यमवश्यं मे बलादपि करिष्यसि । राज्ञो विप्रतिकूलस्थो न जातु सुखमेधते ॥३-४०-२६॥
आसाद्य तं जीवितसंशयस्ते मृत्युर्ध्रुवो ह्यद्य मया विरुध्यतः । एतद् यथावत् परिगण्य बुद्ध्या यदत्र पथ्यं कुरु तत्तथा त्वम् ॥३-४०-२७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे मायामृगरूपपरिग्रहनिर्बन्धः नाम चत्वारिंशः सर्गः ॥३-४०॥