स्वर्णमृगप्रेक्षणम्
अरण्यकाण्डः / स्वर्णमृगप्रेक्षणम्
Script
Translation
Previous
रावणनिन्दा
Next
लक्ष्मणशङ्काप्रतिसमाधानम्
अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे स्वर्णमृगप्रेक्षणम् नाम द्विचत्वारिंशः सर्गः ॥३-४२॥
एवमुक्त्वा तु परुषं मारीचो रावणं ततः ।
गच्छावेत्यब्रवीद् दीनो भयाद् रात्रिंचरप्रभोः ॥३-४२-१॥
दृष्टश्चाहं पुनस्तेन शरचापासिधारिणा ।
मद्वधोद्यतशस्त्रेण निहतं जीवितं च मे ॥३-४२-२॥
नहि रामं पराक्रम्य जीवन् प्रतिनिवर्तते ।
वर्तते प्रतिरूपोऽसौ यमदण्डहतस्य ते ॥३-४२-३॥
किं नु कर्तुं मया शक्यमेवं त्वयि दुरात्मनि ।
एष गच्छाम्यहं तात स्वस्ति तेऽस्तु निशाचर ॥३-४२-४॥
प्रहृष्टस्त्वभवत् तेन वचनेन स राक्षसः ।
परिष्वज्य सुसंश्लिष्टमिदं वचनमब्रवीत् ॥३-४२-५॥
एतच्छौटीर्ययुक्तं ते मच्छन्दवशवर्तिनः ।
इदानीमसि मारीचः पूर्वमन्यो हि राक्षसः ॥३-४२-६॥
आरुह्यतामयं शीघ्रं खगो रत्नविभूषितः ।
मया सह रथो युक्तः पिशाचवदनैः खरैः ॥३-४२-७॥
प्रलोभयित्वा वैदेहीं यथेष्टं गन्तुमर्हसि ।
तां शून्ये प्रसभं सीतामानयिष्यामि मैथिलीम् ॥३-४२-८॥
ततस्तथेत्युवाचैनं रावणं ताटकासुतः ।
ततो रावणमारीचौ विमानमिव तं रथम् ॥३-४२-९॥
आरुह्याययतुः शीघ्रं तस्मादाश्रममण्डलात् ।
तथैव तत्र पश्यन्तौ पत्तनानि वनानि च ॥३-४२-१०॥
गिरींश्च सरितः सर्वा राष्ट्राणि नगराणि च ।
समेत्य दण्डकारण्यं राघवस्याश्रमं ततः ॥३-४२-११॥
ददर्श सहमारीचो रावणो राक्षसाधिपः ।
अवतीर्य रथात् तस्मात् ततः काञ्चनभूषणात् ॥३-४२-१२॥
हस्ते गृहीत्वा मारीचं रावणो वाक्यमब्रवीत् ।
एतद् रामाश्रमपदं दृश्यते कदलीवृतम् ॥३-४२-१३॥
क्रियतां तत् सखे शीघ्रं यदर्थं वयमागताः ।
स रावणवचः श्रुत्वा मारीचो राक्षसस्तदा ॥३-४२-१४॥
मृगो भूत्वाऽऽश्रमद्वारि रामस्य विचचार ह ।
स तु रूपं समास्थाय महदद्भुतदर्शनम् ॥३-४२-१५॥
मणिप्रवरशृङ्गाग्रः सितासितमुखाकृतिः ।
रक्तपद्मोत्पलमुख इन्द्रनीलोत्पलश्रवाः ॥३-४२-१६॥
किंचिदभ्युन्नतग्रीव इन्द्रनीलनिभोदरः ।
मधूकनिभपार्श्वश्च कञ्जकिञ्जल्कसंनिभः ॥३-४२-१७॥
वैदूर्यसंकाशखुरस्तनुजङ्घः सुसंहतः ।
इन्द्रायुधसवर्णेन पुच्छेनोर्ध्वं विराजितः ॥३-४२-१८॥
मनोहरस्निग्धवर्णो रत्नैर्नानाविधैर्वृतः ।
क्षणेन राक्षसो जातो मृगः परमशोभनः ॥३-४२-१९॥
वनं प्रज्वलयन् रम्यं रामाश्रमपदं च तत् ।
मनोहरं दर्शनीयं रूपं कृत्वा स राक्षसः ॥३-४२-२०॥
प्रलोभनार्थं वैदेह्या नानाधातुविचित्रितम् ।
विचरन् गच्छते सम्यक् शाद्वलानि समन्ततः ॥३-४२-२१॥
रौप्यैर्बिन्दुशतैश्चित्रं भूत्वा च प्रियदर्शनः ।
विटपीनां किसलयान् भक्षयन् विचचार ह ॥३-४२-२२॥
कदलीगृहकं गत्वा कर्णिकारानितस्ततः ।
समाश्रयन् मन्दगतिं सीतासंदर्शनं ततः ॥३-४२-२३॥
राजीवचित्रपृष्ठः स विरराज महामृगः ।
रामाश्रमपदाभ्याशे विचचार यथासुखम् ॥३-४२-२४॥
पुनर्गत्वा निवृत्तश्च विचचार मृगोत्तमः ।
गत्वा मुहूर्तं त्वरया पुनः प्रतिनिवर्तते ॥३-४२-२५॥
विक्रीडंश्च क्वचिद् भूमौ पुनरेव निषीदति ।
आश्रमद्वारमागम्य मृगयूथानि गच्छति ॥३-४२-२६॥
मृगयूथैरनुगतः पुनरेव निवर्तते ।
सीतादर्शनमाकांक्षन् राक्षसो मृगतां गतः ॥३-४२-२७॥
परिभ्रमति चित्राणि मण्डलानि विनिष्पतन् ।
समुद्वीक्ष्य च सर्वे तं मृगा येऽन्ये वनेचराः ॥३-४२-२८॥
उपगम्य समाघ्राय विद्रवन्ति दिशो दश ।
राक्षसः सोऽपि तान् वन्यान् मृगान् मृगवधे रतः ॥३-४२-२९॥
प्रच्छादनार्थं भावस्य न भक्षयति संस्पृशन् ।
तस्मिन् नेव ततः काले वैदेही शुभलोचना ॥३-४२-३०॥
कुसुमापचये व्यग्रा पादपानत्यवर्तत ।
कर्णिकारानशोकांश्च चूतांश्च मदिरेक्षणा ॥३-४२-३१॥
कुसुमान्यपचिन्वन्ती चचार रुचिरानना ।
अनर्हा वनवासस्य सा तं रत्नमयं मृगम् ॥३-४२-३२॥
मुक्तामणिविचित्राङ्गं ददर्श परमाङ्गना ।
तं वै रुचिरदन्तोष्ठं रूप्यधातुतनूरुहम् ॥३-४२-३३॥
विस्मयोत्फुल्लनयना सस्नेहं समुदैक्षत ।
स च तां रामदयितां पश्यन् मायामयो मृगः ॥३-४२-३४॥
विचचार ततस्तत्र दीपयन्निव तद् वनम् ।
अदृष्टपूर्वं दृष्ट्वा तं नानारत्नमयं मृगम् ।
विस्मयं परमं सीता जगाम जनकात्मजा ॥३-४२-३५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे स्वर्णमृगप्रेक्षणम् नाम द्विचत्वारिंशः सर्गः ॥३-४२॥
Previous
रावणनिन्दा
Next
लक्ष्मणशङ्काप्रतिसमाधानम्