साहाय्यकानभ्युपगमः
अरण्यकाण्डः / साहाय्यकानभ्युपगमः
Script
Translation
Previous
रामास्त्रमहिमा
Next
मायामृगरूपपरिग्रहनिर्बन्धः
अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे साहाय्यकानभ्युपगमः नाम एकोनचत्वारिंशः सर्गः ॥३-३९॥
एवमस्मि तदा मुक्तः कथंचित् तेन संयुगे ।
इदानीमपि यद् वृत्तं तच्छृणुष्व यदुत्तरम् ॥३-३९-१॥
राक्षसाभ्यामहं द्वाभ्यामनिर्विण्णस्तथाकृतः ।
सहितो मृगरूपाभ्यां प्रविष्टो दण्डकावने ॥३-३९-२॥
दीप्तजिह्वो महादंष्ट्रस्तीक्ष्णशृङ्गो महाबलः ।
व्यचरन् दण्डकारण्यं मांसभक्षो महामृगः ॥३-३९-३॥
अग्निहोत्रेषु तीर्थेषु चैत्यवृक्षेषु रावण ।
अत्यन्तघोरो व्यचरंस्तापसांस्तान् प्रधर्षयन् ॥३-३९-४॥
निहत्य दण्डकारण्ये तापसान् धर्मचारिणः ।
रुधिराणि पिबंस्तेषां तन्मांसानि च भक्षयन् ॥३-३९-५॥
ऋषिमांसाशनः क्रूरस्त्रासयन् वनगोचरान् ।
तदा रुधिरमत्तोऽहं व्यचरं दण्डकावनम् ॥३-३९-६॥
तदाहं दण्डकारण्ये विचरन् धर्मदूषकः ।
आसादयं तदा रामं तापसं धर्ममाश्रितम् ॥३-३९-७॥
वैदेहीं च महाभागां लक्ष्मणं च महारथम् ।
तापसं नियताहारं सर्वभूतहिते रतम् ॥३-३९-८॥
सोऽहं वनगतं रामं परिभूय महाबलम् ।
तापसोऽयमिति ज्ञात्वा पूर्ववैरमनुस्मरन् ॥३-३९-९॥
अभ्यधावं सुसंक्रुद्धस्तीक्ष्णशृङ्गो मृगाकृतिः ।
जिघांसुरकृतप्रज्ञस्तं प्रहारमनुस्मरन् ॥३-३९-१०॥
तेन त्यक्तास्त्रयो बाणाः शिताः शत्रुनिबर्हणाः ।
विकृष्य सुमहच्चापं सुपर्णानिलतुल्यगाः ॥३-३९-११॥
ते बाणा वज्रसंकाशाः सुघोरा रक्तभोजनाः ।
आजग्मुः सहिताः सर्वे त्रयः संनतपर्वणः ॥३-३९-१२॥
पराक्रमज्ञो रामस्य शठो दृष्टभयः पुरा ।
समुत्क्रान्तस्ततो मुक्तस्तावुभौ राक्षसौ हतौ ॥३-३९-१३॥
शरेण मुक्तो रामस्य कथंचित् प्राप्य जीवितम् ।
इह प्रव्राजितो युक्तस्तापसोऽहं समाहितः ॥३-३९-१४॥
वृक्षे वृक्षे हि पश्यामि चीरकृष्णाजिनाम्बरम् ।
गृहीतधनुषं रामं पाशहस्तमिवान्तकम् ॥३-३९-१५॥
अपि रामसहस्राणि भीतः पश्यामि रावण ।
रामभूतमिदं सर्वमरण्यं प्रतिभाति मे ॥३-३९-१६॥
राममेव हि पश्यामि रहिते राक्षसेश्वर ।
दृष्ट्वा स्वप्नगतं राममुद्भ्रमामि विचेतनः ॥३-३९-१७॥
रकारादीनि नामानि रामत्रस्तस्य रावण ।
रत्नानि च रथाश्चैव वित्रासं जनयन्ति मे ॥३-३९-१८॥
अहं तस्य प्रभावज्ञो न युद्धं तेन ते क्षमम् ।
बलिं वा नमुचिं वापि हन्याद्धि रघुनन्दनः ॥३-३९-१९॥
रणे रामेण युद्धस्व क्षमां वा कुरु रावण ।
न ते रामकथा कार्या यदि मां द्रष्टुमिच्छसि ॥३-३९-२०॥
बहवः साधवो लोके युक्ता धर्ममनुष्ठिताः ।
परेषामपराधेन विनष्टाः सपरिच्छदाः ॥३-३९-२१॥
सोऽहं परापराधेन विनशेयं निशाचर ।
कुरु यत् ते क्षमं तत्त्वमहं त्वां नानुयामि वै ॥३-३९-२२॥
रामश्च हि महातेजा महासत्त्वो महाबलः ।
अपि राक्षसलोकस्य भवेदन्तकरोऽपि हि ॥३-३९-२३॥
यदि शूर्पणखाहेतोर्जनस्थानगतः खरः ।
अतिवृत्तो हतः पूर्वं रामेणाक्लिष्टकर्मणा ।
अत्र ब्रूहि यथातत्त्वं को रामस्य व्यतिक्रमः ॥३-३९-२४॥
इदं वचो बन्धुहितार्थिना मया यथोच्यमानं यदि नाभिपत्स्यसे ।
सबान्धवस्त्यक्ष्यसि जीवितं रणे हतोऽद्य रामेण शरैरजिह्मगैः ॥३-३९-२५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे साहाय्यकानभ्युपगमः नाम एकोनचत्वारिंशः सर्गः ॥३-३९॥
Previous
रामास्त्रमहिमा
Next
मायामृगरूपपरिग्रहनिर्बन्धः