दूषणादिवधः

अरण्यकाण्डः / दूषणादिवधः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे दूषणादिवधः नाम षड्विंशः सर्गः ॥३-२६॥
दूषणस्तु स्वकं सैन्यं हन्यमानं विलोक्य च । संदिदेश महाबाहुर्भीमवेगान् दुरासदान् ॥३-२६-१॥
राक्षसान् पञ्चसाहस्रान् समरेष्वनिवर्तिनः । ते शूलैः पट्टिशैः खड्गैः शिलावर्षैर्द्रुमैरपि ॥३-२६-२॥
शरवर्षैरविच्छिन्नं ववर्षुस्तं समन्ततः । तद् द्रुमाणां शिलानां च वर्षं प्राणहरं महत् ॥३-२६-३॥
प्रतिजग्राह धर्मात्मा राघवस्तीक्ष्णसायकैः । प्रतिगृह्य च तद् वर्षं निमीलित इवर्षभः ॥३-२६-४॥
रामः क्रोधं परं लेभे वधार्थं सर्वरक्षसाम् । ततः क्रोधसमाविष्टः प्रदीप्त इव तेजसा ॥३-२६-५॥
शरैरभ्यकिरत् सैन्यं सर्वतः सहदूषणम् । ततः सेनापतिः क्रुद्धो दूषणः शत्रुदूषणः ॥३-२६-६॥
शरैरशनिकल्पैस्तं राघवं समवारयत् । ततो रामः सुसंक्रुद्धः क्षुरेणास्य महद् धनुः ॥३-२६-७॥
चिच्छेद समरे वीरश्चर्तुभिश्चतुरो हयान् । हत्वा चाश्वान् शरैस्तीक्ष्णैरर्धचन्द्रेण सारथेः ॥३-२६-८॥
शिरो जहार तद्रक्षस्त्रिभिर्विव्याध वक्षसि । स च्छिन्नधन्वा विरथो हताश्वो हतसारथिः ॥३-२६-९॥
जग्राह गिरिशृङ्गाभं परिघं रोमहर्षणम् । वेष्टितं काञ्चनैः पट्टैर्देवसैन्याभिमर्दनम् ॥३-२६-१०॥
आयसैः शङ्कुभिस्तीक्ष्णैः कीर्णं परवसोक्षितम् । वज्राशनिसमस्पर्शं परगोपुरदारणम् ॥३-२६-११॥
तं महोरगसंकाशं प्रगृह्य परिघं रणे । दूषणोऽभ्यपतद् रामं क्रूरकर्मा निशाचरः ॥३-२६-१२॥
तस्याभिपतमानस्य दूषणस्य च राघवः । द्वाभ्यां शराभ्यां चिच्छेद सहस्ताभरणौ भुजौ ॥३-२६-१३॥
भ्रष्टस्तस्य महाकायः पपात रणमूर्धनि । परिघश्छिन्नहस्तस्य शक्रध्वज इवाग्रतः ॥३-२६-१४॥
कराभ्यां च विकीर्णाभ्यां पपात भुवि दूषणः । विषाणाभ्यां विशीर्णाभ्यां मनस्वीव महागजः ॥३-२६-१५॥
दृष्ट्वा तं पतितं भूमौ दूषणं निहतं रणे । साधु साध्विति काकुत्स्थं सर्वभूतान्यपूजयन् ॥३-२६-१६॥
एतस्मिन्नन्तरे क्रुद्धास्त्रयः सेनाग्रयायिनः । संहत्याभ्यद्रवन् रामं मृत्युपाशावपाशिताः ॥३-२६-१७॥
महाकपालः स्थूलाक्षः प्रमाथी च महाबलः । महाकपालो विपुलं शूलमुद्यम्य राक्षसः ॥३-२६-१८॥
स्थूलाक्षः पट्टिशं गृह्य प्रमाथी च परश्वधम् । दृष्ट्वैवापततस्तांस्तु राघवः सायकैः शितैः ॥३-२६-१९॥
तीक्ष्णाग्रैः प्रतिजग्राह सम्प्राप्तानतिथीनिव । महाकपालस्य शिरश्चिच्छेद रघुनन्दनः ॥३-२६-२०॥
असंख्येयैस्तु बाणौघैः प्रममाथ प्रमाथिनम् । स्थूलाक्षस्याक्षिणी स्थूले पूरयामास सायकैः ॥३-२६-२१॥
स पपात हतो भूमौ विटपीव महाद्रुमः । दूषणस्यानुगान् पञ्चसाहस्रान् कुपितः क्षणात् ॥३-२६-२२॥
हत्वा तु पञ्चसाहस्रैरनयद् यमसादनम् । दूषणं निहतं श्रुत्वा तस्य चैव पदानुगान् ॥३-२६-२३॥
व्यादिदेश खरः क्रुद्धः सेनाध्यक्षान् महाबलान् । अयं विनिहतः संख्ये दूषणः सपदानुगः ॥३-२६-२४॥
महत्या सेनया सार्धं युद्ध्वा रामं कुमानुषम् । शस्त्रैर्नानाविधाकारैर्हनध्वं सर्वराक्षसाः ॥३-२६-२५॥
एवमुक्त्वा खरः क्रुद्धो राममेवाभिदुद्रुवे । श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहंगमः ॥३-२६-२६॥
दुर्जयः करवीराक्षः परुषः कालकार्मुकः । हेममाली महामाली सर्पास्यो रुधिराशनः ॥३-२६-२७॥
द्वादशैते महावीर्या बलाध्यक्षाः ससैनिकाः । राममेवाभ्यधावन्त विसृजन्तः शरोत्तमान् ॥३-२६-२८॥
ततः पावकसंकाशैर्हेमवज्रविभूषितैः । जघान शेषं तेजस्वी तस्य सैन्यस्य सायकैः ॥३-२६-२९॥
ते रुक्मपुङ्खा विशिखाः सधूमा इव पावकाः । निजघ्नुस्तानि रक्षांसि वज्रा इव महाद्रुमान् ॥३-२६-३०॥
रक्षसां तु शतं रामः शतेनैकेन किर्णना । सहस्रं तु सहस्रेण जघान रणमूर्धनि ॥३-२६-३१॥
तैर्भिन्नवर्माभरणाश्छिन्नभिन्नशरासनाः । निपेतुः शोणितादिग्धा धरण्यां रजनीचराः ॥३-२६-३२॥
तैर्मुक्तकेशैः समरे पतितैः शोणितोक्षितैः । विस्तीर्णा वसुधा कृत्स्ना महावेदिः कुशैरिव ॥३-२६-३३॥
तत्क्षणे तु महाघोरं वनं निहतराक्षसम् । बभूव निरयप्रख्यं मांसशोणितकर्दमम् ॥३-२६-३४॥
चतुर्दशसहस्राणि रक्षसां भीमकर्मणाम् । हतान्येकेन रामेण मानुषेण पदातिना ॥३-२६-३५॥
तस्य सैन्यस्य सर्वस्य खरः शेषो महारथः । राक्षसस्त्रिशिराश्चैव रामश्च रिपुसूदनः ॥३-२६-३६॥
शेषा हता महावीर्या राक्षसा रणमूर्धनि । घोरा दुर्विषहाः सर्वे लक्ष्मणस्याग्रजेन ते ॥३-२६-३७॥
ततस्तु तद्भीमबलं महाहवे समीक्ष्य रामेण हतं बलीयसा । रथेन रामं महता खरस्ततः समाससादेन्द्र इवोद्यताशनिः ॥३-२६-३८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे दूषणादिवधः नाम षड्विंशः सर्गः ॥३-२६॥