खरसैन्यावमर्दः

अरण्यकाण्डः / खरसैन्यावमर्दः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे खरसैन्यावमर्दः नाम पञ्चविंशः सर्गः ॥३-२५॥
अवष्टब्धधनुं रामं क्रुद्धं तं रिपुघातिनम् । ददर्शाश्रममागम्य खरः सह पुरःसरैः ॥३-२५-१॥
तं दृष्ट्वा सगुणं चापमुद्यम्य खरनिःस्वनम् । रामस्याभिमुखं सूतं चोद्यतामित्यचोदयत् ॥३-२५-२॥
स खरस्याज्ञया सूतस्तुरगान् समचोदयत् । यत्र रामो महाबाहुरेको धुन्वन् धनुः स्थितः ॥३-२५-३॥
तं तु निष्पतितं दृष्ट्वा सर्वतो रजनीचराः । मुञ्चमाना महानादं सचिवाः पर्यवारयन् ॥३-२५-४॥
स तेषां यातुधानानां मध्ये रथगतः खरः । बभूव मध्ये ताराणां लोहिताङ्ग इवोदितः ॥३-२५-५॥
ततः शरसहस्रेण राममप्रतिमौजसम् । अर्दयित्वा महानादं ननाद समरे खरः ॥३-२५-६॥
ततस्तं भीमधन्वानं क्रुद्धाः सर्वे निशाचराः । रामं नानाविधैः शस्त्रैरभ्यवर्षन्त दुर्जयम् ॥३-२५-७॥
मुद्गरैरायसैः शूलैः प्रासैः खड्गैः परश्वधैः । राक्षसाः समरे शूरं निजघ्नू रोषतत्पराः ॥३-२५-८॥
ते बलाहकसंकाशा महाकाया महाबलाः । अभ्यधावन्त काकुत्स्थं रथैर्वाजिभिरेव च ॥३-२५-९॥
गजैः पर्वतकूटाभै रामं युद्धे जिघांसवः । ते रामे शरवर्षाणि व्यसृजन् रक्षसां गणाः ॥३-२५-१०॥
शैलेन्द्रमिव धाराभिर्वर्षमाणा महाघनाः । सर्वैः परिवृतो रामो राक्षसैः क्रूरदर्शनैः ॥३-२५-११॥
तिथिष्विव महादेवो वृतः पारिषदां गणैः । तानि मुक्तानि शस्त्राणि यातुधानैः स राघवः ॥३-२५-१२॥
प्रतिजग्राह विशिखैर्नद्योघानिव सागरः । स तैः प्रहरणैर्घोरैर्भिन्नगात्रो न विव्यथे ॥३-२५-१३॥
रामः प्रदीप्तैर्बहुभिर्वज्रैरिव महाचलः । स विद्धः क्षतजादिग्धः सर्वगात्रेषु राघवः ॥३-२५-१४॥
बभूव रामः संध्याभ्रैर्दिवाकर इवावृतः । विषेदुर्देवगन्धर्वाः सिद्धाश्च परमर्षयः ॥३-२५-१५॥
एकं सहस्रैर्बहुभिस्तदा दृष्ट्वा समावृतम् । ततो रामस्तु संक्रुद्धो मण्डलीकृतकार्मुकः ॥३-२५-१६॥
ससर्ज निशितान् बाणान् शतशोऽथ सहस्रशः । दुरावारान् दुर्विषहान् कालपाशोपमान् रणे ॥३-२५-१७॥
मुमोच लीलया कङ्कपत्रान् काञ्चनभूषणान् । ते शराः शत्रुसैन्येषु मुक्ता रामेण लीलया ॥३-२५-१८॥
आददू रक्षसां प्राणान् पाशाः कालकृता इव । भित्त्वा राक्षसदेहांस्तांस्ते शरा रुधिराप्लुताः ॥३-२५-१९॥
अन्तरिक्षगता रेजुर्दीप्ताग्निसमतेजसः । असंख्येयास्तु रामस्य सायकाश्चापमण्डलात् ॥३-२५-२०॥
विनिष्पेतुरतीवोग्रा रक्षःप्राणापहारिणः । तैर्धनूंषि ध्वजाग्राणि चर्माणि कवचानि च ॥३-२५-२१॥
बाहून् सहस्ताभरणानूरून् करिकरोपमान् । चिच्छेद रामः समरे शतशोऽथ सहस्रशः ॥३-२५-२२॥
हयान् काञ्चनसंनाहान् रथयुक्तान् ससारथीन् । गजांश्च सगजारोहान् सहयान् सादिनस्तदा ॥३-२५-२३॥
चिच्छिदुर्बिभिदुश्चैव रामबाणा गुणच्युताः । पदातीन् समरे हत्वा ह्यनयद् यमसादनम् ॥३-२५-२४॥
ततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः । भीममार्तस्वरं चक्रुश्छिद्यमाना निशाचराः ॥३-२५-२५॥
तत्सैन्यं विविधैर्बाणैरर्दितं मर्मभेदिभिः । न रामेण सुखं लेभे शुष्कं वनमिवाग्निना ॥३-२५-२६॥
केचिद् भीमबलाः शूराः प्रासान् शूलान् परश्वधान् । चिक्षिपुः परमक्रुद्धा रामाय रजनीचराः ॥३-२५-२७॥
तेषां बाणैर्महाबाहुः शस्त्राण्यावार्य वीर्यवान् । जहार समरे प्राणांश्चिच्छेद च शिरोधरान् ॥३-२५-२८॥
ते छिन्नशिरसः पेतुश्छिन्नचर्मशरासनाः । सुपर्णवातविक्षिप्ता जगत्यां पादपा यथा ॥३-२५-२९॥
अवशिष्टाश्च ये तत्र विषण्णास्ते निशाचराः । खरमेवाभ्यधावन्त शरणार्थं शराहताः ॥३-२५-३०॥
तान् सर्वान् धनुरादाय समाश्वास्य च दूषणः । अभ्यधावत् सुसंक्रुद्धः क्रुद्धं क्रुद्ध इवान्तकः ॥३-२५-३१॥
निवृत्तास्तु पुनः सर्वे दूषणाश्रयनिर्भयाः । राममेवाभ्यधावन्त सालतालशिलायुधाः ॥३-२५-३२॥
शूलमुद्गरहस्ताश्च पाशहस्ता महाबलाः । सृजन्तः शरवर्षाणि शस्त्रवर्षाणि संयुगे ॥३-२५-३३॥
द्रुमवर्षाणि मुञ्चन्तः शिलावर्षाणि राक्षसाः । तद् बभूवाद्भुतं युद्धं तुमुलं रोमहर्षणम् ॥३-२५-३४॥
रामस्यास्य महाघोरं पुनस्तेषां च रक्षसाम् । ते समन्तादभिक्रुद्धा राघवं पुनरार्दयन् ॥३-२५-३५॥
ततः सर्वा दिशो दृष्ट्वा प्रदिशश्च समावृताः । राक्षसैः सर्वतः प्राप्तैः शरवर्षाभिरावृतः ॥३-२५-३६॥
स कृत्वा भैरवं नादमस्त्रं परमभास्वरम् । समयोजयद् गान्धर्वं राक्षसेषु महाबलः ॥३-२५-३७॥
ततः शरसहस्राणि निर्ययुश्चापमण्डलात् । सर्वा दश दिशो बाणैरापूर्यन्त समागतैः ॥३-२५-३८॥
नाददानं शरान् घोरान् विमुञ्चन्तं शरोत्तमान् । विकर्षमाणं पश्यन्ति राक्षसास्ते शरार्दिताः ॥३-२५-३९॥
शरान्धकारमाकाशमावृणोत् सदिवाकरम् । बभूवावस्थितो रामः प्रक्षिपन्निव तान् शरान् ॥३-२५-४०॥
युगपत्पतमानैश्च युगपच्च हतैर्भृशम् । युगपत्पतितैश्चैव विकीर्णा वसुधाभवत् ॥३-२५-४१॥
निहताः पतिताः क्षीणाश्छिन्ना भिन्ना विदारिताः । तत्र तत्र स्म दृश्यन्ते राक्षसास्ते सहस्रशः ॥३-२५-४२॥
सोष्णीषैरुत्तमाङ्गैश्च साङ्गदैर्बाहुभिस्तथा । ऊरुभिर्बाहुभिश्छिन्नैर्नानारूपैर्विभूषणैः ॥३-२५-४३॥
हयैश्च द्विपमुख्यैश्च रथैर्भिन्नैरनेकशः । चामरव्यजनैश्छत्रैर्ध्वजैर्नानाविधैरपि ॥३-२५-४४॥
रामेण बाणाभिहतैर्विच्छिन्नैः शूलपट्टिशैः । खड्गैः खण्डीकृतैः प्रासैर्विकीर्णैश्च परश्वधैः ॥३-२५-४५॥
चूर्णिताभिः शिलाभिश्च शरैश्चित्रैरनेकशः । विच्छिन्नैः समरे भूमिर्विस्तीर्णाभूद् भयंकरा ॥३-२५-४६॥
तान् दृष्ट्वा निहतान् सर्वे राक्षसाः परमातुराः । न तत्र चलितुं शक्ता रामं परपुरंजयम् ॥३-२५-४७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे खरसैन्यावमर्दः नाम पञ्चविंशः सर्गः ॥३-२५॥