त्रिशिरोवधः

अरण्यकाण्डः / त्रिशिरोवधः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे त्रिशिरोवधः नाम सप्तविंशः सर्गः ॥३-२७॥
खरं तु रामाभिमुखं प्रयान्तं वाहिनीपतिः । राक्षसस्त्रिशिरा नाम संनिपत्येदमब्रवीत् ॥३-२७-१॥
मां नियोजय विक्रान्तं त्वं निवर्तस्व साहसात् । पश्य रामं महाबाहुं संयुगे विनिपातितम् ॥३-२७-२॥
प्रतिजानामि ते सत्यमायुधं चाहमालभे । यथा रामं वधिष्यामि वधार्हं सर्वरक्षसाम् ॥३-२७-३॥
अहं वास्य रणे मृत्युरेष वा समरे मम । विनिवर्त्य रणोत्साहं मुहूर्तं प्राश्निको भव ॥३-२७-४॥
प्रहृष्टो वा हते रामे जनस्थानं प्रयास्यसि । मयि वा निहते रामं संयुगाय प्रयास्यसि ॥३-२७-५॥
खरस्त्रिशिरसा तेन मृत्युलोभात् प्रसादितः । गच्छ युध्येत्यनुज्ञातो राघवाभिमुखो ययौ ॥३-२७-६॥
त्रिशिरास्तु रथेनैव वाजियुक्तेन भास्वता । अभ्यद्रवद् रणे रामं त्रिशृङ्ग इव पर्वतः ॥३-२७-७॥
शरधारासमूहान् स महामेघ इवोत्सृजन् । व्यसृजत् सदृशं नादं जलार्द्रस्येव दुन्दुभेः ॥३-२७-८॥
आगच्छन्तं त्रिशिरसं राक्षसं प्रेक्ष्य राघवः । धनुषा प्रतिजग्राह विधुन्वन् सायकान् शितान् ॥३-२७-९॥
स सम्प्रहारस्तुमुलो रामत्रिशिरसोस्तदा । सम्बभूवातिबलिनोः सिंहकुञ्जरयोरिव ॥३-२७-१०॥
ततस्त्रिशिरसा बाणैर्ललाटे ताडितस्त्रिभिः । अमर्षी कुपितो रामः संरब्ध इदमब्रवीत् ॥३-२७-११॥
अहो विक्रमशूरस्य राक्षसस्येदृशं बलम् । पुष्पैरिव शरैर्योऽहं ललाटेऽस्मि परिक्षतः ॥३-२७-१२॥
ममापि प्रतिगृह्णीष्व शरांश्चापगुणाच्च्युतान् । एवमुक्त्वा सुसंरब्धः शरानाशीविषोपमान् ॥३-२७-१३॥
त्रिशिरोवक्षसि क्रुद्धो निजघान चतुर्दश । चतुर्भिस्तुरगानस्य शरैः संनतपर्वभिः ॥३-२७-१४॥
न्यपातयत तेजस्वी चतुरस्तस्य वाजिनः । अष्टभिः सायकैः सूतं रथोपस्थे न्यपातयत् ॥३-२७-१५॥
रामश्चिच्छेद बाणेन ध्वजं चास्य समुच्छ्रितम् । ततो हतरथात् तस्मादुत्पतन्तं निशाचरम् ॥३-२७-१६॥
चिच्छेद रामस्तं बाणैर्हृदये सोऽभवज्जडः । सायकैश्चाप्रमेयात्मा सामर्षस्तस्य रक्षसः ॥३-२७-१७॥
शिरांस्यपातयत् त्रीणि वेगवद्भिस्त्रिभिः शरैः । स धूमशोणितोद्गारी रामबाणाभिपीडितः ॥३-२७-१८॥
न्यपतत् पतितैः पूर्वं समरस्थो निशाचरः । हतशेषास्ततो भग्ना राक्षसाः खरसंश्रयाः ॥३-२७-१९॥
द्रवन्ति स्म न तिष्ठन्ति व्याघ्रत्रस्ता मृगा इव । तान् खरो द्रवतो दृष्ट्वा निवर्त्य रुषितस्त्वरन् । राममेवाभिदुद्राव राहुश्चन्द्रमसं यथा ॥३-२७-२०॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे त्रिशिरोवधः नाम सप्तविंशः सर्गः ॥३-२७॥