रामखरबलसन्निकर्षः

अरण्यकाण्डः / रामखरबलसन्निकर्षः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे रामखरबलसन्निकर्षः नाम चतुर्विंशः सर्गः ॥३-२४॥
आश्रमं प्रतियाते तु खरे खरपराक्रमे । तानेवौत्पातिकान् रामः सह भ्रात्रा ददर्श ह ॥३-२४-१॥
तानुत्पातान् महाघोरान् रामो दृष्ट्वात्यमर्षणः । प्रजानामहितान् दृष्ट्वा वाक्यं लक्ष्मणमब्रवीत् ॥३-२४-२॥
इमान् पश्य महाबाहो सर्वभूतापहारिणः । समुत्थितान् महोत्पातान् संहर्तुं सर्वराक्षसान् ॥३-२४-३॥
अमी रुधिरधारास्तु विसृजन्ते खरस्वनाः । व्योम्नि मेघा निवर्तन्ते परुषा गर्दभारुणाः ॥३-२४-४॥
सधूमाश्च शराः सर्वे मम युद्धाभिनन्दिताः । रुक्मपृष्ठानि चापानि विचेष्टन्ते विचक्षण ॥३-२४-५॥
यादृशा इह कूजन्ति पक्षिणो वनचारिणः । अग्रतो नोऽभयं प्राप्तं संशयो जीवितस्य च ॥३-२४-६॥
सम्प्रहारस्तु सुमहान् भविष्यति न संशयः । अयमाख्याति मे बाहुः स्फुरमाणो मुहुर्मुहुः ॥३-२४-७॥
संनिकर्षे तु नः शूर जयं शत्रोः पराजयम् । सुप्रभं च प्रसन्नं च तव वक्त्रं हि लक्ष्यते ॥३-२४-८॥
उद्यतानां हि युद्धार्थं येषां भवति लक्ष्मण । निष्प्रभं वदनं तेषां भवत्यायुः परिक्षयः ॥३-२४-९॥
रक्षसां नर्दतां घोरः श्रूयतेऽयं महाध्वनिः । आहतानां च भेरीणां राक्षसैः क्रूरकर्मभिः ॥३-२४-१०॥
अनागतविधानं तु कर्तव्यं शुभमिच्छता । आपदं शङ्कमानेन पुरुषेण विपश्चिता ॥३-२४-११॥
तस्माद् गृहीत्वा वैदेहीं शरपाणिर्धनुर्धरः । गुहामाश्रय शैलस्य दुर्गां पादपसंकुलाम् ॥३-२४-१२॥
प्रतिकूलितुमिच्छामि न हि वाक्यमिदं त्वया । शापितो मम पादाभ्यां गम्यतां वत्स मा चिरम् ॥३-२४-१३॥
त्वं हि शूरश्च बलवान् हन्या एतान् न संशयः । स्वयं निहन्तुमिच्छामि सर्वानेव निशाचरान् ॥३-२४-१४॥
एवमुक्तस्तु रामेण लक्ष्मणः सह सीतया । शरानादाय चापं च गुहां दुर्गां समाश्रयत् ॥३-२४-१५॥
तस्मिन् प्रविष्टे तु गुहां लक्ष्मणे सह सीतया । हन्त निर्युक्तमित्युक्त्वा रामः कवचमाविशत् ॥३-२४-१६॥
स तेनाग्निनिकाशेन कवचेन विभूषितः । बभूव रामस्तिमिरे महानग्निरिवोत्थितः ॥३-२४-१७॥
स चापमुद्यम्य महच्छरानादाय वीर्यवान् । सम्बभूवास्थितस्तत्र ज्यास्वनैः पूरयन् दिशः ॥३-२४-१८॥
ततो देवाः सगन्धर्वाः सिद्धाश्च सह चारणैः । समेयुश्च महात्मानो युद्धदर्शनकांक्षया ॥३-२४-१९॥
ऋषयश्च महात्मानो लोके ब्रह्मर्षिसत्तमाः । समेत्य चोचुः सहितास्तेऽन्योन्यं पुण्यकर्मणः ॥३-२४-२०॥
स्वस्ति गोब्राह्मणानां च लोकानां चेति संस्थिताः । जयतां राघवो युद्धे पौलस्त्यान् रजनीचरान् ॥३-२४-२१॥
चक्रहस्तो यथा युद्धे सर्वानसुरपुंगवान् । एवमुक्त्वा पुनः प्रोचुरालोक्य च परस्परम् ॥३-२४-२२॥
चतुर्दश सहस्राणि रक्षसां भीमकर्मणाम् । एकश्च रामो धर्मात्मा कथं युद्धं भविष्यति ॥३-२४-२३॥
इति राजर्षयः सिद्धाः सगणाश्च द्विजर्षभाः । जातकौतूहलास्तस्थुर्विमानस्थाश्च देवताः ॥३-२४-२४॥
आविष्टं तेजसा रामं संग्रामशिरसि स्थितम् । दृष्ट्वा सर्वाणि भूतानि भयाद् विव्यथिरे तदा ॥३-२४-२५॥
रूपमप्रतिमं तस्य रामस्याक्लिष्टकर्मणः । बभूव रूपं क्रुद्धस्य रुद्रस्येव महात्मनः ॥३-२४-२६॥
इति सम्भाष्यमाणे तु देवगन्धर्वचारणैः । ततो गम्भीरनिर्ह्रादं घोरचर्मायुधध्वजम् ॥३-२४-२७॥
अनीकं यातुधानानां समन्तात् प्रत्यपद्यत । वीरालापान् विसृजतामन्योन्यमभिगच्छताम् ॥३-२४-२८॥
चापानि विस्फारयतां जृम्भतां चाप्यभीक्ष्णशः । विप्रघुष्टस्वनानां च दुन्दुभींश्चापि निघ्नताम् ॥३-२४-२९॥
तेषां सुतुमुलः शब्दः पूरयामास तद् वनम् । तेन शब्देन वित्रस्ताः श्वापदा वनचारिणः ॥३-२४-३०॥
दुद्रुवुर्यत्र निःशब्दं पृष्ठतो नावलोकयन् । तच्चानीकं महावेगं रामं समनुवर्तत ॥३-२४-३१॥
धृतनानाप्रहरणं गम्भीरं सागरोपमम् । रामोऽपि चारयंश्चक्षुः सर्वतो रणपण्डितः ॥३-२४-३२॥
ददर्श खरसैन्यं तद् युद्धायाभिमुखो गतः । वितत्य च धनुर्भीमं तूण्याश्चोद्धृत्य सायकान् ॥३-२४-३३॥
क्रोधमाहारयत् तीव्रं वधार्थं सर्वरक्षसाम् । दुष्प्रेक्ष्यश्चाभवत् क्रुद्धो युगान्ताग्निरिव ज्वलन् ॥३-२४-३४॥
तं दृष्ट्वा तेजसाऽऽविष्टं प्राव्यथन् वनदेवताः । तस्य रुष्टस्य रूपं तु रामस्य ददृशे तदा । दक्षस्येव क्रतुं हन्तुमुद्यतस्य पिनाकिनः ॥३-२४-३५॥
तत्कार्मुकैराभरणै रथैश्च तद्वर्मभिश्चाग्निसमानवर्णैः । बभूव सैन्यं पिशिताशनानां सूर्योदये नीलमिवाभ्रजालम् ॥३-२४-३६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे रामखरबलसन्निकर्षः नाम चतुर्विंशः सर्गः ॥३-२४॥