उत्पातदर्शनम्

अरण्यकाण्डः / उत्पातदर्शनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे उत्पातदर्शनम् नाम त्रयोविंशः सर्गः ॥३-२३॥
तत्प्रयातं बलं घोरमशिवं शोणितोदकम् । अभ्यवर्षन्महाघोरस्तुमुलो गर्दभारुणः ॥३-२३-१॥
निपेतुस्तुरगास्तस्य रथयुक्ता महाजवाः । समे पुष्पचिते देशे राजमार्गे यदृच्छया ॥३-२३-२॥
श्यामं रुधिरपर्यन्तं बभूव परिवेषणम् । अलातचक्रप्रतिमं प्रतिगृह्य दिवाकरम् ॥३-२३-३॥
ततो ध्वजमुपागम्य हेमदण्डं समुच्छ्रितम् । समाक्रम्य महाकायस्तस्थौ गृध्रः सुदारुणः ॥३-२३-४॥
जनस्थानसमीपे च समाक्रम्य खरस्वनाः । विस्वरान् विविधान् नादान् मांसादा मृगपक्षिणः ॥३-२३-५॥
व्याजह्रुरभिदीप्तायां दिशि वै भैरवस्वनम् । अशिवं यातुधानानां शिवा घोरा महास्वनाः ॥३-२३-६॥
प्रभिन्नगजसंकाशास्तोयशोणितधारिणः । आकाशं तदनाकाशं चक्रुर्भीमाम्बुवाहकाः ॥३-२३-७॥
बभूव तिमिरं घोरमुद्धतं रोमहर्षणम् । दिशो वा प्रदिशो वापि सुव्यक्तं न चकाशिरे ॥३-२३-८॥
क्षतजार्द्रसवर्णाभा संध्या कालं विना बभौ । खरं चाभिमुखं नेदुस्तदा घोरा मृगाः खगाः ॥३-२३-९॥
कङ्कगोमायुगृध्राश्च चुक्रुशुर्भयशंसिनः । नित्याशिवकरा युद्धे शिवा घोरनिदर्शनाः ॥३-२३-१०॥
नेदुर्बलस्याभिमुखं ज्वालोद्गारिभिराननैः । कबन्धः परिघाभासो दृश्यते भास्करान्तिके ॥३-२३-११॥
जग्राह सूर्यं स्वर्भानुरपर्वणि महाग्रहः । प्रवाति मारुतः शीघ्रं निष्प्रभोऽभूद् दिवाकरः ॥३-२३-१२॥
उत्पेतुश्च विना रात्रिं ताराः खद्योतसप्रभाः । संलीनमीनविहगा नलिन्यः शुष्कपङ्कजाः ॥३-२३-१३॥
तस्मिन् क्षणे बभूवुश्च विना पुष्पफलैर्द्रुमाः । उद्धूतश्च विना वातं रेणुर्जलधरारुणः ॥३-२३-१४॥
चीचीकूचीति वाश्यन्त्यो बभूवुस्तत्र सारिकाः । उल्काश्चापि सनिर्घोषा निपेतुर्घोरदर्शनाः ॥३-२३-१५॥
प्रचचाल मही चापि सशैलवनकानना । खरस्य च रथस्थस्य नर्दमानस्य धीमतः ॥३-२३-१६॥
प्राकम्पत भुजः सव्यः स्वरश्चास्यावसज्जत । सास्रा सम्पद्यते दृष्टिः पश्यमानस्य सर्वतः ॥३-२३-१७॥
ललाटे च रुजो जाता न च मोहान्न्यवर्तत । तान् समीक्ष्य महोत्पातानुत्थितान् रोमहर्षणान् ॥३-२३-१८॥
अब्रवीद् राक्षसान् सर्वान् प्रहसन् स खरस्तदा । महोत्पातानिमान् सर्वानुत्थितान् घोरदर्शनान् ॥३-२३-१९॥
न चिन्तयाम्यहं वीर्याद् बलवान् दुर्बलानिव । तारा अपि शरैस्तीक्ष्णैः पातयेयं नभस्तलात् ॥३-२३-२०॥
मृत्युं मरणधर्मेण संक्रुद्धो योजयाम्यहम् । राघवं तं बलोत्सिक्तं भ्रातरं चापि लक्ष्मणम् ॥३-२३-२१॥
अहत्वा सायकैस्तीक्ष्णैर्नोपावर्तितुमुत्सहे । यन्निमित्तं तु रामस्य लक्ष्मणस्य विपर्ययः ॥३-२३-२२॥
सकामा भगिनीमेऽस्तु पीत्वा तु रुधिरं तयोः । न क्वचित् प्राप्तपूर्वो मे संयुगेषु पराजयः ॥३-२३-२३॥
युष्माकमेतत् प्रत्यक्षं नानृतं कथयाम्यहम् । देवराजमपि क्रुद्धो मत्तैरावतगामिनम् ॥३-२३-२४॥
वज्रहस्तं रणे हन्यां किं पुनस्तौ च मानवौ । सा तस्य गर्जितं श्रुत्वा राक्षसानां महाचमूः ॥३-२३-२५॥
प्रहर्षमतुलं लेभे मृत्युपाशावपाशिता । समेयुश्च महात्मानो युद्धदर्शनकांक्षिणः ॥३-२३-२६॥
ऋषयो देवगन्धर्वाः सिद्धाश्च सह चारणैः । समेत्य चोचुः सहितास्तेऽन्योन्यं पुण्यकर्मणः ॥३-२३-२७॥
स्वस्ति गोब्राह्मणेभ्यस्तु लोकानां ये च सम्मताः । जयतां राघवो युद्धे पौलस्त्यान् रजनीचरान् ॥३-२३-२८॥
चक्रहस्तो यथा विष्णुः सर्वानसुरसत्तमान् । एतच्चान्यच्च बहुशो ब्रुवाणाः परमर्षयः ॥३-२३-२९॥
जातकौतूहलास्तत्र विमानस्थाश्च देवताः । ददृशुर्वाहिनीं तेषां राक्षसानां गतायुषाम् ॥३-२३-३०॥
रथेन तु खरो वेगात् सैन्यस्याग्राद् विनिःसृतः । श्येनगामी पृथुग्रीवो यज्ञशत्रुर्विहंगमः ॥३-२३-३१॥
दुर्जयः करवीराक्षः परुषः कालकार्मुकः । हेममाली महामाली सर्पास्यो रुधिराशनः ॥३-२३-३२॥
द्वादशैते महावीर्याः प्रतस्थुरभितः खरम् । महाकपालः स्थूलाक्षः प्रमाथस्त्रिशिरास्तथा । चत्वार एते सेनाग्रे दूषणं पृष्ठतोऽन्वयुः ॥३-२३-३३॥
सा भीमवेगा समराभिकांक्षिणी सुदारुणा राक्षसवीरसेना । तौ राजपुत्रौ सहसाभ्युपेता माला ग्रहाणामिव चन्द्रसूर्यौ ॥३-२३-३४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे उत्पातदर्शनम् नाम त्रयोविंशः सर्गः ॥३-२३॥