खरसन्नाहः

अरण्यकाण्डः / खरसन्नाहः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे खरसन्नाहः नाम द्वाविंशः सर्गः ॥३-२२॥
एवमाधर्षितः शूरः शूर्पणख्या खरस्ततः । उवाच रक्षसां मध्ये खरः खरतरं वचः ॥३-२२-१॥
तवापमानप्रभवः क्रोधोऽयमतुलो मम । न शक्यते धारयितुं लवणाम्भ इवोल्बणम् ॥३-२२-२॥
न रामं गणये वीर्यान्मानुषं क्षीणजीवितम् । आत्मदुश्चरितैः प्राणान् हतो योऽद्य विमोक्ष्यते ॥३-२२-३॥
बाष्पः संधार्यतामेष सम्भ्रमश्च विमुच्यताम् । अहं रामं सह भ्रात्रा नयामि यमसादनम् ॥३-२२-४॥
परश्वधहतस्याद्य मन्दप्राणस्य भूतले । रामस्य रुधिरं रक्तमुष्णं पास्यसि राक्षसि ॥३-२२-५॥
सम्प्रहृष्टा वचः श्रुत्वा खरस्य वदनाच्च्युतम् । प्रशशंस पुनर्मौर्ख्याद् भ्रातरं रक्षसां वरम् ॥३-२२-६॥
तया परुषितः पूर्वं पुनरेव प्रशंसितः । अब्रवीद् दूषणं नाम खरः सेनापतिं तदा ॥३-२२-७॥
चतुर्दश सहस्राणि मम चित्तानुवर्तिनाम् । रक्षसां भीमवेगानां समरेष्वनिवर्तिनाम् ॥३-२२-८॥
नीलजीमूतवर्णानां लोकहिंसाविहारिणाम् । सर्वोद्योगमुदीर्णानां रक्षसां सौम्य कारय ॥३-२२-९॥
उपस्थापय मे क्षिप्रं रथं सौम्य धनूंषि च । शरांश्च चित्रान् खड्गांश्च शक्तीश्च विविधाः शिताः ॥३-२२-१०॥
अग्रे निर्यातुमिच्छामि पौलस्त्यानां महात्मनाम् । वधार्थं दुर्विनीतस्य रामस्य रणकोविद ॥३-२२-११॥
इति तस्य ब्रुवाणस्य सूर्यवर्णं महारथम् । सदश्वैः शबलैर्युक्तमाचचक्षेऽथ दूषणः ॥३-२२-१२॥
तं मेरुशिखराकारं तप्तकाञ्चनभूषणम् । हेमचक्रमसम्बाधं वैदूर्यमयकूबरम् ॥३-२२-१३॥
मत्स्यैः पुष्पैर्द्रुमैः शैलैश्चन्द्रसूर्यैश्च काञ्चनैः । माङ्गल्यैः पक्षिसङ्घैश्च ताराभिश्च समावृतम् ॥३-२२-१४॥
ध्वजनिस्त्रिंशसम्पन्नं किंकिणीवरभूषितम् । सदश्वयुक्तं सोऽमर्षादारुरोह खरस्तदा ॥३-२२-१५॥
खरस्तु तन्महत्सैन्यं रथचर्मायुधध्वजम् । निर्यातेत्यब्रवीत् प्रेक्ष्य दूषणः सर्वराक्षसान् ॥३-२२-१६॥
ततस्तद् राक्षसं सैन्यं घोरचर्मायुधध्वजम् । निर्जगाम जनस्थानान्महानादं महाजवम् ॥३-२२-१७॥
मुद्गरैः पट्टिशैः शूलैः सुतीक्ष्णैश्च परश्वधैः । खड्गैश्चक्रैश्च हस्तस्थैर्भ्राजमानैः सतोमरैः ॥३-२२-१८॥
शक्तिभिः परिघैर्घोरैरतिमात्रैश्च कार्मुकैः । गदासिमुसलैर्वज्रैर्गृहीतैर्भीमदर्शनैः ॥३-२२-१९॥
राक्षसानां सुघोराणां सहस्राणि चतुर्दश । निर्यातानि जनस्थानात् खरचित्तानुवर्तिनाम् ॥३-२२-२०॥
तांस्तु निर्धावतो दृष्ट्वा राक्षसान् भीमदर्शनान् । खरस्याथ रथः किंचिज्जगाम तदनन्तरम् ॥३-२२-२१॥
ततस्ताञ्छबलानश्वांस्तप्तकाञ्चनभूषितान् । खरस्य मतमाज्ञाय सारथिः पर्यचोदयत् ॥३-२२-२२॥
संचोदितो रथः शीघ्रं खरस्य रिपुघातिनः । शब्देनापूरयामास दिशः सप्रदिशस्तथा ॥३-२२-२३॥
प्रवृद्धमन्युस्तु खरः खरस्वरो रिपोर्वधार्थं त्वरितो यथान्तकः । अचूचुदत् सारथिमुन्नदन् पुनर्महाबलो मेघ इवाश्मवर्षवान् ॥३-२२-२४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे खरसन्नाहः नाम द्वाविंशः सर्गः ॥३-२२॥