खरसन्धुक्षणम्
अरण्यकाण्डः / खरसन्धुक्षणम्
Script
Translation
Previous
चतुर्दशरक्षोवधः
Next
खरसन्नाहः
अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे खरसन्धुक्षणम् नाम एकविंशः सर्गः ॥३-२१॥
स पुनः पतितां दृष्ट्वा क्रोधाच्छूर्पणखां पुनः ।
उवाच व्यक्तया वाचा तामनर्थार्थमागताम् ॥३-२१-१॥
मया त्विदानीं शूरास्ते राक्षसाः पिशिताशनाः ।
त्वत्प्रियार्थं विनिर्दिष्टाः किमर्थं रुद्यते पुनः ॥३-२१-२॥
भक्ताश्चैवानुरक्ताश्च हिताश्च मम नित्यशः ।
हन्यमाना न हन्यन्ते न न कुर्युर्वचो मम ॥३-२१-३॥
किमेतच्छ्रोतुमिच्छामि कारणं यत्कृते पुनः ।
हा नाथेति विनर्दन्ती सर्पवच्चेष्टसे क्षितौ ॥३-२१-४॥
अनाथवद् विलपसि किं नु नाथे मयि स्थिते ।
उत्तिष्ठोत्तिष्ठ मा मैवं वैक्लव्यं त्यज्यतामिति ॥३-२१-५॥
इत्येवमुक्ता दुर्धर्षा खरेण परिसान्त्विता ।
विमृज्य नयने सास्रे खरं भ्रातरमब्रवीत् ॥३-२१-६॥
अस्मीदानीमहं प्राप्ता हतश्रवणनासिका ।
शोणितौघपरिक्लिन्ना त्वया च परिसान्त्विता ॥३-२१-७॥
प्रेषिताश्च त्वया शूरा राक्षसास्ते चतुर्दश ।
निहन्तुं राघवं घोरं मत्प्रियार्थं सलक्ष्मणम् ॥३-२१-८॥
ते तु रामेण सामर्षाः शूलपट्टिशपाणयः ।
समरे निहताः सर्वे सायकैर्मर्मभेदिभिः ॥३-२१-९॥
तान् भूमौ पतितान् दृष्ट्वा क्षणेनैव महाजवान् ।
रामस्य च महत्कर्म महांस्त्रासोऽभवन्मम ॥३-२१-१०॥
सास्मि भीता समुद्विग्ना विषण्णा च निशाचर ।
शरणं त्वां पुनः प्राप्ता सर्वतो भयदर्शिनी ॥३-२१-११॥
विषादनक्राध्युषिते परित्रासोर्मिमालिनि ।
किं मां न त्रायसे मग्नां विपुले शोकसागरे ॥३-२१-१२॥
एते च निहता भूमौ रामेण निशितैः शरैः ।
ये च मे पदवीं प्राप्ता राक्षसाः पिशिताशनाः ॥३-२१-१३॥
मयि ते यद्यनुक्रोशो यदि रक्षःसु तेषु च ।
रामेण यदि शक्तिस्ते तेजो वास्ति निशाचर ॥३-२१-१४॥
दण्डकारण्यनिलयं जहि राक्षसकण्टकम् ।
यदि रामममित्रघ्नं न त्वमद्य वधिष्यसि ॥३-२१-१५॥
तव चैवाग्रतः प्राणांस्त्यक्ष्यामि निरपत्रपा ।
बुद्ध्याहमनुपश्यामि न त्वं रामस्य संयुगे ॥३-२१-१६॥
स्थातुं प्रतिमुखे शक्तः सबलोऽपि महारणे ।
शूरमानी न शूरस्त्वं मिथ्यारोपितविक्रमः ॥३-२१-१७॥
अपयाहि जनस्थानात् त्वरितः सहबान्धवः ।
जहि त्वं समरे मूढान्यथा तु कुलपांसन ॥३-२१-१८॥
मानुषौ तौ न शक्नोषि हन्तुं वै रामलक्ष्मणौ ।
निःसत्त्वस्याल्पवीर्यस्य वासस्ते कीदृशस्त्विह ॥३-२१-१९॥
रामतेजोऽभिभूतो हि त्वं क्षिप्रं विनशिष्यसि ।
स हि तेजःसमायुक्तो रामो दशरथात्मजः ॥३-२१-२०॥
भ्राता चास्य महावीर्यो येन चास्मि विरूपिता ।
एवं विलप्य बहुशो राक्षसी प्रदरोदरी ॥३-२१-२१॥
भ्रातुः समीपे शोकार्ता नष्टसंज्ञा बभूव ह ।
कराभ्यामुदरं हत्वा रुरोद भृशदुःखिता ॥३-२१-२२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे खरसन्धुक्षणम् नाम एकविंशः सर्गः ॥३-२१॥
Previous
चतुर्दशरक्षोवधः
Next
खरसन्नाहः