चतुर्दशरक्षोवधः
अरण्यकाण्डः / चतुर्दशरक्षोवधः
Script
Translation
Previous
खरक्रोधः
Next
खरसन्धुक्षणम्
अथ श्रीमद्वाल्मीकीयरामायणे अरण्यकाण्डे चतुर्दशरक्षोवधः नाम विंशः सर्गः ॥३-२०॥
ततः शूर्पणखा घोरा राघवाश्रममागता ।
राक्षसानाचचक्षे तौ भ्रातरौ सह सीतया ॥३-२०-१॥
ते रामं पर्णशालायामुपविष्टं महाबलम् ।
ददृशुः सीतया सार्धं लक्ष्मणेनापि सेवितम् ॥३-२०-२॥
तां दृष्ट्वा राघवः श्रीमानागतांस्तांश्च राक्षसान् ।
अब्रवीद् भ्रातरं रामो लक्ष्मणं दीप्ततेजसम् ॥३-२०-३॥
मुहूर्तं भव सौमित्रे सीतायाः प्रत्यनन्तरः ।
इमानस्या वधिष्यामि पदवीमागतानिह ॥३-२०-४॥
वाक्यमेतत् ततः श्रुत्वा रामस्य विदितात्मनः ।
तथेति लक्ष्मणो वाक्यं राघवस्य प्रपूजयन् ॥३-२०-५॥
राघवोऽपि महच्चापं चामीकरविभूषितम् ।
चकार सज्यं धर्मात्मा तानि रक्षांसि चाब्रवीत् ॥३-२०-६॥
पुत्रौ दशरथस्यावां भ्रातरौ रामलक्ष्मणौ ।
प्रविष्टौ सीतया सार्धं दुश्चरं दण्डकावनम् ॥३-२०-७॥
फलमूलाशनौ दान्तौ तापसौ ब्रह्मचारिणौ ।
वसन्तौ दण्डकारण्ये किमर्थमुपहिंसथ ॥३-२०-८॥
युष्मान् पापात्मकान् हन्तुं विप्रकारान् महाहवे ।
ऋषीणां तु नियोगेन सम्प्राप्तः सशरासनः ॥३-२०-९॥
तिष्ठतैवात्र संतुष्टा नोपवर्तितुमर्हथ ।
यदि प्राणैरिहार्थो वो निवर्तध्वं निशाचराः ॥३-२०-१०॥
तस्य तद् वचनं श्रुत्वा राक्षसास्ते चतुर्दश ।
ऊचुर्वाचं सुसंक्रुद्धा ब्रह्मघ्नाः शूलपाणयः ॥३-२०-११॥
संरक्तनयना घोरा रामं संरक्तलोचनम् ।
परुषा मधुराभाषं हृष्टा दृष्टपराक्रमम् ॥३-२०-१२॥
क्रोधमुत्पाद्य नो भर्तुः खरस्य सुमहात्मनः ।
त्वमेव हास्यसे प्राणान् सद्योऽस्माभिर्हतो युधि ॥३-२०-१३॥
का हि ते शक्तिरेकस्य बहूनां रणमूर्धनि ।
अस्माकमग्रतः स्थातुं किं पुनर्योद्धुमाहवे ॥३-२०-१४॥
एभिर्बाहुप्रयुक्तैश्च परिघैः शूलपट्टिशैः ।
प्राणांस्त्यक्ष्यसि वीर्यं च धनुश्च करपीडितम् ॥३-२०-१५॥
इत्येवमुक्त्वा संरब्धा राक्षसास्ते चतुर्दश ।
उद्यतायुधनिस्त्रिंशा राममेवाभिदुद्रुवुः ॥३-२०-१६॥
चिक्षिपुस्तानि शूलानि राघवं प्रति दुर्जयम् ।
तानि शूलानि काकुत्स्थः समस्तानि चतुर्दश ॥३-२०-१७॥
तावद्भिरेव चिच्छेद शरैः काञ्चनभूषितैः ।
ततः पश्चान्महातेजा नाराचान् सूर्यसंनिभान् ॥३-२०-१८॥
जग्राह परमक्रुद्धश्चतुर्दश शिलाशितान् ।
गृहीत्वा धनुरायम्य लक्ष्यानुद्दिश्य राक्षसान् ॥३-२०-१९॥
मुमोच राघवो बाणान् वज्रानिव शतक्रतुः ।
ते भित्त्वा रक्षसां वेगाद् वक्षांसि रुधिरप्लुताः ॥३-२०-२०॥
विनिष्पेतुस्तदा भूमौ वल्मीकादिव पन्नगाः ।
तैर्भग्नहृदया भूमौ छिन्नमूला इव द्रुमाः ॥३-२०-२१॥
निपेतुः शोणितस्नाता विकृता विगतासवः ।
तान् भूमौ पतितान् दृष्ट्वा राक्षसी क्रोधमूर्छिता ॥३-२०-२२॥
उपगम्य खरं सा तु किंचित्संशुष्कशोणिता ।
पपात पुनरेवार्ता सनिर्यासेव वल्लरी ॥३-२०-२३॥
भ्रातुः समीपे शोकार्ता ससर्ज निनदं महत् ।
सस्वरं मुमुचे बाष्पं विवर्णवदना तदा ॥३-२०-२४॥
निपातितान् प्रेक्ष्य रणे तु राक्षसान् प्रधाविता शूर्पणखा पुनस्ततः ।
वधं च तेषां निखिलेन रक्षसां शशंस सर्वं भगिनी खरस्य सा ॥३-२०-२५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अरण्यकाण्डे चतुर्दशरक्षोवधः नाम विंशः सर्गः ॥३-२०॥
Previous
खरक्रोधः
Next
खरसन्धुक्षणम्