रामसमागमः
अयोध्याकाण्डः / रामसमागमः
Script
Translation
Previous
रामान्वेषणम्
Next
कच्चित्सर्गः
अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे रामसमागमः नाम एकोनशततमः सर्गः ॥२-९९॥
निविष्टायां तु सेनायामुत्सुको भरतस्तदा ।
जगाम भ्रातरं द्रष्टुं शत्रुध्नमनुदर्शयन् ॥२-९९-१॥
ऋषिं वसिष्ठं सन्दिश्य मातऽर्मे शीघ्रमानय ।
इति त्वरितमग्रे स जगाम गुरुवत्सलः ॥२-९९-२॥
सुमन्त्रस्त्वपि शत्रुघ्नमदूरादन्वपद्यत ।
रामदर्शनजस्तर्षो भरतस्येव तस्य च ॥२-९९-३॥
गच्छन्नेवाथ भरतस्तापसालयसंस्थिताम् ।
भ्रातुः पर्णकुटीं श्रीमानुटजं च ददर्श ह ॥२-९९-४॥
शालायास्त्वग्रतस्तस्या ददर्श भरतस्तदा ।
काष्ठानि चावभग्नानि पुष्पाण्युपचितानि च ॥२-९९-५॥
सलक्ष्मणस्य रामस्य ददर्शाश्रममीयुषः ।
कृतं वृक्षेष्वभिज्ञानं कुशचीरैः क्वचित् क्वचित् ॥२-९९-६॥
ददर्श च वने तस्मिन् महतः सञ्चयान् कृतान् ।
मृगाणां महिषाणां च कऺरीषैः शीतकारणात् ॥२-९९-७॥
गच्छन्नेव महाबाहुर्द्युतिमान् भरतस्तदा ।
शत्रुघ्नं चाब्रवीद्धृष्टस्तानमात्यांश्च सर्वशः ॥२-९९-८॥
मन्ये प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् ।
नातिदूरे हि मन्येऽहं नदीं मन्दाकिनीमितः ॥२-९९-९॥
उच्चैर्बद्धानि चीराणि लक्ष्मणेन भवेदयम् ।
अभिज्ञानकृतः पन्था विकाले गन्तुमिच्छता ॥२-९९-१०॥
इदं चोदात्तदन्तानां कुञ्जराणां तरस्विनाम् ।
शैलपार्श्वे परिक्रान्तमन्योन्यमभिगर्जताम् ॥२-९९-११॥
यमेवाधातुमिच्छन्ति तापसाः सततं वने ।
तस्यासौ दृश्यते धूमः सङ्कुलः कृष्णवर्त्मनः ॥२-९९-१२॥
अत्राहं पुरुषव्याघ्रं गुरुसंस्कारकारिणम् ।
आर्यं द्रक्ष्यामि संहृष्टो महर्षिमिव राघवम् ॥२-९९-१३॥
अथ गत्वा मुहूर्तं तु चित्रकूटं स राघवः ।
मन्दाकिनीमनुप्राप्तस्तं जनं चेदमब्रवीत् ॥२-९९-१४॥
जगत्यां पुरुषव्याघ्र आस्ते वीरासने रतः ।
जनेन्द्रो निर्जनं प्राप्य धिङ्मे जन्म सजीवितम् ॥२-९९-१५॥
मत्कृते व्यसनं प्राप्तो लोकनाथो महाद्युतिः ।
सर्वान् कामान् परित्यज्य वने वसति राघवः ॥२-९९-१६॥
इति लोकसमाक्रुष्टः पादेष्वद्य प्रसादयन् ।
रामस्य निपतिष्यामि सीताया लक्ष्मणस्य च ॥२-९९-१७॥
एवं स विलपंस्तस्मिन् वने दशरथात्मजः ।
ददर्श महतीं पुण्यां पर्णशालां मनोरमाम् ॥२-९९-१८॥
सालतालाश्वकर्णानां पर्णैर्बहुभिरावृताम् ।
विशालां मृदुभिस्तीर्णां कुशैर्वेदिमिवाध्वरे ॥२-९९-१९॥
शक्रायुधनिकाशैश्च कार्मुकैर्भारसाधनैः ।
रुक्मपृष्टष्ठैर्महासारैः शोभितां शत्रुबाधकैः ॥२-९९-२०॥
अर्करश्मिप्रतीकाशैर्घोरैस्तूणीगतैः शरैः ।
शोभितां दीप्तवदनैः सर्प्पैर्भोगवतीमिव ॥२-९९-२१॥
महारजतवासोभ्यामसिभ्यां च विराजिताम् ।
रुक्मबिन्दुविचित्राभ्यां चर्मभ्यां चापि शोभिताम् ॥२-९९-२२॥
गोधाङ्गुलित्रैरासक्तैश्चित्रैः काञ्चनभूषितैः ।
अरिसङ्घैरनाधृष्यां मृगैः सिंहगुहामिव ॥२-९९-२३॥
प्रागुदक्प्रवणां वेदिं विशालां दीप्तपावकाम् ।
ददर्श भरतस्तत्र पुण्यां रामनिवेशने ॥२-९९-२४॥
निरीक्ष्य स मुहूर्त्तं तु ददर्श भरतो गुरम् ।
उटजे राममासीनं जटामण्डलधारिणम् ॥२-९९-२५॥
तं तु कृष्णाजिनधरं चीरवल्कलवाससम् ।
ददर्श राममासीनमभितः पावकोपमम् ॥२-९९-२६॥
सिंहस्कन्धं महाबाहुं पुण्डरीकनिभेक्षणम् ।
पृथिव्याः सागरान्ताया भर्त्तारं धर्मचारिणम् ॥२-९९-२७॥
उपविष्टं महाबाहुं ब्रह्माणमिव शाश्वतम् ।
स्थण्डिले दर्भसंस्तीर्णे सीतया लक्ष्मणेन च ॥२-९९-२८॥
तं दृष्ट्वा भरतः श्रीमान् दुःखशोकपरिप्लुतः ।
अभ्यधावत धर्मात्मा भरतः कैकयीसुतः ॥२-९९-२९॥
दृष्ट्वैव विललापार्त्तो बाष्पसन्दिग्धया गिरा ।
अशक्नुवन् धारयितुं धैर्याद्वचनमब्रवीत् ॥२-९९-३०॥
यः संसदि प्रकृतिभिर्भवेद्युक्त उपासितुम् ।
वन्यैर्मृगैरुपासीनः सोऽयमास्ते ममाग्रजः ॥२-९९-३१॥
वासोभिर्बहुसाहस्रैर्यो महात्मा पुरोचितः ।
मृगाजिने सोऽयमिह प्रवस्ते धर्ममाचरन् ॥२-९९-३२॥
अधारयद्यो विविधाश्चित्राः सुमनसस्तदा सोऽयं जटाभारमिमं वहते राघवः कथम् ॥२-९९-३३॥
यस्य यज्ञैर्यथोद्दिष्टैर्युक्तो धर्मस्य सञ्चयः ।
शरीरक्लेशसम्भूतं स धर्मं परिमार्गते ॥२-९९-३४॥
चन्दनेन महार्हेण यस्याङ्गमुपसेवितम् ।
मलेन तस्याङ्गमिदं कथमार्यस्य सेव्यते ॥२-९९-३५॥
मन्निमित्तमिदं दुःखं प्राप्तो रामः सुखोचितः ।
धिग्जीवितं नृशंसस्य मम लोकविगर्हितम् ॥२-९९-३६॥
इत्येवं विलपन् दीनः प्रस्विन्नमुखपङ्कजः ।
पादावप्राप्य रामस्य पपात भरतो रुदन् ॥२-९९-३७॥
दुःखाभितप्तो भरतो राजपुत्रो महाबलः ।
उक्त्वार्येति सकृद्दीनं पुनर्नोवाच किञ्चन ॥२-९९-३८॥
बाष्पापिहितकण्ठश्च प्रेक्ष्य रामं यशस्विनम् ।
आर्येत्येवाथ संक्रुश्य व्याहर्त्तुं नाशकत्तदा ॥२-९९-३९॥
शत्रुघ्नश्चापि रामस्य ववन्दे चरणौ रुदन् ।
तावुभौ स समालिङ्ग्य रामश्चाश्रूण्यवर्त्तयत् ॥२-९९-४०॥
ततः सुमन्त्रेण गुहेन चैव समीयतू राजसुतावरण्ये ।
दिवाकरश्चैव निशाकरश्च यथाम्बरे शुक्रबृहस्पतिभ्याम् ॥२-९९-४१॥
तान् पार्थिवान् वारणयूथपाभान् समागतांस्तत्र महत्यरण्ये ।
वनौकसस्तेऽपि समीक्ष्य सर्वेप्यश्रूण्यमुञ्चन् प्रविहाय हर्षम् ॥२-९९-४२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे रामसमागमः नाम एकोनशततमः सर्गः ॥२-९९॥
Previous
रामान्वेषणम्
Next
कच्चित्सर्गः