रामान्वेषणम्
अयोध्याकाण्डः / रामान्वेषणम्
Script
Translation
Previous
भरतगुणप्रशंसा
Next
रामसमागमः
अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे रामान्वेषणम् नाम अष्टनवतितमः सर्गः ॥२-९८॥
निवेश्य सेनां तु विभुः पद्भ्यां पादवतां वरः ।
अभिगन्तुं स काकुत्स्थमियेष गुरुवर्त्तकम् ॥२-९८-१॥
निविष्टमात्रे सैन्ये तु यथोद्देशं विनीतवत् ।
भरतो भ्रातरं वाक्यं शत्रुघ्नमिदमब्रवीत् ॥२-९८-२॥
क्षिप्रं वनमिदं सौम्य नरसङ्घैः समन्ततः ।
लुब्धैश्च सहितैरेभिस्त्वमन्वेषितुमर्हसि ॥२-९८-३॥
गुहो ज्ञातिसहस्रेण शरचापासिधारिणा ।
समन्वेषतु काकुत्स्थावस्मिन् परिवृतः स्वयम् ॥२-९८-४॥
अमात्यैः सह पौरैश्च गुरुभिश्च द्विजातिभिः ।
वनं सर्वं चरिष्यामि पद्भ्यां परिवृतः स्वयम् ॥२-९८-५॥
यावन्न रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम् ।
वैदेहीं वा महाभागां न मे शान्तिर्भविष्यति ॥२-९८-६॥
यावन्न चन्द्रसङ्काशं द्रक्ष्यामि शुभमाननम् ।
भ्रातुः पद्मपलाशाक्षं न मे शान्तिर्भविष्यति ॥२-९८-७॥
यावन्न चरणौ भ्रातुः पार्थिवव्यञ्जनान्वितौ ।
शिरसा धारयिष्यामि न मे शान्तिर्भविष्यति ॥२-९८-८॥
यावन्न राज्ये राज्यार्हः पितृपैतामहे स्थितः ।
अभिषेकजलक्लिन्नो न मे शान्तिर्भविष्ऺयति ॥२-९८-९॥
सिद्धार्थः खलु सौमित्रिर्यश्चन्द्रविमलोपमम् ।
मुखं पश्यति रामस्य राजीवाक्षं महाद्युति ॥२-९८-१०॥
कृतकत्या महाभागा वैदेही जनकात्मजा ।
भर्तारं सागरान्तायाः पृथिव्या याऽनुगच्छति ॥२-९८-११॥
सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरिः ।
यस्मिन् वसति काकुत्स्थः कुबेर इव नन्दने ॥२-९८-१२॥
कृतकार्यमिदं दुर्गं वनं व्यालनिषेवितम् ।
यदध्यास्ते महातेजा रामः शस्त्रभृतां वरः ॥२-९८-१३॥
एवमुक्त्वा महातेजा भरतः पुरुषर्षभः ।
पद्भ्यामेव महाबाहुः प्रविवेश महद्वनम् ॥२-९८-१४॥
स तानि द्रुमजालानि जातानि गिरिसानुषु ।
पुष्पिताग्राणि मध्येन जगाम वदतां वरः ॥२-९८-१५॥
समीपत्वात्तन्मूलदर्शनमिति न पुनरुक्तिः ॥२-९८-१६॥
तं दृष्ट्वा भरतः श्रीमान् मुमोह सहबान्धवः ।
अत्र राम इति ज्ञात्वा गतः पारमिवाम्भसः ॥२-९८-१७॥
स चित्रकूटे तु गिरौ निशम्य रामाश्रमं पुण्यजनोपपन्नम् ।
गुहेन सार्द्धं त्वरितो जगाम पुनर्निवेश्यैव चमूं महात्मा ॥२-९८-१८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे रामान्वेषणम् नाम अष्टनवतितमः सर्गः ॥२-९८॥
Previous
भरतगुणप्रशंसा
Next
रामसमागमः