कच्चित्सर्गः
अयोध्याकाण्डः / कच्चित्सर्गः
Script
Translation
Previous
रामसमागमः
Next
पितृदिष्टान्तश्रवणम्
अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे कच्चित्सर्गः नाम शततमः सर्गः ॥२-१००॥
जटिलं चीरवसनं प्राञ्जलिं पतितं भुवि ।
ददर्श रामो दुर्दर्शं युगान्ते भास्करं यथा ॥२-१००-१॥
कथञ्चिदभिविज्ञाय विवर्णवदनं कृशम् ।
भ्रातरं भरतं रामः परिजग्राह बाहुना ॥२-१००-२॥
आघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघवः ।
अङ्के भरतमारोप्य पर्यपृच्छत् समाहितः ॥२-१००-३॥
क्व नु तेऽभूत् पिता तात यदरण्यं त्वमागतः ।
न हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि ॥२-१००-४॥
चिरस्य बत पश्यामि दूराद्भरतमागतम् ।
दुष्प्रतीकमरण्येऽस्मिन् किं तात वनमागतः ॥२-१००-५॥
कच्चिद्धारयते तात राजा यत्त्वमिहागतः ।
कच्चिन्न दीनः सहसा राजा लोकान्तरं गतः ॥२-१००-६॥
कच्चित् सौम्य न ते राज्यं भ्रष्टं बालस्य शाश्वतम् ॥२-१००-७॥
कच्चिच्छुश्रूषसे तात पितरं सत्यविक्रमम् ॥२-१००-८॥
कच्चिद्दशरथो राजा कुशली सत्यसङ्गरः ।
राजसूयाश्वमेधानामाहर्त्ता धर्मनिश्चयः ॥२-१००-९॥
स कच्चिद् ब्राह्मणो विद्वान् धर्मनित्यो महाद्युतिः ।
इक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते ॥२-१००-१०॥
सा तात कच्चित्कौसल्या सुमित्रा च प्रजावती ।
सुखिनी कच्चिदार्य्या च देवी नन्दति कैकयी ॥२-१००-११॥
कच्चिद्विनयसम्पन्नः कुलपुत्रो बहुश्रुतः ।
अनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहितः ॥२-१००-१२॥
कच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः ।
हुतं च होष्यमाणं च काले वेदयते सदा ॥२-१००-१३॥
कच्चिद्देवान् पितऽन् मातऽर्गुरून् पितृसमानपि ।
वृद्धांश्च तत वैद्यांश्च ब्राह्मणांश्चाभिमन्यसे ॥२-१००-१४॥
इष्वस्त्रवरसम्पन्नमर्थशास्त्रविशारदम् ।
सुधन्वानमुपाध्यायं कच्चित्त्वं तात मन्यसे ॥२-१००-१५॥
कच्चिदात्मसमाः शूराः श्रुतवन्तो जितेन्द्रियाः ।
कुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिणः ॥२-१००-१६॥
मन्त्रो विजयमूलं हि राज्ञां भवति राघव ।
सुसंवृतो मन्त्रधरैरमात्यैः शास्त्रकोविदैः ॥२-१००-१७॥
कच्चिन्निद्रावशं नैषीः कच्चित्काले प्रबुध्यसे ।
कच्चिच्चापररात्रेषु चिन्तयस्यर्थनैपुणम् ॥२-१००-१८॥
कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह ।
कच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति ॥२-१००-१९॥
कच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम् ।
क्षिप्रमारभसे कर्त्तुं न दीर्घयसि राघव ॥२-१००-२०॥
कच्चित्ते सुकृतान्येव कृतरूपाणि वा पुनः ।
विदुस्ते सर्वकार्याणि न कर्त्तव्यानि पार्थिवाः ॥२-१००-२१॥
कच्चिन्न तर्कैर्युक्त्या वा ये चाप्यपरिकीर्तिताः ।
त्वया वा वाऽमात्यैर्बुध्यते तात मन्त्रितम् ॥२-१००-२२॥
कच्चित् सहस्रान् मूर्खाणामेकमिच्छसि पण्डितम् ।
पण्डितो ह्यर्थकृच्छ्रेषु कुर्य्यान्निःश्रेयसं महत् ॥२-१००-२३॥
सहस्राण्यपि मूर्खाणां यद्युपास्ते महीपतिः ।
अथवाप्ययुतान्येव नास्ति तेषु सहायता ॥२-१००-२४॥
एकोप्यमात्यो मेधावी शूरो दक्षो विचक्षणः ।
राजानं राजमात्रं वा प्रापयेन्महतीं श्रियम् ॥२-१००-२५॥
कच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः ।
जघन्यास्तु जघन्येषु भृत्याः कर्मसु योजिताः ॥२-१००-२६॥
अमात्यानुपधातीतान् पितृपैतामहाञ्छुचीन् ।
श्रेष्ठान् श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ॥२-१००-२७॥
कच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजम् ।
राष्ट्रं तवानुजानन्ति मन्त्रिणः कैकयीसुत ॥२-१००-२८॥
कच्चित्त्वां नावजानन्ति याजकाः पतितं यथा ।
उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः ॥२-१००-२९॥
उपायकुशलं वैद्यं भृत्यसन्दूषणे रतम् ।
शूरमैश्वर्यकामं च यो न हन्ति स वध्यते ॥२-१००-३०॥
कच्चिद्धृष्टश्च शूरश्च मतिमान् धृतिमाञ्छुचिः ।
कुलीनश्चानुरक्तश्च दक्षः सेनापतिः कृतः ॥२-१००-३१॥
बलवन्तश्च कच्चित्ते मुख्या युद्धविशारदाः ।
दृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः ॥२-१००-३२॥
कच्चिद्बलस्य भक्तं च वेतनं च यथोचितम् ।
सम्प्राप्तकालं दातव्यं ददासि न विलम्बसे ॥२-१००-३३॥
कालातिक्रमणाच्चैव भक्तवेतनयोर्भृताः ।
भर्त्तुः कुप्यन्ति दुष्यन्ति सोऽनर्थः सुमहान् स्मृतः ॥२-१००-३४॥
कच्चित् सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः ।
कच्चित्प्राणांस्तवार्थेषु सन्त्यजन्ति समाहिताः ॥२-१००-३५॥
कच्चिज्जानपदो विद्वान् दक्षिणः प्रतिभानवान् ।
यथोक्तवादी दूतस्ते कृतो भरत पण्डितः ॥२-१००-३६॥
कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च ।
त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः ॥२-१००-३७॥
कच्चिद्व्यपास्तानहितान् प्रतियातांश्च सर्वदा ।
दुर्बलाननवज्ञाय वर्त्तसे रिपुसूदन ॥२-१००-३८॥
कच्चिन्न लोकायतिकान् ब्राह्मणांस्तात सेवसे ।
अनर्थकुशला ह्येते बालाः पण्डितमानिनः ॥२-१००-३९॥
धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः ।
बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते ॥२-१००-४०॥
वीरैरध्युषितां पूर्वमस्माकं तात पूर्वकैः ।
सत्यनामां दृढद्वारां हस्त्यश्वरथसङ्कुलाम् ॥२-१००-४१॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः स्वकर्मनिरतैः सदा ।
जितेन्द्रियैर्महोत्साहैर्वृतामार्यैः सहस्रशः ॥२-१००-४२॥
प्रासादैर्विविधाकारैर्वृतां वैद्यजनाकुलाम् ।
कच्चित्सुमुदितां स्फीतामयोध्यां परिरक्षसि ॥२-१००-४३॥
कच्चिच्चित्यशतैर्जुष्टः सुनिविष्टजनाकुलः ।
देवस्थानैः प्रपाभिश्च तटाकैश्चोपशोभितः ॥२-१००-४४॥
प्रहृष्टनरनारीकः समाजोत्सवशोभितः ।
सुकृष्टसीमा पशुमान् हिंसाभिः परिवर्जितः ॥२-१००-४५॥
अदेवमातृको रम्यः श्वापदैः परिवर्जितः ।
परित्यक्तो भयैः सर्वैः खनिभिश्चोपशोभितः ॥२-१००-४६॥
विवर्जितो नरैः पापैर्मम पूर्वैः सुरक्षितः ।
कच्चिज्जनपदः स्फीतः सुखं वसति राघव ॥२-१००-४७॥
कच्चित्ते दयिताः सर्वे कृषिगोरक्षजीविनः ।
वार्त्तायां संश्रितस्तात लोको हि सुखमेधते ॥२-१००-४८॥
तेषां गुप्तिपरीहारैः कच्चित्ते भरणं कृतम् ।
रक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः ॥२-१००-४९॥
कच्चित् स्त्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः ।
कच्चिन्न श्रद्दधास्यासां कच्चिद् गुह्यं न भाषसे ॥२-१००-५०॥
कच्चिन्नागवनं गुप्तं कच्चित्ते सन्ति धेनुकाः ।
कच्चिन्न गणिकाश्वानां कुञ्जराणां च तृप्यसि ॥२-१००-५१॥
कच्चिद्दर्शयसे नित्यं मनुष्याणां विभूषितम् ।
उत्थायोत्थाय पूर्वाह्णे राजपुत्र महापथे ॥२-१००-५२॥
कच्चिन्न सर्वे कर्मान्ताः प्रत्यक्षास्तेऽविशङ्कया ।
सर्वे वा पुनरुत्सृष्टा मध्यमेवात्र कारणम् ॥२-१००-५३॥
कच्चित् सर्वाणि दुर्गाणि धनधान्यायुधोदकैः ।
यन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्द्धरै ॥२-१००-५४॥
आयस्ते विपुलः कच्चित् कच्चिदल्पतरो व्ययः ।
अपात्रेषु न ते कच्चित्कोशो गच्छति राघव ॥२-१००-५५॥
देवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च ।
योधेषु मित्रवर्गेषु कच्चिद्गच्छति ते व्ययः ॥२-१००-५६॥
कच्चिदार्य्यो विशुद्धात्माऽऽक्षारितश्चोरकर्मणा ।
अपृष्टः शास्त्रकुशलैर्न लोभाद्वध्यते शुचिः ॥२-१००-५७॥
गृहीतश्चैव पृष्टश्च काले दृष्टः सकारणः ।
कच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ ॥२-१००-५८॥
व्यसने कच्चिदाढ्यस्य दुर्गतस्य च राघव ।
अर्थं विरागाः पश्यन्ति तवामात्या बहुश्रुताः ॥२-१००-५९॥
यानि मिथ्याभिशस्तानां पतन्त्यस्राणि राघव ।
तानि पुत्रपशून् घ्नन्ति प्रीत्यर्थमनुशासतः ॥२-१००-६०॥
कच्चिद् वृद्धांश्च बालांश्च वैद्यमुख्यांश्च राघव ।
दानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे ॥२-१००-६१॥
कच्चिद्गुरूंश्च वृद्धांश्च तापसान् देवतातिथीन् ।
चैत्यांश्च सर्वान् सिद्धार्थान् ब्राह्मणांश्च नमस्यसि ॥२-१००-६२॥
कच्चिदर्थेन वा धर्ममर्थं धर्मेण वा पुनः ।
उभौ वा प्रीतिलोभेन कामेन च न बाधसे ॥२-१००-६३॥
कच्चिदर्थं च धर्मं च कामं च जयतां वर ।
विभज्य काले कालज्ञ सर्वान् वरद सेवसे ॥२-१००-६४॥
कच्चित्ते ब्राह्मणाः शर्म सर्वशास्त्रार्थकोविदाः ।
आशंसन्ते महाप्राज्ञ पौरजानपदैः सह ॥२-१००-६५॥
नास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् ।
अदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् ॥२-१००-६६॥
एकचिन्तनमर्थानामनर्थज्ञैश्च मन्त्रणम् ।
निश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् ॥२-१००-६७॥
मङ्गलस्याप्रयोगं च प्रत्युत्थानं च सर्वतः ।
कच्चित्त्वं वर्जयस्येतान् राजदोषांश्चतुर्दश ॥२-१००-६८॥
दश पञ्च चतुर्वर्गान् सप्तवर्गं च तत्त्वतः ।
अष्टवर्गं त्रिवर्गं च विद्यास्तिस्रश्च राघव ॥२-१००-६९॥
इन्द्रियाणां जयं बुद्ध्वा षाङ्गुण्यं दैवमानुषम् ।
कृत्यं विंशतिवर्गञ्च तथा प्रकृतिमण्डलम् ॥२-१००-७०॥
यात्रादण्डविधानञ्च द्वियोनी सन्धिविग्रहौ ।
कच्चिदेतान् महाप्राज्ञ यथावदनुमन्यसे ॥२-१००-७१॥
मन्त्रिभिस्त्वं यथोद्दिष्टैश्चतुर्भिस्त्रिभिरेव वा ।
कच्चित् समस्तैर्व्यस्तैश्च मन्त्र मन्त्रयसे मिथः ॥२-१००-७२॥
कच्चित्ते सफला वेदाः कच्चित्ते सफलाः क्रियाः ।
कच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम् ॥२-१००-७३॥
कच्चिदेषैव ते बुद्धिर्यथोक्ता मम राघव ।
आयुष्या च यशस्या च धर्मकामार्थसंहिता ॥२-१००-७४॥
यां वृत्तिं वर्त्तते तातो यां च नः प्रपितामहाः ।
तां वृत्तिं वर्त्तसे कच्चिद्या च सत्पथगा शुभा ॥२-१००-७५॥
कच्चित् स्वादु कृतं भोज्यमेको नाश्नासि राघव ।
कच्चिदाशंसमानेभ्यो मित्रेभ्यः सम्प्रयच्छसि ॥२-१००-७६॥
राजा तु धर्मेण हि पालयित्वा महामतिर्दण्डधरः प्रजानाम् ।
अवाप्य कृत्स्नां वसुधां यथावदितश्च्युतः स्वर्गमुपैति विद्वान् ॥२-१००-७७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे कच्चित्सर्गः नाम शततमः सर्गः ॥२-१००॥
Previous
रामसमागमः
Next
पितृदिष्टान्तश्रवणम्