भरतगुणप्रशंसा

अयोध्याकाण्डः / भरतगुणप्रशंसा

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे भरतगुणप्रशंसा नाम सप्तनवतितमः सर्गः ॥२-९७॥
सुसंरब्धं तु सौमित्रिं लक्ष्मणं क्रोधमूर्च्छितम् । रामस्तु परिसान्त्व्याथ वचनं चेदमब्रवीत् ॥२-९७-१॥
किमत्र धनुषा कार्यमसिना वा सचर्मणा । महेष्वासे महाप्राज्ञे भरते स्वयमागते ॥२-९७-२॥
पितुः सत्यं प्रतिश्रुत्य हत्वा भरतमागतम् । किं करिष्ऺयामि राज्येन सापवादेन लक्ष्मण ॥२-९७-३॥
यद्द्रव्यं बान्धवानां वा मित्राणां वा क्षये भवेत् । नाहं तत् प्रतिगृह्णीयां भक्षान् विषकृतानिव ॥२-९७-४॥
धर्ममर्थं च कामं च पृथिवीं चापि लक्ष्मण । इच्छामि भवतामर्थे एतत् प्रतिश्रृणोमि ते ॥२-९७-५॥
भ्रातऽणां सङ्ग्रहार्थं च सुखार्थं चापि लक्ष्मण । राज्यमप्यहमिच्छामि सत्येनायुधमालभे ॥२-९७-६॥
नेयं मम मही सौम्य दुर्ल्लभा सागराम्बरा । नहीच्छेयमधर्मेण शक्रत्वमपि लक्ष्मण ॥२-९७-७॥
यद्विना भरतं त्वां च शत्रुघ्नं चापि मानद । भवेन्मम सुखं किञ्चिद्भस्म तत् कुरुतां शिखी ॥२-९७-८॥
मन्येऽहमागतोऽयोध्यां भरतो भ्रातृवत्सलः । मम प्राणात् प्रियतरः कुलधर्ममनुस्मरन् ॥२-९७-९॥
श्रुत्वा प्रव्राजितं मां हि जटावल्कलधारिणम् । जानक्या सहितं वीर त्वया च पुरुषर्षभ ॥२-९७-१०॥
स्नेहेनाक्रान्तहृदयः शोकेनाकुलितेन्द्रियः । द्रष्टुमभ्यागतो ह्येष भरतो नान्यथा गतः ॥२-९७-११॥
अम्बां च कैकयीं रुष्य परुषं चाप्रियं वदन् । प्रसाद्य पितरं श्रीमान् राज्यं मे दातुमागतः ॥२-९७-१२॥
प्राप्तकालं यदेषोऽस्मान् भरतो द्रष्टुमिच्छति । अस्मासु मनसाप्येष नाप्रियं किञ्चिदाचरेत् ॥२-९७-१३॥
विप्रियं कृतपूर्वं ते भरतेन कदा नु किम् । ईदृशं वा भयं तेऽद्य भरतं योऽत्र शङ्कसे ॥२-९७-१४॥
नहि ते निष्ठुरं वाच्यो भरतो नाप्रियं वचः । अहं ह्यप्रियमुक्तः स्यां भरतस्याप्रिये कृते ॥२-९७-१५॥
कथं नु पुत्राः पितरं हन्युः कस्याञ्चिदापदि । भ्राता वा भ्रातरं हन्यात् सौमित्रे प्राणमात्मनः ॥२-९७-१६॥
यदि राज्यस्य हेतोस्त्वमिमां वाचं प्रभाषसे । वक्ष्यामि भरतं दृष्ट्वा राज्यमस्मै प्रदीयताम् ॥२-९७-१७॥
उच्यमानोऽपि भरतो मया लक्ष्मण तत्त्वतः । राज्यमस्मै प्रयच्छेति बाढमित्येव वक्ष्यति ॥२-९७-१८॥
तथोक्तो धर्मशीलेन भ्रात्रा तस्य हिते रतः । लक्ष्मणः प्रविवेशेव स्वानि गात्राणि लज्जया ॥२-९७-१९॥
तद्वाक्यं लक्ष्मणः श्रुत्वा व्रीडितः प्रत्युवाच ह । त्वां मन्ये द्रष्टुमायातः पिता दशरथः स्वयम् ॥२-९७-२०॥
व्रीडितं लक्ष्मणं दृष्ट्वा राघवः प्रत्युवाच ह । एष मन्ये महाबाहुरिहास्मान् द्रष्टुमागतः ॥२-९७-२१॥
अथवा नौ ध्रुवं मन्ये मन्यमानः सुखोचितौ । वनवासमनुध्याय गृहाय प्रतिनेष्यति ॥२-९७-२२॥
इमां वाप्येष वैदेहीमत्यन्तसुखसेविनीम् । पिता मे राघवः श्रीमान् वनादादाय यास्यति ॥२-९७-२३॥
एतौ तौ सम्प्रकाशेते गोत्रवन्तौ मनोरमौ । वायुवेगसमौ वीर जवनौ तुरगोत्तमौ ॥२-९७-२४॥
स एष सुमहाकायः कम्पते वाहिनीमुखे । नागः शत्रुञ्जयो नाम वृद्धस्तातस्य धीमतः ॥२-९७-२५॥
न तु पश्यामि तच्छत्रं पाण्डरं लोकसत्कृतम् । पितुर्दिव्यं महाबाहो संशयो भवतीह मे ॥२-९७-२६॥
प्रथममर्धमुत्तरार्धेन योजनीयम् ॥२-९७-२७॥
अवतीर्य्य तु सालाग्रात्तस्मात्स समितिञ्जयः । लक्ष्मणः प्राञ्जलिर्भूत्वा तस्थौ रामस्य पार्श्वतः ॥२-९७-२८॥
भरतेनापि सन्दिष्टा सम्मर्दो न भवेदिऺति । समन्तात्तस्य शैलस्य सेना वासमकल्पयत् ॥२-९७-२९॥
अध्यर्द्धमिक्ष्वाकुचमूर्योजनं पर्वतस्य सा । पार्श्वे न्यविशदावृत्य गजवाजिरथाकुला ॥२-९७-३०॥
सा चित्रकूटे भरतेन सेना धर्मं पुरस्कृत्य विधूय दर्प्पम् । प्रसादनार्थं रघुनन्दनस्य विराजते नीतिमता प्रणीता ॥२-९७-३१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे भरतगुणप्रशंसा नाम सप्तनवतितमः सर्गः ॥२-९७॥