चित्रकूटवर्णनम्

अयोध्याकाण्डः / चित्रकूटवर्णनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे चित्रकूटवर्णनम् नाम चतुर्नवतितमः सर्गः ॥२-९४॥
दीर्घकालोषितस्तस्मिन् गिरौ गिरिवनप्रियः । वैदेह्याः प्रियमाकांक्षन् स्वं च चित्तं विलोभयन् ॥२-९४-१॥
अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत् । भार्य्याममरसङ्काशः शचीमिव पुरन्दरः ॥२-९४-२॥
न राज्याद्भ्रंशनं भद्रे न सुहृद्भिर्विनाभवः । मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम् ॥२-९४-३॥
पश्येममचलं भद्रे नानाद्विजगणायुतम् । शिखरैः खमिवोद्विद्धैर्द्धातुमद्भिर्विभूषितम् ॥२-९४-४॥
केचिद्रजतसङ्काशाः केचित् क्षतजसन्निभाः । पीतमाञ्जिष्ठवर्णाश्च केचिन्मणिवरप्रभाः ॥२-९४-५॥
पुष्पार्ककेतकाभाश्च केचिज्ज्योतीरसप्रभाः । विराजन्तेऽचलेन्द्रस्य देशा धातुविभूषिताः ॥२-९४-६॥
नानामृगगणद्वीपितरक्ष्वृक्षगणैर्वृतः । अदुष्टैर्भात्ययं शैलो बहुपक्षिसमायुतः ॥२-९४-७॥
आम्रजम्ब्वसनैर्लोध्रैः प्रियालैः पनसैर्धवैः । अङ्कोलैर्भव्यतिनिशैर्बिल्वतिन्दुकवेणुभिः ॥२-९४-८॥
काश्मर्यरिष्टवरुणैर्मधूकैस्तिलकैस्तथा । बदर्य्यामलकैर्नीपैर्वेत्रधन्वनबीजकैः ॥२-९४-९॥
पुष्पवद्भिः फलोपेतैश्छायावद्भिर्मनोरमैः । एवमादिभिराकीर्णः श्रियं पुष्यत्ययं गिरिः ॥२-९४-१०॥
शैलप्रस्थेषु रम्येषु पश्येमान् रोमहर्षणान् । किन्नरान् द्वन्द्वशो भद्रे रममाणान् मनस्विनः ॥२-९४-११॥
शाखावसक्तान् खङ्गांश्च प्रवराण्यम्बराणि च । पश्च विद्याधरस्त्रीणां क्रीडोद्देशान् मनोरमान् ॥२-९४-१२॥
जलप्रपातैरुद्भेदैर्निष्यन्दैश्च क्वचित् क्वचित् । स्रवद्भिर्भात्ययं शैलः स्रवन्मद इव द्विपः ॥२-९४-१३॥
गुहासमीरणो गन्धान् नानापुष्पभवान् वहन् । घ्राणतर्प्पणमभ्येत्य कं नरं न प्रहर्षयेत् ॥२-९४-१४॥
यदीह शरदोऽनेकास्त्वया सार्द्धमनिन्दिते । लक्ष्मणेन च वत्स्यामि न मां शोकः प्रधक्ष्यति ॥२-९४-१५॥
बहुपुष्पफले रम्ये नानाद्विजगणायुते । विचित्रशिखरे ह्यस्मिन् रतवानस्मि भामिनि ॥२-९४-१६॥
अनेन वनवासेन मया प्राप्तं फलद्वयम् । पितुश्चानृणता धर्मे भरतस्य प्रियं तथा ॥२-९४-१७॥
वैदेहि रमसे कच्चिच्चित्रकूटे मया सह । पश्यन्ती विविधान् भावान् मनोवाक्कायसंयतान् ॥२-९४-१८॥
इदमेवामृतं प्राहू राज्ञि राजर्षयः परे । वनवासं भवार्थाय प्रेत्य मे प्रपितामहाः ॥२-९४-१९॥
शिलाः शैलस्य शोभन्ते विशालाः शतशोऽभितः । बहुला बहुलैर्वर्णैर्नीलपीतसितारुणैः ॥२-९४-२०॥
निशि भान्त्यचलेन्द्रस्य हुताशनशिखा इव । ओषध्यः स्वप्रभालक्ष्या भ्राजमानाः सहस्रशः ॥२-९४-२१॥
केचित् क्षयनिभा देशाः केचिदुद्यानसन्निभाः । केचिदेकशिला भान्ति पर्वतस्यास्य भामिनि ॥२-९४-२२॥
भित्त्वेव वसुधां भाति चित्रकूटः समुत्थितः । चित्रकूटस्य कूटोऽसौ दृश्यते सर्वतः शुभः ॥२-९४-२३॥
कुष्ठपुन्नागस्ऺथगरभूर्जपत्रोत्तरच्छदान् । कामिनां स्वास्तरान् पश्य कुशेशयदलायुतान् ॥२-९४-२४॥
मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रजः । कामिभिर्वनिते पश्य फलानि विविधानि च ॥२-९४-२५॥
वस्वौकसारां नलिनीमत्येतीवोत्तरान् कुरून् । पर्वतश्चित्रकूटोऽसौ बहुमूलफलोदकः ॥२-९४-२६॥
इमं तु कालं वनिते विजह्रिवांस्त्वया च सीते सह लक्ष्मणेन च । रतिं प्रपत्स्ये कुलधर्मवर्द्धनीं सतां पथि स्वैर्नियमैः परैः स्थितः ॥२-९४-२७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चित्रकूटवर्णनम् नाम चतुर्नवतितमः सर्गः ॥२-९४॥