मन्दाकिनीवर्णनम्

अयोध्याकाण्डः / मन्दाकिनीवर्णनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे मन्दाकिनीवर्णनम् नाम पञ्चनवतितमः सर्गः ॥२-९५॥
अथ शैलाद्विनिष्क्रम्य मैथिलीं कोसलेश्वरः । अदर्शयच्छुभजलां रम्यां मन्दाकिनीं नदीम् ॥२-९५-१॥
अब्रवीच्च वरारोहां चारुचन्द्रनिभाननाम् । विदेहराजस्य सुतां रामो राजीवलोचनः ॥२-९५-२॥
विचित्रपुलिनां रम्यां हंससारससेविताम् । कमलैरुपसम्पन्नां पश्य मन्दाकिनीं नदीम् ॥२-९५-३॥
नानाविधैस्तीररुहैर्वृतां पुष्पफलद्रुमैः । राजन्तीं राजराजस्य नलिनीमिव सर्वतः ॥२-९५-४॥
मृगयूथनिपीतानि कलुषाम्भांसि साम्प्रतम् । तीर्थानि रमणीयानि रतिं सञ्जनयन्ति मे ॥२-९५-५॥
जटाजिनधराः काले वल्कलोत्तरवाससः । ऋषयस्त्ववगाहन्ते नदीं मन्दाकिनीं प्रिये ॥२-९५-६॥
आदित्यमुपतिष्ठन्ते नियमादूर्द्ध्वबाहवः । एते परे विशालाक्षि मुनयः संशितव्रताः ॥२-९५-७॥
मारुतोद्धूतशिखरैः प्रनृत्त इव पर्वतः । पादपैः पत्रपुष्पाणि सृजद्भिरभितो नदीम् ॥२-९५-८॥
क्वचिन्मणिनिकाशोदां क्वचित्पुलिनशालिनीम् । क्वचित्सिद्धजनाकीर्णां पश्य मन्दाकिनीं नदीम् ॥२-९५-९॥
निर्द्धूतान् वायुना पश्य विततान् पुष्पसञ्चयान् । पोप्लूयमानानपरान् पश्य त्वं जलमध्यगान् ॥२-९५-१०॥
तांश्चातिवल्गुवचसो रथाङ्गाह्वयना द्विजाः । अधिरोहन्ति कल्याणि विकूजन्तः शुभा गिरः ॥२-९५-११॥
दर्शनं चित्र कूटस्य मन्दाकिन्याश्च शोभने । अधिकं पुरवासाच्च मन्ये च तव दर्शनात् ॥२-९५-१२॥
विधूतकलुषैः सिद्धैस्तपोदमशमान्वितैः । नित्यविक्षोभितजलां विगाहस्व मया सह ॥२-९५-१३॥
सखीवच्च विगाहस्व सीते मन्दाकिनीं नदीम् । कमलान्यवमज्जन्ती पुष्कराणि च भामिनि ॥२-९५-१४॥
त्वं पौरजनवद्व्यालानयोध्यामिव पर्वतम् । मन्यस्व वनिते नित्यं सरयूवदिमां नदीम् ॥२-९५-१५॥
लक्ष्मणश्चापि धर्मात्मा मन्निदेशे व्यवस्थितः । त्वं चानुकूला वैदेहि प्रीतिं जनयथो मम ॥२-९५-१६॥
उपस्पृशंस्त्रिषवणं मधुमूलफलाशनः । नायोध्यायै न राज्याय स्पृहयेऽद्य त्वया सह ॥२-९५-१७॥
इमां हि रम्यां मृगयूथशालिनीं निपीततोयां गजसिंहवानरैः । सुपुष्पितैः पुष्पधरैरलङ्कृतां न सोऽस्ति यः स्यादगतक्लमः सुखी ॥२-९५-१८॥
इतीव रामो बहुसङ्गतं वचः प्रियासहायः सरितं प्रति ब्रुवन् । चचार रम्यं नयनाञ्जनप्रभं स चित्रकूटं रघुवंशवर्द्धनः ॥२-९५-१९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे मन्दाकिनीवर्णनम् नाम पञ्चनवतितमः सर्गः ॥२-९५॥