चित्रकूटवनप्रेक्षणम्

अयोध्याकाण्डः / चित्रकूटवनप्रेक्षणम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे चित्रकूटवनप्रेक्षणम् नाम त्रिनवतितमः सर्गः ॥२-९३॥
तया महत्या यायिन्या ध्वजिन्या वनवासिनः । अर्द्दिता यूथपा मत्ताः सयूथाः सम्प्रदुद्रुवुः ॥२-९३-१॥
ऋक्षाः पृषतसङ्घाश्च रुरवश्च समतन्तः । दृश्यन्ते वनराजीषु गिरिष्वपि नदीषु च ॥२-९३-२॥
स सम्प्रतस्थे धर्मात्मा प्रीतो दशरथात्मजः । वृतो महत्या नादिन्या सेनया चतुरङ्गया ॥२-९३-३॥
सागरौघनिभा सेना भरतस्य महात्मनः । महीं सञ्छादयामास प्रावृषि द्यामिवाम्बुदः ॥२-९३-४॥
चिरकालमित्यनेन कदाचिल्लक्ष्यत इति गम्यते ॥२-९३-५॥
स यात्वा दूरमध्वानं सुपरिश्रान्तवाहनः । उवाच भरतः श्रीमान् वसिष्ठं मन्त्रिणां वरम् ॥२-९३-६॥
यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया । व्यक्तं प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् ॥२-९३-७॥
अयं गिरिश्चित्रकूट इयं मन्दाकिनी नदी । एतत् प्रकाशते दूरान्नीलमेघनिभं वनम् ॥२-९३-८॥
गिरेः सानूनि रम्याणि चित्रकूटस्य सम्प्रति । वारणैरवमृद्यन्ते मामकैः पर्वतोपमैः ॥२-९३-९॥
मुञ्चन्ति कुसुमान्येते नगाः पर्वतसानुषु । नीला इवातपापाये तोयं तोयधरा घनाः ॥२-९३-१०॥
किन्नराचरितं देशं पश्य शत्रुघ्न पर्वतम् । मृगैः समन्तादाकीर्णं मकरैरिव सागरम् ॥२-९३-११॥
एते मृगगणा भान्ति शीघ्रवेगाः प्रचोदिताः । वायुप्रविद्धा शरदि मेघराजिरिवाम्बरे ॥२-९३-१२॥
कुर्वन्ति कुसुमापीडान् शिरस्सु सुरभीनमी । मेघप्रकाशैः फलकैर्दाक्षिणात्या यथा नराः ॥२-९३-१३॥
निष्कूजमिव भूत्वेदं वनं घोरप्रदर्शनम् । अयोध्येव जनाकीर्णा सम्प्रति प्रतिभाति मा ॥२-९३-१४॥
खुरैरुदीरितो रेणुर्दिवं प्रच्छाद्य तिष्ठति । तं वहत्यनिलः शीघ्रं कुर्वन्निव मम प्रियम् ॥२-९३-१५॥
स्यन्दनांस्तुरगोपेतान् सूतमुख्यैरधिष्ठितान् । एतान् सम्पततः शीघ्रं पश्य शत्रुघ्न कानने ॥२-९३-१६॥
एतान् वित्रासितान् पश्य बर्हिणः प्रियदर्शनान् । एतमाविशतः शीघ्रमधिवासं पतत्रिणः ॥२-९३-१७॥
अतिमात्रमयं देशो मनोज्ञः प्रतिभाति मा । तापसानां निवासोऽयं व्यक्तं स्वर्गपथो यथा ॥२-९३-१८॥
मृगा मृगीभिः सहिता बहवः पृषता वने । मनोज्ञरूपा लक्ष्यन्ते कुसुमैरिव चित्रिताः ॥२-९३-१९॥
साधुसैन्याः प्रतिष्ठन्तां विचिन्वन्तु च कानने । यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ ॥२-९३-२०॥
भरतस्य वचः श्रुत्वा पुरुषाः शस्त्रपाणयः । विविशुस्तद्वनं शूरा धूमं च ददृशुस्ततः ॥२-९३-२१॥
ते समालोक्य धूमाग्रमूचुर्भरतमागताः । नामनुष्ये भवत्याग्निर्व्यक्तमत्रैव राघवौ ॥२-९३-२२॥
अथ नात्र नरव्याघ्रौ राजपुत्रौ परन्तपौ । मन्ये रामोपमाः सन्ति व्यक्तमत्र तपस्विनः ॥२-९३-२३॥
तच्छ्रुत्वा भरतस्तेषां वचनं साधुसम्मतम् । सैन्यानुवाच सर्वांस्तानमित्रबलमर्दनः ॥२-९३-२४॥
यत्ता भवन्तस्तिष्ठन्तु नेतो गन्तव्यमग्रतः । अहमेव गमिष्यामि सुमन्त्रो गुरुरेव च ॥२-९३-२५॥
एवमुक्तास्ततः सर्वे तत्र तस्थुः समन्ततः । भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधात् ॥२-९३-२६॥
व्यवस्थिता या भरतेन सा चमूर्निरीक्षमाणापि च धूममग्रतः । बभूव हृष्टा नचिरेण जानती प्रियस्य रामस्य समागमं तदा ॥२-९३-२७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चित्रकूटवनप्रेक्षणम् नाम त्रिनवतितमः सर्गः ॥२-९३॥