भरद्वाजामन्त्रणम्

अयोध्याकाण्डः / भरद्वाजामन्त्रणम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे भरद्वाजामन्त्रणम् नाम द्विनवतितमः सर्गः ॥२-९२॥
ततस्तां रजनीं व्युष्य भरतः सपरिच्छदः । कृतातिथ्यो भरद्वाजं कामादभिजगाम ऺह ॥२-९२-१॥
तमृषिः पुरुषव्याघ्रं प्राञ्जलिं प्रेक्ष्य चागतम् । हुताग्निहोत्रो भरतं भरद्वाजोऽभ्यभाषत ॥२-९२-२॥
कच्चिदत्र सुखा रात्रिस्तवास्मद्विषये गता । समग्रस्ते जनः कच्चिदातिथ्ये शंस मेऽनघ ॥२-९२-३॥
तमुवाचाञ्जलिं कृत्वा भरतोऽभिप्रणम्य च । आश्रमादभिनिष्क्रान्तमृषिमुत्तमतेजसम् ॥२-९२-४॥
सुखोषितोऽस्मि भगवन् समग्रबलवाहनः । तर्पितः सर्वकामैश्च सामात्यो बलवत्त्वया ॥२-९२-५॥
अपेतक्लमसन्तापाः सुभिक्षाः सुप्रतिश्रयाः । अपि प्रेष्यानुपादाय सर्वे स्म सुसुखोषिताः ॥२-९२-६॥
आमन्त्रयेऽहं भगवन् कामं त्वामृषिसत्तम । समीपं प्रस्थितं भ्रातुर्मैत्रेणेक्षस्व चक्षुषा ॥२-९२-७॥
आश्रमं तस्य धर्मज्ञ धार्मिकस्य महात्मनः । आचक्ष्व कतमो मार्गः कियानिति च शंस मे ॥२-९२-८॥
इति पृष्टस्तु भरतं भ्रातृदर्शनलालसम् । प्रत्युवाच महातेजा भरद्वाजो महातपाः ॥२-९२-९॥
भरतार्द्धतृतीयेषु योजनेष्वजने वने । चित्रकूटो गिरिस्तत्र रम्यनिर्दरकाननः ॥२-९२-१०॥
उत्तरं पार्श्वमासाद्य तस्य मन्दाकिनी नदी । पुष्ऺिपतद्रुमसञ्छन्ना रम्यपुष्पितकानना ॥२-९२-११॥
अनन्तरं तत्सरितश्चित्रकूटश्च पर्वतः । तयोः पर्णकुटी तात तत्र तौ वसतो ध्रुवम् ॥२-९२-१२॥
दक्षिणेनैव मार्गेण सव्यदक्षिणमेव वा । गजवाजिरथाकीर्णां वाहिनीं वाहिनीपते । वाहयस्व महाभाग ततो द्रक्ष्यसि राघवम् ॥२-९२-१३॥
प्रयाणमिति तच्छ्रुत्वा राजराजस्य योषितः । हित्वा यानानि यानार्हा ब्राह्मणं पर्य्यवारयन् ॥२-९२-१४॥
वेपमाना कृशा ऺदीना सह देव्या सुमित्रया । कौसल्या तत्र जग्राह कराभ्यां चरणौ मुनेः ॥२-९२-१५॥
असमृद्धेन कामेन सर्वलोकस्य गर्हिता । कैकेयी तस्य जग्राह चरणौ सव्यपत्रपा ॥२-९२-१६॥
तं प्रदक्षिणमागम्य भगवन्तं महामुनिम् । अदूराद्भरतस्यैव तस्थौ दीनमनास्तदा ॥२-९२-१७॥
ततः पप्रच्छ भरतं भरद्वाजो दृढव्रतः । विशेषं ज्ञातुमिच्छामि मातऽणां तव राघव ॥२-९२-१८॥
एवमुक्तस्तु भरतो भरद्वाजेन धार्मिकः । उवाच प्राञ्जलिर्भूत्वा वाक्यं वचनकोविदः ॥२-९२-१९॥
यामिमां भगवन् दीनां शोकानशनकर्शिताम् । पितुर्हि महिषीं देवीं देवतामिव पश्यसि ॥२-९२-२०॥
एषा तं पुरुषव्याघ्रं सिंहविक्रान्तगामिनम् । कौसल्या सुषुवे रामं धातारमदितिर्यथा ॥२-९२-२१॥
अस्यावामभुजं श्लिष्टा यैषा तिष्ठति दुर्मनाः । कर्णिकारस्य शाखेव शीर्णपुष्पा वनान्तरे ॥२-९२-२२॥
एतस्यास्तु सुतौ देव्याः कुमारौ देववर्णिनौ । उभौ लक्ष्मणशत्रुघ्नौ वीरौ सत्यपराक्रमौ ॥२-९२-२३॥
यस्याः कृते नरव्याघ्रौ जीवनाशमितो गतौ । राजपुत्रविहीनश्च स्वर्गं दशरथो गतः ॥२-९२-२४॥
क्रोधनामकृतप्रज्ञां दृप्तां सुभगमानिनीम् । ऐश्वर्यकामां कैकेयीमनार्य्यामार्यरूपिणीम् ॥२-९२-२५॥
ममैतां मातरं विद्धि नृशंसां पापनिश्चयाम् । यतो मूलं हि पश्यामि व्यसनं महदात्मनः ॥२-९२-२६॥
इत्युक्त्वा नरशार्दूलो बाष्पगद्गदया गिरा । स निशश्वास ताम्राक्षो नागः क्रुद्ध इव श्वसन् ॥२-९२-२७॥
भरद्वाजो महर्षिस्तं ब्रुवन्तं भरतं तथा । प्रत्युवाच महाबुद्धिरिदं वचनमर्थवत् ॥२-९२-२८॥
न दोषेणावगन्तव्या कैकेयी भरत त्वया । रामप्रव्राजनं ह्येतत् सुखोदर्कं भविष्यति ॥२-९२-२९॥
देवानां दानवानां च ऋषीणां भावितात्मनाम् । हितमेव भविष्यद्धि रामप्रव्राजनादिह ॥२-९२-३०॥
अभिवाद्य तु संसिद्धः कृत्वा चैनं प्रदक्षिणम् । आमन्त्र्य भरतः सेन्यं युज्यतामित्यचोदयत् ॥२-९२-३१॥
ततो वाजिरथान् युक्त्वा दिव्यान् हेमपरिष्कृतान् । अध्यारोहत् प्रयाणार्थी बहून् बहुविधो जनः ॥२-९२-३२॥
गजकन्या गजाश्चैव हेमकक्ष्याः पताकिनः । जीमूता इव घर्मान्ते सघोषाः सम्प्रतस्थिरे ॥२-९२-३३॥
विविधान्यपि यानानि महान्ति च लघूनि च । प्रययुः सुमहार्हाणि पादैरेव पदातयः ॥२-९२-३४॥
अथ यानप्रवेकैस्तु कौसल्याप्रमुखाः स्त्रियः । रामदर्शनकांक्षिण्यः प्रययुर्मुदितास्तदा ॥२-९२-३५॥
चन्द्रार्कतरुणाभासां नियुक्तां शिबिकां शुभाम् । आस्थाय प्रययौ श्रीमान् भरतः सपरिच्छदः ॥२-९२-३६॥
सा प्रयाता महासेना गजवाजिरथाकुला । दक्षिणां दिशमावृत्य महामेघ इवोत्थितः ॥२-९२-३७॥
वनानि तु व्यतिक्रम्य जुष्टानि मृगपक्षिभिः । गङ्गायाः परवेलायां गिरिष्वपि नदीषु च ॥२-९२-३८॥
सा सम्प्रहृष्टद्विजवाजियोधा वित्रासयन्ती मृगपक्षिसङ्घान् । महद्वनं तत्प्रतिगाहमाना रराज सेना भरतस्य तत्र ॥२-९२-३९॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे भरद्वाजामन्त्रणम् नाम द्विनवतितमः सर्गः ॥२-९२॥