भरद्वाजातिथ्यम्
अयोध्याकाण्डः / भरद्वाजातिथ्यम्
Script
Translation
Previous
भरद्वाजाश्रमनिवासः
Next
भरद्वाजामन्त्रणम्
अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे भरद्वाजातिथ्यम् नाम एकनवतितमः सर्गः ॥२-९१॥
कृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा ।
भरतं कैकयीपुत्रमातिथ्येन न्यमन्त्रयत् ॥२-९१-१॥
अब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम् ।
पाद्यमर्घ्यं तथातिथ्यं वने यदुपपद्यते ॥२-९१-२॥
अथोवाच भरद्वाजो भरतं प्रहसन्निव ।
जाने त्वां प्रीतिसंयुक्तं तुष्येस्त्वं येन केनचित् ॥२-९१-३॥
सेनायास्तु तवैतस्याः कर्तुमिच्छामि भोजनम् ।
मम प्रीतिर्यथारूपा त्वमर्हो मनुजाधिप ॥२-९१-४॥
किमर्थं चापि निक्षिप्य दूरे बलमिहागतः ।
कस्मान्नेहोपयातोसि सबलः पुरुषर्षभ ॥२-९१-५॥
भरतः प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम् ।
ससैन्यो नोपयातोऽस्मि भगवन् भगवद्भयात् ॥२-९१-६॥
राज्ञा च भगवन् नित्यं राजपुत्रेण वा सदा ।
यत्नतः परिहर्त्तव्या विषयेषु तपस्विनः ॥२-९१-७॥
वाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणाः ।
प्रच्छाद्य भगवन् भूमिं महतीमनुयान्ति माम् ॥२-९१-८॥
ते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा ।
न हिंस्युरिति तेनाहमेक एव समागतः ॥२-९१-९॥
आनीयतामितः सेनेत्याज्ञप्तः परमर्षिणा ।
ततस्तु चक्रे भरतः सेनायाः समुपागमम् ॥२-९१-१०॥
अग्निशालां प्रविश्याथ पीत्वापः परिमृज्य च ।
आतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत् ॥२-९१-११॥
आह्वये विश्वकर्माणमहं त्वष्टारमेव च ।
आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥२-९१-१२॥
आह्वये लोकपालांस्त्रीन् देवान् शक्रमुखांस्तथा ।
आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ॥२-९१-१३॥
प्राक्स्रोतसश्च या नद्यः प्रत्यक्स्रोतस एव च ।
पृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वशः ॥२-९१-१४॥
अन्याः स्रवन्तु मैरेयं सुरामन्याः सुनिष्ठिताम् ।
अपराश्चोदकं शीतमिक्षुकाण्डरसोपमम् ॥२-९१-१५॥
आह्वये देवगन्धर्वान् विश्वावसुहहाहुहून् ।
तथैवाप्सरसो देवीर्गन्धर्व्वीश्चापि सर्वशः ॥२-९१-१६॥
घृताचीमथ विश्वाचीं मिश्रकेशीमलम्बुसाम् ।
नागदन्तां च हेमां च हिमामद्रिकृतस्थलाम् ॥२-९१-१७॥
शक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च योषितः ।
सर्वास्तुम्बुरुणा सार्द्धमाह्वये सपरिच्छदाः ॥२-९१-१८॥
वनं कुरुषु यद्दिव्यं वासोभूषणपत्रवत् ।
दिव्यनारीफलं शश्वत्तत्कौबेरमिहैतु च ॥२-९१-१९॥
इह मे भगवान् सोमो विधत्तामन्नमुत्तमम् ।
भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु ॥२-९१-२०॥
विचित्राणि च माल्यानि पादपप्रच्युतानि च ।
सुरादीनि च पेयानि मांसानि विविधानि च ॥२-९१-२१॥
एवं समाधिना युक्तस्तेजसाऽप्रतिमेन च ।
शीक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनिः ॥२-९१-२२॥
मनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जलेः ।
आजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक् ॥२-९१-२३॥
मलयं दर्दुरं चैव ततः स्वेदनुदऽऽनिलः ।
उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुखः शिवः ॥२-९१-२४॥
ततोभ्यवर्तन्त घना दिव्याः कुसुमवृष्टयः ।
दिव्यदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे ॥२-९१-२५॥
प्रववुश्चोत्तमा वाताननृतुश्चाप्सरोगणाः ।
प्रजगुर्देवगन्धर्वा वीणाः प्रमुमुचुः स्वरान् ॥२-९१-२६॥
स शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च ।
विवेशोऺच्चारितः श्लक्ष्णः समो लयगुणान्वितः ॥२-९१-२७॥
तस्मिन्नुपरते शब्दे दिव्ये श्रोतृत्रसुखे नृणाम् ।
ददर्श भारतं सैन्यं विधानं विश्वकर्मणः ॥२-९१-२८॥
बभूव हि समा भूमिः समन्तात्पञ्चयोजना ।
शाद्वलैर्बहुभिश्छन्ना नीलवैडूर्य्यसन्निभैः ॥२-९१-२९॥
तस्मिन् बिल्वाः कपित्थाश्च पनसा बीजपूरकाः ।
आमलक्यो बभूवुश्च चूताश्च फलभूषणाः ॥२-९१-३०॥
उत्तरेभ्यः कुरुभ्यश्च वनं दिव्योपभोगवत् ।
आजगाम नदी दिव्या तीजैर्बहुभिर्वृता ॥२-९१-३१॥
चतुःशालानि शुभ्राणि शालाश्च गजवाजिनाम् ।
हर्म्यप्रासादसम्बाधास्तोरणानि शुभानि च ॥२-९१-३२॥
सितमेघनिभं चापि राजवेश्मसु तोरणम् ।
दिव्यमाल्यकृताकारं दिव्यगन्धसमुक्षितम् ॥२-९१-३३॥
चतुरश्रमसम्बाधं शयनासनयानवत् ।
दिव्यैः सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत् ।
उपकल्पितसर्वान्नं धौतनिर्मलभाजनम् ॥२-९१-३४॥
क्लृप्तसर्वासनं श्रीमत् स्वास्तीर्णशयनोत्तमम् ।
प्रविवेश महाबाहुरनुज्ञातो महर्षिणा ।
वेश्म तद्रत्नसम्पूर्णं भरतः केकयीसुतः ॥२-९१-३५॥
अनुजग्मुश्च तं सर्वे मन्त्रिणः सपुरोहिताः ।
बभूवुश्च मुदा युक्ता दृष्ट्वा तं वेश्मसंविधिम् ॥२-९१-३६॥
तत्र राजासनं दिव्यं व्यजनं छत्रमेव च ।
भरतो मन्त्रिभिः सार्द्धमभ्यवर्त्तत राजवत् ॥२-९१-३७॥
आसनं पूजयामास रामायाभिप्रणम्य च ।
वालव्यजनमादाय न्यषीदत् सचिवासने ॥२-९१-३८॥
आनुपूर्व्यानिषेदुश्च सर्वे मन्त्रिपुरोहिताः ।
ततः सेनापतिः पश्चात् प्रशास्ता च निषेदतुः ॥२-९१-३९॥
ततस्तत्र मुहूर्त्तेन नद्यः पायसकर्दमाः ।
उपातिष्ठन्त भरतं भरद्वाजस्य शासनात् ॥२-९१-४०॥
तासामुभयतःकूलं पाण्डुमृत्तिकलेपनाः ।
रम्याश्चावसथा दिव्या ब्रह्मणस्तु प्रसादजाः ॥२-९१-४१॥
तेनैव च मुहूर्त्तेन दिव्याभरणभूषिताः ।
आगुर्विंशतिसाहस्रा ब्रह्मणा प्रहिताः स्त्रियः ॥२-९१-४२॥
सुवर्णमणिमुक्तेन प्रवालेन च शोभिताः ।
आगुर्विंशतिसाहस्राः कुबेरप्रहिताः स्त्रियः ॥२-९१-४३॥
याभिर्गृहीतपुरुषः सोन्माद इव लक्ष्यते ।
आगुर्विंशतिसाहस्रा नन्दनादप्सरोगणाः ॥२-९१-४४॥
नारदस्तुम्बुरुर्गोपः प्रवराः सूर्य्यवर्चसः ।
एते गन्धर्वराजानो भरतस्याग्रतो जगुः ॥२-९१-४५॥
अलम्बुसा मिश्रकेशी पुण्डरीकाथ वामना ।
उपानृत्यंस्तु भरत भरद्वाजस्य शासनात् ॥२-९१-४६॥
यानि माल्यानि देवेषु यानि चैत्ररथे वने ।
प्रयागे तान्यदृश्यन्त भरद्वाजस्य तेजसा ॥२-९१-४७॥
बिल्वा मार्दङ्गिका आसन् शम्याग्राहा विभीतकाः ।
अश्वत्थानर्त्तकाश्चासन् भरद्वाजस्य शासनात् ॥२-९१-४८॥
ततः सरलतालाश्च तिलका नक्तमालकाः ।
प्रहृष्टास्तत्र सम्पेतुः कुब्जा भूत्वाथ वामनाः ॥२-९१-४९॥
शिंशुपामलकीजम्ब्वो याश्चान्याः काननेषु ताः ।
मालती मल्लिका जातिर्याश्चान्याः कानने लताः ॥२-९१-५०॥
प्रमदाविग्रहं कृत्वा भरद्वाजाश्रमेऽवदन् ।
सुराः सुरापाः पिबत पायसं च बुभुक्षिताः ।
मांसानि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ ॥२-९१-५१॥
उच्छाद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु ।
अप्येकमेकं पुरुषं प्रमदाः सप्त चाष्ट च ॥२-९१-५२॥
संवाहन्त्यः समापेतुर्नार्यो रुचिरलोचनाः ।
परिमृज्य तथान्योन्यं पाययन्ति वराङ्गनाः ॥२-९१-५३॥
हयान् गजान् खरानुष्ट्रांस्तथैव सुरभेः सुतान् ।
अभोजयन् वाहनपास्तेषां भोज्यं यथाविधि ॥२-९१-५४॥
इक्षूंश्च मधुलाजांश्च भोजयन्ति स्म वाहनान् ।
इक्ष्वाकुवरयोधानां चोदयन्तो महाबलाः ॥२-९१-५५॥
नाश्वबन्धोऽश्वमाजानान्न गजं कुञ्जरग्रहः ।
मत्तप्रमत्तमुदिता नमूः सा तत्र सम्बभौ ॥२-९१-५६॥
तर्पिताः सर्वकामैस्ते रक्तचन्दनरूषिताः ।
अप्सरोगणसंयुक्ताः सैन्या वाचमुदैरयन् ॥२-९१-५७॥
नैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान् ।
कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् ॥२-९१-५८॥
इति पादातयोधाश्च हस्त्यश्वारोह बन्धकाः ।
अनाथास्तं विधिं लब्ध्वा वाचमेतामुदैरयन् ॥२-९१-५९॥
सम्प्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रशः ।
भरतस्यानुयातारः स्वर्गोयमिति चाब्रुवन् ॥२-९१-६०॥
नृत्यन्ति स्म हसन्ति स्म गायन्ति स्म च सैनिकाः ।
समन्तात् परिधावन्ति माल्योपेताः सहस्रशः ॥२-९१-६१॥
ततो भुक्तवतां तेषां तदन्नममृतोपमम् ।
दिव्यानुद्वीक्ष्य भक्ष्यांस्तानभवद्भक्षणे मतिः ॥२-९१-६२॥
प्रेष्याश्चेष्ट्यश्च वध्वश्च बलस्थाश्च सहस्रशः ।
बभूवुस्ऺते भृशं दृप्ताः सर्वे चाहतवाससः ॥२-९१-६३॥
कुञ्जराश्च खरोष्ट्राश्च गोश्वाश्च मृगपक्षिणः ।
बभूवुः सुभृतास्तत्र नान्यो ह्यन्यमकल्पयत् ॥२-९१-६४॥
नाशुक्लवासास्तत्रासीत् क्षुधितो मलिनोऽपि वा ।
रजसा ध्वस्तकेशो वा नरः कश्चिददृश्यत ॥२-९१-६५॥
आजैश्चापि च वाराहैर्निष्ठानवरसञ्चयैः ।
फलनिर्यूहसंसिद्धैः सूपैर्गन्धरसान्वितैः ॥२-९१-६६॥
पुष्पध्वजवतीः पूर्णाः शुक्लस्यान्नस्य चाभितः ।
ददृशुर्विस्मितास्तत्र नरा लौहीः सहस्रशः ॥२-९१-६७॥
बभूवुर्वनपार्श्वेषु कूपाः पायसकर्दमाः ।
ताश्च कामदुघा गावो द्रुमाश्चासन् मधुस्रुतः ॥२-९१-६८॥
वाप्यो मैरेयपूर्णाश्च मृष्टमांसचयैर्वृताः ।
प्रतप्तपिठरैश्चापि मार्गमायूरकौक्कुटैः ॥२-९१-६९॥
पात्रीणां च सहस्राणि स्थालीनां नियुतानि च ।
न्यर्बुदानि च पात्राणि शातकुम्भमयानि च ॥२-९१-७०॥
स्थाल्यः कुम्भ्यः करम्भ्यश्च दधिपूर्णाः सुसंस्कृताः ।
यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः ॥२-९१-७१॥
ह्रदाः पूर्णा रसालस्य दघ्नः श्वेतस्य चापरे ।
बभूवुः पायसस्यान्ये शर्करायाश्च सञ्चयाः ॥२-९१-७२॥
कल्कांश्चूर्णकषायांश्च स्नानानि विविधानि च ।
ददृशुर्भाजनस्थानि तीर्थेषु सरितां नराः ॥२-९१-७३॥
शुक्लानंशुमतश्चापि दन्तधावनसञ्चयान् ।
शुक्लांश्चन्दनकल्कांश्च समुद्गेष्ववतिष्ठतः ॥२-९१-७४॥
दर्पणान् परिमृष्टांश्च वाससां चापि सञ्चयान् ।
पादुकोपानहश्चैव युग्मानि च सहस्रशः ॥२-९१-७५॥
आञ्जनीः कङ्कतान् कूर्चान् शस्त्राणि च धनूंषि च ।
मर्मत्राणानि चित्राणि शयनान्यासनानि च ॥२-९१-७६॥
प्रतिपानह्रदान् पूर्णान् खरोष्ट्रगजवाजिनाम् ।
अवगाह्य सुतीर्थांश्च ह्रदान् सोत्पलपुष्करान् ॥२-९१-७७॥
आकाशवर्णप्रतिमान् स्वच्छतोयान् सुखप्लवान् ।
नीलवैडूर्य्यवर्णांश्च मृदून् यवससञ्चयान् ॥२-९१-७८॥
निर्वापार्थान् पशूनां ते ददृशुस्तत्र सर्वशः ॥२-९१-७९॥
व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् ।
दृष्ट्वातिथ्यं कृतं तादृक् भरतस्य महर्षिणा ॥२-९१-८०॥
इत्येवं रममाणानां देवानामिव नन्दने ।
भरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्त्तत ॥२-९१-८१॥
प्रतिजग्मुश्च ता नद्यो गन्धर्वाश्च यथागतम् ।
भरद्वाजमनुज्ञाप्य ताश्च सर्वा वराङ्गनाः ॥२-९१-८२॥
तथैव मत्ता मदिरोत्कटा नरास्तथैव दिव्यागुरुचन्दनोक्षिताः ।
तथैव दिव्या विविधाः स्रगुत्तमाः पृथक् प्रकीर्णा मनुजैः प्रमर्दिताः ॥२-९१-८३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे भरद्वाजातिथ्यम् नाम एकनवतितमः सर्गः ॥२-९१॥
Previous
भरद्वाजाश्रमनिवासः
Next
भरद्वाजामन्त्रणम्