भरद्वाजाश्रमनिवासः

अयोध्याकाण्डः / भरद्वाजाश्रमनिवासः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे भरद्वाजाश्रमनिवासः नाम नवतितमः सर्गः ॥२-९०॥
भरद्वाजाश्रमं दृष्ट्वा क्रोशादेव नरर्षभः । बलं सर्वमवस्थाप्य जगाम सह मन्त्रिभिः ॥२-९०-१॥
पद्भ्यामेव हि धर्मज्ञो न्यस्तशस्त्रपरिच्छदः । वसानो वाससी क्षौमे पुरोधाय पुरोधसम् ॥२-९०-२॥
ततः सन्दर्शने तस्य भरद्वाजस्य राघवः । मन्त्रिणस्तानवस्थाप्य जगामानुपुरोहितम् ॥२-९०-३॥
वसिष्ठमथ दृष्ट्वैव भरद्वाजो महातपाः । सञ्चचालासनात्तूर्णं शिष्यानर्घ्यमिति ब्रुवन् ॥२-९०-४॥
वसिष्ठसाहचर्य्यादिति भावः ॥२-९०-५॥
ताभ्यामर्घ्यं च पाद्यं च दत्त्वा पश्चात् फलानि च । आनुपूर्व्याच्च धर्मज्ञः पप्रच्छ कुशलं कुले ॥२-९०-६॥
अयोध्यायां बले कोशे मित्रेष्वपि च मन्त्रिषु । जानन् दशरथं वृत्तं न राजानमुदाहरत् ॥२-९०-७॥
वसिष्ठो भरतश्चैनं पप्रच्छतुरनामयम् । शरीरेऽग्निषु वृक्षेषु शिष्येषु मृगपक्षिषु ॥२-९०-८॥
तथेति तत्प्रतिज्ञाय भरद्वाजो महातपाः । भरतं प्रत्युवाचेदं राघवस्नेहबन्धनात् ॥२-९०-९॥
किमिहागमने कार्य्यं तव राज्यं प्रशासतः । एतदाचक्ष्व मे सर्वं नहि मे शुद्ध्यते मनः ॥२-९०-१०॥
सुषुवे यममित्रघ्नं कौसल्या नन्दवर्द्धनम् । भ्रात्रा सह सभार्यो यश्चिरं प्रव्राजितो वनम् ॥२-९०-११॥
नियुक्तः स्त्रीनियुक्तेन पित्रा योऽसौ महायशाः । वनवासी भवेतीह समाः किल चतुर्दश ॥२-९०-१२॥
कच्चिन्न तस्यापापस्य पापं कर्तुमिहेच्छसि । अकण्टकं भोक्तुमना राज्यं तस्यानुजस्य च ॥२-९०-१३॥
एवमुक्तो भरद्वाजं भरतः प्रत्युवाच ह । पर्य्यश्रुनयनो दुःखाद्वाचा संसज्जमानया ॥२-९०-१४॥
हतोऽस्मि यदि मामेवं भगवानपि मन्यते । मत्तो न दोषमाशङ्के नैवं मामनुशाधि हि ॥२-९०-१५॥
न चैतदिष्टं माता मे यदवोचन्मदन्तरे । नाहमेतेन तुष्टश्च न तद्वचनमाददे ॥२-९०-१६॥
अहं तु तं नरव्याघ्रमुपयातः प्रसादकः । प्रतिनेतुमयोध्यां च पादौ तस्याभिवन्दितुम् ॥२-९०-१७॥
त्वं मामेवङ्गतं मत्वा प्रसादं कर्तुमर्हसि । शंस मे भगवन् रामः क्व सम्प्रति महीपतिः ॥२-९०-१८॥
वसिष्ठादिभिर्ऋत्विग्भिर्याचितो भगवांस्ततः । उवाच तं भरद्वाजः प्रसादाद्भरतं वचः ॥२-९०-१९॥
त्वय्येतत्पुरुषव्याघ्र युक्तं राघववंशजे । गुरुवृत्तिर्दमश्चैव साधूनां चानुयायिता ॥२-९०-२०॥
जाने चैतन्मनःस्थं ते दृढीकरणमस्त्विति । अपृच्छं त्वां तथात्यर्थं कीर्त्तिं समभिवर्द्धयन् ॥२-९०-२१॥
जाने च रामं धर्म्मज्ञं ससीतं सहलक्ष्मणम् । असौ वसति ते भ्राता चित्रकूटे महागिरौ ॥२-९०-२२॥
श्वस्तु गन्तासि तं देशं वसाद्य सह मन्त्रिभिः । एतं मे कुरु सुप्राज्ञ कामं कामार्थकोविद ॥२-९०-२३॥
ततस्तथेत्येवमुदारदर्शनः प्रतीतरूपो भरतोऽब्रवीद्वचः । चकार बुद्धिं च तदा तदाश्रमे निशानिवासाय नराधिपात्मजः ॥२-९०-२४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे भरद्वाजाश्रमनिवासः नाम नवतितमः सर्गः ॥२-९०॥