गङ्गातरणम्

अयोध्याकाण्डः / गङ्गातरणम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे गङ्गातरणम् नाम एकोननवतितमः सर्गः ॥२-८९॥
व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघवः । भरतः काल्यमुत्थाय शत्रुघ्नमिदमब्रवीत् ॥२-८९-१॥
शत्रुघ्नोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम् । शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम् ॥२-८९-२॥
जागर्मि नाहं स्वपिमि तमेवार्य्यं विचिन्तयन् । इत्येवमब्रवीद्भ्रात्रा शत्रुघ्नोपि प्रचोदितः ॥२-८९-३॥
इति संवदतोरेवमन्योन्यं नरसिंहयोः । आगम्य प्राञ्जलिः काले गुहो भरतमब्रवीत् ॥२-८९-४॥
कच्चित्सुखं नदीतीरेऽवात्सीः काकुत्स्थ शर्वरीम् । कच्चित्ते सहसैन्यस्य तावत्सर्वमनामयम् ॥२-८९-५॥
गुहस्य तत्तु वचनं श्रुत्वा स्नेहादुदीरितम् । रामस्यानुवशो वाक्यं भरतोऽपीदमब्रवीत् ॥२-८९-६॥
सुखा नः शर्वरी राजन् पूजिताश्चापि ते वयम् । गङ्गां तु नौभिर्बह्वीभिर्दाशाः सन्तारयन्तु नः ॥२-८९-७॥
ततो गुहः संत्वरितं श्रुत्वा भरतशासनम् । प्रतिप्रविश्य नगरं तं ज्ञातिजनमब्रवीत् ॥२-८९-८॥
उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु च वः सदा । नावः समनुकर्षध्वं तारयिष्याम वाहिनीम् ॥२-८९-९॥
ते तथोक्ताः समुत्थाय त्वरिता राजशासनात् । पञ्च नावां शतान्याशु समानिन्युः समन्ततः ॥२-८९-१०॥
अन्याः स्वस्तिकविज्ञेया महाघण्टाधरा वराः । शोभमानाः पताकाभिर्युक्तवाताः सुसंहताः ॥२-८९-११॥
ततः स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम् । सनन्दिघोषां कल्याणीं गुहो नावमुपाहरत् । तामारुरोह भरतः शत्रुघ्नश्च महाबलः ॥२-८९-१२॥
कौसल्या च सुमित्रा च याश्चान्या राजयोषितः । पुरोहितश्च तत्पूर्वं गुरवो ब्राह्मणाश्च ये । अनन्तरं राजदारास्तथैव शकटापणाः ॥२-८९-१३॥
आवासमादीपयतां तीर्थं चाप्यवगाहताम् । भाण्डानि चाददानानां घोषस्त्रिदिवमस्पृशत् ॥२-८९-१४॥
पताकिन्यस्तु ता नावः स्वयं दाशैरधिष्ठिताः । वहन्त्यो जनमारूढं तदा सम्पेतुराशुगाः ॥२-८९-१५॥
नारीणामभिपूर्णास्तु काश्चित् काश्चिच्च वाजिनाम् । काश्चिदत्र वहन्ति स्म यानयुग्यं महाधनम् ॥२-८९-१६॥
ताः स्म गत्वा परं तीरमवरोप्य च तं जनम् । निवृत्ताः काण्डचित्राणि क्रियन्ते दाशबन्धुभिः ॥२-८९-१७॥
सवैजयन्तास्तु गजा गजारोहप्रचोदिताः । तरन्तः स्म प्रकाशन्ते सध्वजा इव पर्वताः ॥२-८९-१८॥
नावश्चारुरुहुश्चान्ये प्लवैस्तेरुस्तथापरे । अन्ये कुम्भघटैस्तेरुरन्ये तेरुश्च बाहुभिः ॥२-८९-१९॥
सा पुण्या ध्वजिनी गङ्गा दाशैः सन्तारिता स्वयम् । मैत्रे मुहूर्त्ते प्रययौ प्रयागवनमुत्तमम् ॥२-८९-२०॥
आश्वासयित्वा च चमूं महात्मा निवेशयित्वा च यथोपजोषम् । द्रष्टुं भरद्वाजमृषिप्रवर्य्यमृत्विग्वृतः सन् भरतः प्रतस्थे ॥२-८९-२१॥
स ब्राह्मणस्याश्रममभ्युपेत्य महात्मनो देवपुरोहितस्य । ददर्श रम्योटजवृक्षषण्डं महद्वनं विप्रवरस्य रम्यम् ॥२-८९-२२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे गङ्गातरणम् नाम एकोननवतितमः सर्गः ॥२-८९॥