दशरथाक्रन्दः
अयोध्याकाण्डः / दशरथाक्रन्दः
Script
Translation
Previous
नगरसंक्षोभः
Next
कौसल्यापरिदेवितम्
अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे दशरथाक्रन्दः नाम द्विचत्वारिंशः सर्गः ॥२-४२॥
यावत् तु निर्यतस्तस्य रजोरूपमदृश्यत ।
नैवेक्ष्वाकुवरस्तावत् संजहारात्मचक्षुषी ॥२-४२-१॥
यावद् राजा प्रियं पुत्रं पश्यत्यत्यन्तधार्मिकम् ।
तावद् व्यवर्धतेवास्य धरण्यां पुत्रदर्शने ॥२-४२-२॥
न पश्यति रजोऽप्यस्य यदा रामस्य भूमिपः ।
तदार्तश्च निषण्णश्च पपात धरणीतले ॥२-४२-३॥
तस्य दक्षिणमन्वागात् कौसल्या बाहुमङ्गना ।
परं चास्यान्वगात् पार्श्वं कैकेयी सा सुमध्यमा ॥२-४२-४॥
तां नयेन च सम्पन्नो धर्मेण विनयेन च ।
उवाच राजा कैकेयीं समीक्ष्य व्यथितेन्द्रियः ॥२-४२-५॥
कैकेयि मामकाङ्गानि मा स्प्राक्षीः पापनिश्चये ।
नहि त्वां द्रष्टुमिच्छामि न भार्या न च बान्धवी ॥२-४२-६॥
ये च त्वामनुजीवन्ति नाहं तेषां न ते मम ।
केवलार्थपरां हि त्वां त्यक्तधर्मां त्यजाम्यहम् ॥२-४२-७॥
अगृह्णां यच्च ते पाणिमग्निं पर्यणयं च यत् ।
अनुजानामि तत् सर्वमस्मिंल्लोके परत्र च ॥२-४२-८॥
भरतश्चेत् प्रतीतः स्याद् राज्यं प्राप्यैतदव्ययम् ।
यन्मे स दद्यात् पित्रर्थं मा मां तद्दत्तमागमत् ॥२-४२-९॥
अथ रेणुसमुद्ध्वस्तं समुत्थाप्य नराधिपम् ।
न्यवर्तत तदा देवी कौसल्या शोककर्शिता ॥२-४२-१०॥
हत्वेव ब्राह्मणं कामात् स्पृष्ट्वाग्निमिव पाणिना ।
अन्वतप्यत धर्मात्मा पुत्रं संचिन्त्य राघवम् ॥२-४२-११॥
निवृत्यैव निवृत्यैव सीदतो रथवर्त्मसु ।
राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा ॥२-४२-१२॥
विललाप स दुःखार्तः प्रियं पुत्रमनुस्मरन् ।
नगरान्तमनुप्राप्तं बुद्ध्वा पुत्रमथाब्रवीत् ॥२-४२-१३॥
वाहनानां च मुख्यानां वहतां तं ममात्मजम् ।
पदानि पथि दृश्यन्ते स महात्मा न दृश्यते ॥२-४२-१४॥
यः सुखेनोपधानेषु शेते चन्दनरूषितः ।
वीज्यमानो महार्हाभिः स्त्रीभिर्मम सुतोत्तमः ॥२-४२-१५॥
स नूनं क्वचिदेवाद्य वृक्षमूलमुपाश्रितः ।
काष्ठं वा यदि वाश्मानमुपधाय शयिष्यते ॥२-४२-१६॥
उत्थास्यति च मेदिन्याः कृपणः पांसुगुण्ठितः ।
विनिःश्वसन् प्रस्रवणात् करेणूनामिवर्षभः ॥२-४२-१७॥
द्रक्ष्यन्ति नूनं पुरुषा दीर्घबाहुं वनेचराः ।
राममुत्थाय गच्छन्तं लोकनाथमनाथवत् ॥२-४२-१८॥
सा नूनं जनकस्येष्टा सुता सुखसदोचिता ।
कण्टकाक्रमणक्लान्ता वनमद्य गमिष्यति ॥२-४२-१९॥
अनभिज्ञा वनानां सा नूनं भयमुपैष्यति ।
श्वपदानर्दितं श्रुत्वा गम्भीरं रोमहर्षणम् ॥२-४२-२०॥
सकामा भव कैकेयि विधवा राज्यमावस ।
नहि तं पुरुषव्याघ्रं विना जीवितुमुत्सहे ॥२-४२-२१॥
इत्येवं विलपन् राजा जनौघेनाभिसंवृतः ।
अपस्नात इवारिष्टं प्रविवेश गृहोत्तमम् ॥२-४२-२२॥
शून्यचत्वरवेश्मान्तां संवृतापणवेदिकाम् ।
क्लान्तदुर्बलदुःखार्तां नात्याकीर्णमहापथाम् ॥२-४२-२३॥
तामवेक्ष्य पुरीं सर्वां राममेवानुचिन्तयन् ।
विलपन् प्राविशद् राजा गृहं सूर्य इवाम्बुदम् ॥२-४२-२४॥
महाह्रदमिवाक्षोभ्यं सुपर्णेन हृतोरगम् ।
रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च ॥२-४२-२५॥
अथ गद्गदशब्दस्तु विलपन् वसुधाधिपः ।
उवाच मृदु मन्दार्थं वचनं दीनमस्वरम् ॥२-४२-२६॥
कौसल्याया गृहं शीघ्रं राममातुर्नयन्तु माम् ।
नह्यन्यत्र ममाश्वासो हृदयस्य भविष्यति ॥२-४२-२७॥
इति ब्रुवन्तं राजानमनयन् द्वारदर्शिनः ।
कौसल्याया गृहं तत्र न्यवेस्यत विनीतवत् ॥२-४२-२८॥
ततस्तत्र प्रविष्टस्य कौसल्याया निवेशनम् ।
अधिरुह्यापि शयनं बभूव लुलितं मनः ॥२-४२-२९॥
पुत्रद्वयविहीनं च स्नुषया च विवर्जितम् ।
अपश्यद् भवनं राजा नष्टचन्द्रमिवाम्बरम् ॥२-४२-३०॥
तच्च दृष्ट्वा महाराजो भुजमुद्यम्य वीर्यवान् ।
उच्चैःस्वरेण प्राक्रोशद्धा राम विजहासि नौ ॥२-४२-३१॥
सुखिता बत तं कालं जीविष्यन्ति नरोत्तमाः ।
परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनरागतम् ॥२-४२-३२॥
अथ रात्र्यां प्रपन्नायां कालरात्र्यामिवात्मनः ।
अर्धरात्रे दशरथः कौसल्यामिदमब्रवीत् ॥२-४२-३३॥
न त्वां पश्यामि कौसल्ये साधु मां पाणिना स्पृश ।
रामं मेऽनुगता दृष्टिरद्यापि न निवर्तते ॥२-४२-३४॥
तं राममेवानुविचिन्तयन्तं समीक्ष्य देवी शयने नरेन्द्रम् ।
उपोपविश्याधिकमार्तरूपा विनिश्वसन्तं विललाप कृच्छ्रम् ॥२-४२-३५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे दशरथाक्रन्दः नाम द्विचत्वारिंशः सर्गः ॥२-४२॥
Previous
नगरसंक्षोभः
Next
कौसल्यापरिदेवितम्