नगरसंक्षोभः

अयोध्याकाण्डः / नगरसंक्षोभः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे नगरसंक्षोभः नाम एकचत्वारिंशः सर्गः ॥२-४१॥
तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ । आर्तशब्दो हि संजज्ञे स्त्रीणामन्तःपुरे महान् ॥२-४१-१॥
अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः । यो गतिः शरणं चासीत् स नाथः क्व नु गच्छति ॥२-४१-२॥
न क्रुध्यत्यभिशस्तोऽपि क्रोधनीयानि वर्जयन् । क्रुद्धान् प्रसादयन् सर्वान् समदुःखः क्व गच्छति ॥२-४१-३॥
कौसल्यायां महातेजा यथा मातरि वर्तते । तथा यो वर्ततेऽस्मासु महात्मा क्व नु गच्छति ॥२-४१-४॥
कैकेय्या क्लिश्यमानेन राज्ञा संचोदितो वनम् । परित्राता जनस्यास्य जगतः क्व नु गच्छति ॥२-४१-५॥
अहो निश्चेतनो राजा जीवलोकस्य संक्षयम् । धर्म्यं सत्यव्रतं रामं वनवासे प्रवत्स्यति ॥२-४१-६॥
इति सर्वा महिष्यस्ता विवत्सा इव धेनवः । रुरुदुश्चैव दुःखार्ताः सस्वरं च विचुक्रुशुः ॥२-४१-७॥
स तमन्तःपुरे घोरमार्तशब्दं महीपतिः । पुत्रशोकाभिसंतप्तः श्रुत्वा चासीत् सुदुःखितः ॥२-४१-८॥
नाग्निहोत्राण्यहूयन्त नापचन् गृहमेधिनः । अकुर्वन् न प्रजाः कार्यं सूर्यश्चान्तरधीयत ॥२-४१-९॥
व्यसृजन् कवलान् नागा गावो वत्सान् न पाययन् । पुत्रां प्रथमजं लब्ध्वा जननी नाभ्यनन्दत ॥२-४१-१०॥
त्रिशङ्कुर्लोहिताङ्गश्च बृहस्पतिबुधावपि । दारुणाः सोममभ्येत्य ग्रहाः सर्वे व्यवस्थिताः ॥२-४१-११॥
नक्षत्राणि गतार्चींषि ग्रहाश्च गततेजसः । विशाखाश्च सधूमाश्च नभसि प्रचकाशिरे ॥२-४१-१२॥
कालिकानिलवेगेन महोदधिरिवोत्थितः । रामे वनं प्रव्रजिते नगरं प्रचचाल तत् ॥२-४१-१३॥
दिशः पर्याकुलाः सर्वास्तिमिरेणेव संवृताः । न ग्रहो नापि नक्षत्रं प्रचकाशे न किंचन ॥२-४१-१४॥
अकस्मान्नागरः सर्वो जनो दैन्यमुपागमत् । आहारे वा विहारे वा न कश्चिदकरोन्मनः ॥२-४१-१५॥
शोकपर्यायसंतप्तः सततं दीर्घमुच्छ्वसन् । अयोध्यायां जनः सर्वश्चुक्रोश जगतीपतिम् ॥२-४१-१६॥
बाष्पपर्याकुलमुखो राजमार्गगतो जनः । न हृष्टो लभ्यते कश्चित् सर्वः शोकपरायणः ॥२-४१-१७॥
न वाति पवनः शीतो न शशी सौम्यदर्शनः । न सूर्यस्तपते लोकं सर्वं पर्याकुलं जगत् ॥२-४१-१८॥
अनर्थिनः सुताः स्त्रीणां भर्तारो भ्रातरस्तथा । सर्वे सर्वं परित्यज्य राममेवान्वचिन्तयन् ॥२-४१-१९॥
ये तु रामस्य सुहृदः सर्वे ते मूढचेतसः । शोकभारेण चाक्रान्ताः शयनं नैव भेजिरे ॥२-४१-२०॥
ततस्त्वयोध्या रहिता महात्मना पुरन्दरेणेव मही सपर्वता । चचाल घोरं भयशोकदीपिता सनागयोधाश्वगणा ननाद च ॥२-४१-२१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे नगरसंक्षोभः नाम एकचत्वारिंशः सर्गः ॥२-४१॥