कौसल्यापरिदेवितम्

अयोध्याकाण्डः / कौसल्यापरिदेवितम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे कौसल्यापरिदेवितम् नाम त्रिचत्वारिशः सर्गः ॥२-४३॥
ततः समीक्ष्य शयने सन्नं शोकेन पार्थिवम् । कौसल्या पुत्रशोकार्ता तमुवाच महीपतिम् ॥२-४३-१॥
राघवे नरशार्दूले विषं मुक्त्वाहिजिह्मगा । विचरिष्यति कैकेयी निर्मुक्तेव हि पन्नगी ॥२-४३-२॥
विवास्य रामं सुभगा लब्धकामा समाहिता । त्रासयिष्यति मां भूयो दुष्टाहिरिव वेश्मनि ॥२-४३-३॥
अथास्मिन् नगरे रामश्चरन् भैक्षं गृहे वसेत् । कामकारो वरं दातुमपि दासं ममात्मजम् ॥२-४३-४॥
पातयित्वा तु कैकेय्या रामं स्थानाद् यथेष्टतः । प्रविद्धो रक्षसां भागः पर्वणीवाहिताग्निना ॥२-४३-५॥
नागराजगतिर्वीरो महाबाहुर्धनुर्धरः । वनमाविशते नूनं सभार्यः सहलक्ष्मणः ॥२-४३-६॥
वने त्वदृष्टदुःखानां कैकेय्यनुमते त्वया । त्यक्तानां वनवासाय कान्यावस्था भविष्यति ॥२-४३-७॥
ते रत्नहीनास्तरुणाः फलकाले विवासिताः । कथं वत्स्यन्ति कृपणाः फलमूलैः कृताशनाः ॥२-४३-८॥
अपीदानीं स कालः स्यान्मम शोकक्षयः शिवः । सहभार्यं सह भ्रात्रा पश्येयमिह राघवम् ॥२-४३-९॥
श्रुत्वैवोपस्थितौ वीरौ कदायोध्या भविष्यति । यशस्विनी हृष्टजना सूच्छ्रितध्वजमालिनी ॥२-४३-१०॥
कदा प्रेक्ष्य नरव्याघ्रावरण्यात् पुनरागतौ । भविष्यति पुरी हृष्टा समुद्र इव पर्वणि ॥२-४३-११॥
कदायोध्यां महाबाहुः पुरीं वीरः प्रवेक्ष्यति । पुरस्कृत्य रथे सीतां वृषभो गोवधूमिव ॥२-४३-१२॥
कदा प्राणिसहस्राणि राजमार्गे ममात्मजौ । लाजैरवकरिष्यन्ति प्रविशन्तावरिंदमौ ॥२-४३-१३॥
प्रविशन्तौ कदायोध्यां द्रक्ष्यामि शुभकुण्डलौ । उदग्रायुधनिस्त्रिंशौ सशृङ्गाविव पर्वतौ ॥२-४३-१४॥
कदा सुमनसः कन्या द्विजातीनां फलानि च । प्रदिशन्त्यः पुरीं हृष्टाः करिष्यन्ति प्रदक्षिणम् ॥२-४३-१५॥
कदा परिणतो बुद्ध्या वयसा चामरप्रभाः । अभ्युपैष्यति धर्मात्मा सुवर्ष इव लालयन् ॥२-४३-१६॥
निःसंशयं मया मन्ये पुरा वीर कदर्यया । पातुकामेषु वत्सेषु मातॄणां शातिताः स्तनाः ॥२-४३-१७॥
साहं गौरिव सिंहेन विवत्सा वत्सला कृता । कैकेय्या पुरुषव्याघ्र बालवत्सेव गौर्बलात् ॥२-४३-१८॥
नहि तावद्गुणैर्जुष्टं सर्वशास्त्रविशारदम् । एकपुत्रा विना पुत्रमहं जीवितुमुत्सहे ॥२-४३-१९॥
न हि मे जीविते किंचित् सामर्थ्यमिह कल्प्यते । अपश्यन्त्याः प्रियं पुत्रं लक्ष्मणं च महाबलम् ॥२-४३-२०॥
अयं हि मां दीपयतेऽद्य वह्निस्तनूजशोकप्रभवो महाहितः । महीमिमां रश्मिभिरुत्तमप्रभो यथा निदाघे भगवान् दिवाकरः ॥२-४३-२१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे कौसल्यापरिदेवितम् नाम त्रिचत्वारिशः सर्गः ॥२-४३॥