दिव्यालङ्कारग्रहणम्

अयोध्याकाण्डः / दिव्यालङ्कारग्रहणम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे दिव्यालङ्कारग्रहणम् नाम अष्टादशाधिकशततमः सर्गः ॥२-११८॥
सा त्वेवमुक्ता वैदेही त्वनसूयाऽनसूयया । प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे ॥२-११८-१॥
नैतदाश्चर्य्यमार्याया यन्मां त्वमनुभाषसे । विदितं तु ममाप्येतद्यथा नार्य्याः पतिर्गुरुः ॥२-११८-२॥
यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जितः । अद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत् ॥२-११८-३॥
किं पुनर्यो गुणः श्लाघ्यः सानुक्रोशो जितेन्द्रियः । स्थिरानुरागो धर्मात्मा मातृवत्पितृवत्प्रियः ॥२-११८-४॥
यां वृत्तिं वर्त्तते रामः कौसल्यायां महाबलः । तामेव नृपनारीणामन्यासामपि वर्त्तते ॥२-११८-५॥
सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सलः । मातृवद्वर्त्तते वीरो मानमुत्सृज्य धर्मवित् ॥२-११८-६॥
आगच्छन्त्याश्च विजनं वनमेवं भयावहम् । समाहितं मे श्वश्र्वा च हृदये तद्धृतं महत् ॥२-११८-७॥
पाणिप्रदानकाले च यत्पुरा त्वग्निसन्निधौ । अनुशिष्टा जनन्याऽस्मि वाक्यं तदपि मे धृतम् ॥२-११८-८॥
नवीकृतं च तत्सर्वं वाक्यैस्ते धर्मचारिणि । पतिशुश्रूषणान्नार्य्यास्तपो नान्यद्विधीयते ॥२-११८-९॥
सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते । तथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् ॥२-११८-१०॥
वरिष्ठा सर्वनारीणामेषा च दिवि देवता । रोहिणी न विना चन्द्रं मुहूर्त्तमपि दृश्यते ॥२-११८-११॥
एवंविधाश्च प्रवराः स्त्रियो भर्तृदृढव्रताः । देवलोके महीयन्ते पुण्येन स्वेन कर्मणा ॥२-११८-१२॥
ततोऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः । शिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत ॥२-११८-१३॥
नियमैर्विविधैराप्तं तपो हि महदस्ति मे । तत्संश्रित्य बलं सीते छन्दये त्वां शुचिस्मिते ॥२-११८-१४॥
उपपन्नं मनोज्ञं च वचनं तव मैथिलि । प्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे ॥२-११८-१५॥
तस्यास्तद्वचनं श्रुत्वा विस्मिता मन्दविस्मया कृतमित्यब्रवीत्सीता तपोबलसमन्विताम् ॥२-११८-१६॥
सा त्वेवमुक्ता धर्मज्ञा तया प्रीततराऽभवत् । सफलं च प्रहर्षं ते हन्त सीते करोम्यहम् ॥२-११८-१७॥
इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च । अङ्गरागं च वैदेहि महार्हं चानुलेपनम् ॥२-११८-१८॥
मया दत्तमिदं सीते तव गात्राणि शोभयेत् । अनुरूपमसंक्लिष्टं नित्यमेव भविष्यति ॥२-११८-१९॥
अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे । शोभयिष्यसि भर्त्तारं यथा श्रीविष्णुमव्ययम् ॥२-११८-२०॥
सा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा । मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् ॥२-११८-२१॥
प्रतिगृह्य च तत् सीता प्रीतिदानं यशस्विनी । श्लिष्टाञ्जलिपुटा तत्र समुपास्त तपोधनाम् ॥२-११८-२२॥
तथा सीतासुपासीनामनसूया दृढव्रता । वचनं प्रष्टुमारेभे काञ्चित् प्रियकथामनु ॥२-११८-२३॥
स्वयंवरे किल प्राप्ता त्वमनेन यशस्विना । राघवेणेति मे सीते कथा श्रुतिमुपागता ॥२-११८-२४॥
तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि । यथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि ॥२-११८-२५॥
एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम् । श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम् ॥२-११८-२६॥
मिथिलाधिपतिर्वीरो जनको नाम धर्मवित् । क्षत्रधर्मे ह्यभिरतो न्यायतः शास्ति मेदिनीम् ॥२-११८-२७॥
तस्य लाङ्गलहस्तस्य कर्षतः क्षेत्रमण्डलम् । अहं किलोत्थिता भित्त्वा जगतीं नृपतेः सुता ॥२-११८-२८॥
स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्परः । पांसुकुण्ठितसर्वाङ्गीं जनको विस्मितोऽभवत् ॥२-११८-२९॥
अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम् । ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातितः ॥२-११८-३०॥
अन्तरिक्षे च वागुक्ता प्रति माऽमानुषी किल । एवमेतन्नरपते धर्मेण तनया तव ॥२-११८-३१॥
ततः प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिपः । अवाप्तो विपुलामृद्धिं मामवाप्य नराधिपः ॥२-११८-३२॥
दत्ता चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा । तया सम्भाविता चास्मि स्निग्धया मातृसौहृदात् ॥२-११८-३३॥
पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता । चिन्तामभ्यगमद्दीनो वित्तनाशादिवाधनः ॥२-११८-३४॥
सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् । प्रधर्षणमवाप्नोति शक्रेणापि समो भुवि ॥२-११८-३५॥
तां धर्षणामदूरस्थां दृष्ट्वा चात्मनि पार्थिवः । चिन्तार्णवगतः पारं नाससादाप्लवो यथा ॥२-११८-३६॥
अयोनिजां हि मां ज्ञात्वा नाध्यगच्छद्विचिन्तयन् । सदृशं चानुरूपं च महीपालः पतिं मम ॥२-११८-३७॥
तस्य बुद्धिरियं जाता चिन्तयानस्य सन्ततम् । स्वयं वरं तनूजायाः करिष्यामीति धीमतः ॥२-११८-३८॥
महायज्ञे तदा तस्य वरुणेन महात्मना । दत्तं धनुर्वरं प्रीत्या तूणी चाक्षयसायकौ ॥२-११८-३९॥
असञ्चाल्यं मनुष्यैश्च यत्नेनापि च गौरवात् । तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपाः ॥२-११८-४०॥
तद्धनुः प्राप्य मे पित्रा व्याहृतं सत्यवादिना । समवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान् ॥२-११८-४१॥
इदं च धनुरुद्यम्य सज्यं यः कुरुते नरः । तस्य मे दुहिता भार्या भविष्यति न संशयः ॥२-११८-४२॥
तच्च दृष्ट्वा धनुः श्रेष्ठं गौरवाद्गिरिसन्निभम् । अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने ॥२-११८-४३॥
सुदीर्घस्य तु कालस्य राघवोऽयं महाद्युतिः । विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागतः । लक्ष्मणेन सह भ्रात्रा रामः सत्यपराक्रमः ॥२-११८-४४॥
विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजितः । प्रोवाच पितरं तत्र भ्रातरौ रामलक्ष्मणौ ॥२-११८-४५॥
सुतौ दशरथस्येमौ धनुर्दर्शनकांक्षिणौ । धनुर्दर्शय रामाय राजपुत्राय दैविकम् ॥२-११८-४६॥
इत्युक्तस्तेन विप्रेण तद्धनुः समुपानयत् । निमेषान्तरमात्रेण तदानम्य स वीर्य्यवान् ॥२-११८-४७॥
ज्यां समारोप्य झटिति पूरयामास वीर्यवत् ॥२-११८-४८॥
तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनुः । तस्य शब्दोऽभवद्भीमः पतितस्याशनेरिव ॥२-११८-४९॥
ततोऽहं तत्र रामाय पित्रा सत्याभिसन्धिना । निश्चिता दातुमुद्यम्य जलभाजनमुत्तमम् ॥२-११८-५०॥
दीयमानां न तु तदा प्रतिजग्राह राघवः । अविज्ञाय पितुश्छन्दमयोध्याधिपतेः प्रभोः ॥२-११८-५१॥
ततः श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम् । मम पित्रा त्वहं दत्ता रामाय विदितात्मने ॥२-११८-५२॥
मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना । भार्य्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् ॥२-११८-५३॥
एवं दत्तास्मि रामाय तदा तस्मिन् स्वयम्वरे । अनुरक्तास्मि धर्मेण पतिं वीर्यवतां वरम् ॥२-११८-५४॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे दिव्यालङ्कारग्रहणम् नाम अष्टादशाधिकशततमः सर्गः ॥२-११८॥