दण्डकारण्यप्रवेशः
अयोध्याकाण्डः / दण्डकारण्यप्रवेशः
Script
Translation
Previous
दिव्यालङ्कारग्रहणम्
अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे दण्डकारण्यप्रवेशः नाम एकोनविंशत्यधिकशततमः सर्गः ॥२-११९॥
अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् ।
पर्य्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम् ॥२-११९-१॥
व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया ।
यथा स्वयम्वरं वृत्तं तत्सर्वं हि श्रुतं मया ।
रमेऽहं कथया ते तु दृढं मधुरभाषिणि ॥२-११९-२॥
रविरस्तं गतः श्रीमानुपोह्य रजनीं शिवाम् ।
दिवसं प्रतिकीर्णानामाहारार्थं पतत्रिणाम् ।
सन्ध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनिः ॥२-११९-३॥
एते चाप्यभिषेकार्द्रा मुनयः कलशोद्यताः ।
सहिता उपवर्तन्ते सलिलाप्लुतवल्कलाः ॥२-११९-४॥
ऋषीणामग्निहोत्रेषु हुतेषु विधिपूर्वकम् ।
कपोताङ्गारुणो धूमो दृश्यते पवनोद्धतः ॥२-११९-५॥
अल्पपर्णाहि तरवो घनीभूताः समन्ततः ।
विप्रकृष्टेपि देशेऽस्मिन्न प्रकाशन्ति वै दिशः ॥२-११९-६॥
रजनीचरसत्त्वानि प्रचरन्ति समन्ततः ।
तपोवनमृगा ह्येते वेदितीर्थेषु शेरते ॥२-११९-७॥
सम्प्रवृद्धा निशा सीते नक्षत्रसमलङ्कृता ।
जोत्स्नाप्रावरणश्चन्द्रो दृश्यतेऽभ्युदितोऽम्बरे ॥२-११९-८॥
गम्यतामनुजानामि रामस्यानुचरी भव ।
कथयन्त्या हि मधुरं त्वयाहं परितोषिता ॥२-११९-९॥
अलङ्कुरु च तावत्त्वं प्रत्यक्षं मम मैथिलि ।
प्रीतिं जनय मे वत्से दिव्यालङ्कारशोभिता ॥२-११९-१०॥
सा तथा समलंकृत्य सीता सुरसुतोपमा ।
प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ ॥२-११९-११॥
तथा तु भूषितां सीतां ददर्श वदतां वरः ।
राघवः प्रीतिदानेन तपस्विन्या जहर्ष च ॥२-११९-१२॥
न्यवेदयत्ततः सर्वं सीता रामाय मैथिली ।
प्रीतिदानं तपस्विन्या वसनाभरणस्रजम् ॥२-११९-१३॥
प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च महारथः ।
मैथिल्याः सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम् ॥२-११९-१४॥
ततस्तां शर्वरीं प्रीतः पुण्यां शशिनिभाननः ।
अर्चितस्तापसैः सिद्धैरुवास रघुनन्दनः ॥२-११९-१५॥
तस्यां रात्र्यां व्यतीतायामभिषिच्य हुताग्निकान् ।
आपृच्छेतां नरव्याघ्रौ तापसान् वनगोचरान् ॥२-११९-१६॥
तावूचुस्ते वनचरास्तापसा धर्मचारिणः ।
वनस्य तस्य सञ्चारं राक्षसैः समभिप्लुतम् ॥२-११९-१७॥
रक्षांसि पुरुषादानि नानारूपाणि राघव ।
वसन्त्यस्मिन् महारण्ये व्यालाश्च रुधिराशनाः ॥२-११९-१८॥
उच्छिष्टं वा प्रमत्तं वा तापसं धर्मचारिणम् ।
अदन्त्यस्मिन् महारण्ये तान्निवारय राघव ॥२-११९-१९॥
एष पन्था महर्षीणां फलान्याहरतां वने ।
अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम् ॥२-११९-२०॥
इतीव तैः प्राञ्जलिभिस्तपस्विभिर्द्विजैः कृतः स्वस्त्ययनः परं तपः ।
वनं सभार्य्यः प्रविवेश राघवः सलक्ष्मणः सूर्य्यमिवाभ्रमण्डलम् ॥२-११९-२१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे दण्डकारण्यप्रवेशः नाम एकोनविंशत्यधिकशततमः सर्गः ॥२-११९॥
Previous
दिव्यालङ्कारग्रहणम्