सीतापातिव्रत्यप्रशंसा

अयोध्याकाण्डः / सीतापातिव्रत्यप्रशंसा

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे सीतापातिव्रत्यप्रशंसा नाम सप्तदशाधिकशततमः सर्गः ॥२-११७॥
राघवस्त्वथ यातेषु तपस्विषु विचिन्तयन् । न तत्रारोचयद्वासं कारणैर्बहुभिस्तदा ॥२-११७-१॥
इह मे भरतो दृष्टो मातरश्च सनागराः । सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचतः ॥२-११७-२॥
स्कन्धावारनिवेशेन तेन तस्य महात्मनः । हयहस्तिकरीषैश्च उपमर्द्दः कृतो भृशम् ॥२-११७-३॥
तस्मादन्यत्र गच्छाम इति सञ्चिन्त्य राघवः । प्रातिष्ठत स वैदेह्या लक्ष्मणेन च सङ्गतः ॥२-११७-४॥
सोऽत्रेराश्रममासाद्य तं ववन्दे महायशाः । तं चापि भगवानत्रिः पुत्रवत् प्रत्यपद्यत ॥२-११७-५॥
स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम् । सौमित्रिं च महाभागां सीतां च समसान्त्वयत् ॥२-११७-६॥
पत्नीं च समनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम् । सान्त्वयामास धर्मज्ञः सर्वभूतहिते रतः ॥२-११७-७॥
अनसूयां महाभागां तापसीं धर्मचारिणीम् । प्रतिगृह्णीष्व वैदेहीमब्रवीदृषिसत्तमः । रामाय चाचचक्षे तां तापसीं धर्मचारिणीम् ॥२-११७-८॥
दशवर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम् । यया मूलफले सृष्टे जाह्नवी च प्रवर्त्तिता ॥२-११७-९॥
उग्रेण तपसा युक्ता नियमैश्चाप्यलङ्कृता । दशवर्षसहस्राणि यया तप्तं महत्तपः ॥२-११७-१०॥
अनसूया व्रतैः स्नाता प्रत्यूहाश्च निवर्त्तिताः । देवकार्यनिमित्तं च यया संत्वरमाणया । दशरात्रं कृता रात्रिः सेयं मातेव तेऽनघ ॥२-११७-११॥
तामिमां सर्वभूतानां नमस्कार्य्यां यशस्विनीम् । अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा । अनसूयेति या लोके कर्मभिः ख्यातिमागता ॥२-११७-१२॥
एवं ब्रुवाणं तमृषिं तथेत्युक्त्वा स राघवः । सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम् ॥२-११७-१३॥
राजपुत्रि श्रुतं त्वेतन्मुनेरस्य समीरितम् । श्रेयोर्थमात्मनः श्रीघ्रमभिगच्छ तपस्विनीम् ॥२-११७-१४॥
सीता त्वेतद्वचः श्रुत्वा राघवस्य हितैषिणः । तामत्रिपत्नीं धर्मज्ञामभिचक्राम मैथिली ॥२-११७-१५॥
शिथिलां वलितां वृद्धां जरापाण्डरमूर्द्धजाम् । सततं वेपमानाङ्गी प्रवाते कदली यथा ॥२-११७-१६॥
तां तु सीता महाभागामनसूयां पतिव्रताम् । अभ्यवादयदव्यग्रा स्वनाम समुदाहरत् ॥२-११७-१७॥
अभिवाद्य च वैदेही तापसीं तामनिन्दिताम् । बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छदनामयम् ॥२-११७-१८॥
ततः सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम् । सान्त्वयन्त्यब्रवीद्धृष्टा दिष्ट्या धर्ममवेक्षसे ॥२-११७-१९॥
त्यक्त्वा ज्ञातिजनं सीते मानमृद्धिं च भामिनि । अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि ॥२-११७-२०॥
नगरस्थो वनस्थो वा पापो वा यदि वा शुभः । यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ॥२-११७-२१॥
दुःशीलः कामवृत्तो वा धनैवा परिवर्जितः । स्त्रीणामार्यस्वभावानां परमं दैवतं पतिः ॥२-११७-२२॥
नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम् । सर्वत्रयोग्यं वैदेहि तपःकृतमिवाव्ययम् ॥२-११७-२३॥
न त्वेनमवगच्छन्ति गुणदोषमसत्स्त्रियः । कामवक्तव्यहृदया भर्तृनाथा श्चरन्ति याः ॥२-११७-२४॥
प्राप्नुवन्त्ययशश्चैव धर्मभ्रंशं च मैथिलि । अकार्यवशमापन्नाः स्त्रियो याः खलु तद्विधाः ॥२-११७-२५॥
त्वद्विधास्तु गुणैर्युक्ता दृष्टलोकपरावराः । स्त्रियः स्वग चरिष्यन्ति यथा धर्मकृतस्तथा ॥२-११७-२६॥
तदेवमेनं त्वमनुव्रता सती पतिव्रतानां समयानुवर्तिनी । भवस्व भर्त्तुः सहधर्मचारिणी यशश्च धर्मं च ततः समाप्स्यसि ॥२-११७-२७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सीतापातिव्रत्यप्रशंसा नाम सप्तदशाधिकशततमः सर्गः ॥२-११७॥