खरविप्रकरणकथनम्
अयोध्याकाण्डः / खरविप्रकरणकथनम्
Script
Translation
Previous
नन्दिग्रामनिवासः
Next
सीतापातिव्रत्यप्रशंसा
अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे खरविप्रकरणकथनम् नाम षोडशाधिकशततमः सर्गः ॥२-११६॥
प्रतिप्रयाते भरते वसन् रामस्तपोवने ।
लक्षयामास सोद्वेगमथौत्सुक्यं तपस्विनाम् ॥२-११६-१॥
ये तत्र चित्रकूटस्य पुरस्तात्तापसाश्रमे ।
राममाश्रित्य निरतास्तानलक्षयदुत्सुकान् ॥२-११६-२॥
नयनैर्भुकुटीभिश्च रामं निर्दिश्य शङ्किताः ।
अन्योन्यमुपजल्पन्तः शनैश्चक्रुर्मिथः कथाः ॥२-११६-३॥
तेषामौत्सुक्यमालक्ष्य रामस्त्वात्मनि शङ्कितः ।
कृताञ्जलिरुवाचेदमृषिं कुलपतिं ततः ॥२-११६-४॥
न कच्चिद्भगवन् किञ्चित्पूर्ववृत्तमिदं मयि ।
दृश्यते विकृतं येन विक्रियन्ते तपस्विनः ॥२-११६-५॥
प्रमादाच्चरितं कच्चित्किञ्चिन्नावरजस्य मे ।
लक्ष्मणस्यर्षिभिर्दृष्टं नानुरूपमिवात्मनः ॥२-११६-६॥
कच्चिच्छुश्रूषमाणा वः शुश्रूषणपरा मयि ।
प्रममादाभ्युचितां वृत्तिं सीता युक्तं न वर्तते ॥२-११६-७॥
अथर्षिर्जरया वृद्धस्तपसा च जरां गतः ।
वेपमान इवोवाच रामं भूतदयापरम् ॥२-११६-८॥
कुतः कल्याणसत्त्वायाः कल्याणाभिरतेस्तथा ।
चलनं तात वैदेह्यास्तपस्विषु विशेषतः ॥२-११६-९॥
त्वन्निमित्तमिदं तावत्तापसान् प्रति वर्तते ।
रक्षोभ्यस्तेन संविग्नाः कथयन्ति मिथः कथाः ॥२-११६-१०॥
रावणावरजः कश्चित् खरो नामेह राक्षसः ।
उत्पाट्य तापसान् सर्वान् जनस्थाननिकेतनान् ॥२-११६-११॥
धृष्टश्च जितकाशीं च नृशंसः पुरुषादकः ।
अवलिप्तश्च पापश्च त्वां च तात न मृष्यते ॥२-११६-१२॥
त्वं यदाप्रभृति ह्यस्मिन्नाश्रमे तात वर्तसे ।
तदाप्रभृति रक्षांसि विप्रकुर्वन्ति तापसान् ॥२-११६-१३॥
दर्शयन्ति हि बीभत्सैः क्रूरैर्भीषणकैरपि ।
नानारूपैर्विरूपैश्च रूपैर्विकृतदर्शनैः ॥२-११६-१४॥
अप्रशस्तैरशुचिभिः सम्प्रयोज्य च तापसान् ।
प्रतिघ्नन्त्यपरान् क्षिप्रमनार्य्याः पुरतः स्थिताः ॥२-११६-१५॥
तेषु तेष्वाश्रमस्थानेष्वबुद्धमवलीय च ।
रमन्ते तापसांस्तत्र नाशयन्तोऽल्पयेतसः ॥२-११६-१६॥
अपक्षिपन्ति स्रुग्भाण्डानग्नीन् सिञ्चन्ति वारिणा ।
कलशांश्च प्रमृद्नन्ति हवने समुपस्थिते ॥२-११६-१७॥
तैर्दुरात्मभिरामृष्टानाश्रमान् प्रजिहासवः ।
गमनायान्यदेशस्य चोदयन्त्यृषयोऽद्य माम् ॥२-११६-१८॥
तत्पुरा राम शारीरीमुपहिंसां तपस्विषु ।
दर्शयन्ति हि दुष्टास्ते त्यक्ष्याम इममाश्रमम् ॥२-११६-१९॥
बहुमूलफलं चित्रमविदूरादितो वनम् ।
पुराणाश्रममेवाहं श्रयिष्ये सगणः पुनः ॥२-११६-२०॥
खरस्त्वय्यपि चायुक्तं पुरा तात प्रवर्त्तते ।
सहास्माभिरितो गच्छ यदि बुद्धिः प्रवर्त्तते ॥२-११६-२१॥
सकलत्रस्य सन्देहो नित्यं यत्तस्य राघव ।
समर्थस्यापि वसतो वासो दुःखमिहाद्य ते ॥२-११६-२२॥
इत्युक्तवन्तं रामस्तं राजपुत्रस्तपस्विनम् ।
न शशाकोत्तरैर्वाक्यैरवरोद्धुं समुत्सुकः ॥२-११६-२३॥
अभिनन्द्य समापृच्छ्य समाधाय च राघवम् ।
स जगामाश्रमं त्यक्त्वा कुलैः कुलपतिः सह ॥२-११६-२४॥
रामः संसाध्य त्वृषिगणमनुगमनाद्देशात्तस्मात् कुलपतिमभिवाद्य ऋषिम् ।
सम्यक्प्रीतैस्तैरनुमत उपदिष्टार्थः पुण्यं वासाय स्वनिलयमुपसम्पेदे ॥२-११६-२५॥
आश्रमं त्वृषिविरहितं प्रभुः क्षणमपि न विजहौ स राघवः ।
राघवं हि सततमनुगतास्तापसाश्चार्षचरितधृतगुणाः ॥२-११६-२६॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे खरविप्रकरणकथनम् नाम षोडशाधिकशततमः सर्गः ॥२-११६॥
Previous
नन्दिग्रामनिवासः
Next
सीतापातिव्रत्यप्रशंसा