नन्दिग्रामनिवासः
अयोध्याकाण्डः / नन्दिग्रामनिवासः
Script
Translation
Previous
अयोध्याप्रवेशः
Next
खरविप्रकरणकथनम्
अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे नन्दिग्रामनिवासः नाम पञ्चदशाधिकशततमः सर्गः ॥२-११५॥
ततो निक्षिप्य मातऽः स अयोध्यायां दृढव्रतः ।
भरतः शोकसन्तप्तो गुरूनिदमथाब्रवीत् ॥२-११५-१॥
नन्दिग्रामं गमिष्यामि सर्वानामन्त्रयेऽद्य वः ।
तत्र दुःखमिदं सर्वं सहिष्ये राघवं विना ॥२-११५-२॥
गतश्च हि दिवं राजा वनस्थश्च गुरुर्मम ।
रामं प्रतीक्षे राज्याय स हि राजा महायशाः ॥२-११५-३॥
एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः ।
अब्रुवन् मन्त्रिणः सर्वे वसिष्ठश्च पुरोहितः ॥२-११५-४॥
सुभृशं श्लाघनीयं च यदुक्तं भरत त्वया ।
वचनं भ्रातृवात्सल्यादनुरूपं तवैव तत् ॥२-११५-५॥
नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे ।
आर्यमार्गं प्रपन्नस्य नानुमन्येत कः पुमान् ॥२-११५-६॥
मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम् ।
अब्रवीत्सारथिं वाक्यं रथो मे युज्यतामिति ॥२-११५-७॥
प्रहृष्टवदनः सर्वा मातऽः समभिवाद्य सः ।
आरुरोह रथं श्रीमान् शत्रुघ्नेन समन्वितः ॥२-११५-८॥
आरुह्य च रथं शीघ्रं शत्रुघ्नभरतावुभौ ।
ययतुः परमप्रीतौ वृतौ मन्त्रिपुरोहितैः ॥२-११५-९॥
अग्रतो गुरवस्तत्र वसिष्ठप्रमुखा द्विजाः ।
प्रययुः प्राङ्मुखाः सर्वे नन्दिग्रामो यतोऽभवत् ॥२-११५-१०॥
बलं च तदनाहूतं गजाश्वरथसङ्कुलम् ।
प्रययौ भरते याते सर्वे च पुरवासिनः ॥२-११५-११॥
रथस्थः स हि धर्मात्मा भरतो भ्रातृवत्सलः ।
नन्दिग्रामं ययौ तूर्णं शिरस्याधाय पादुके ॥२-११५-१२॥
ततस्तु भरतः क्षिप्रं नन्दिग्रामं प्रविश्य सः ।
अवतीर्य्य रथात्तूर्णं गुरूनिदमुवाच ह ॥२-११५-१३॥
एतद्राज्यं मम भ्रात्रा दत्तं संन्यासवत् स्वयम् ।
योगक्षेमवहे चेमे पादुके हेमभूषिते ॥२-११५-१४॥
भरतः शिरसा कृत्वा संन्यासं पादुके ततः ।
अब्रवीद्दुःखसन्तप्तः सर्वं प्रकृतिमण्डलम् ॥२-११५-१५॥
छत्रं धारयत क्षिप्रमार्यपादाविमौ मतौ ।
आभ्यां राज्ये स्थितो धर्मः पादुकाभ्यां गुरोर्मम ॥२-११५-१६॥
भ्रात्रा हि मयि संन्यासो निक्षिप्तः सौहृदादयम् ।
तमिमं पालयिष्यामि राघवागमनं प्रति ॥२-११५-१७॥
क्षिप्रं संयोजयित्वा तु राघवस्य पुनः स्वयम् ।
चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ ॥२-११५-१८॥
ततो निक्षिप्तभारोऽहं राघवेण समागतः ।
निवेद्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम् ॥२-११५-१९॥
राघवाय च संन्यासं दत्त्वे मे वरपादुके ।
राज्यं चेदमयोध्यां च धूतपापो भवामि च ॥२-११५-२०॥
अभिषिक्ते तु काकुत्स्थे प्रहृष्टमुदिते जने ।
प्रीतिर्मम यशश्चैव भवेद्राज्याच्चतुर्गुणम् ॥२-११५-२१॥
एवं तु विलपन् दीनो भरतः स महायशाः ।
नन्दिग्रामेऽकरोद्राज्यं दुःखितो मन्त्रिभिः सह ॥२-११५-२२॥
स वल्कलजटाधारी मुनिवेषधरः प्रभुः ।
नन्दिग्रामेऽवसद्वीरः ससैन्यो भरतस्तदा ॥२-११५-२३॥
रामागमनमाकाङ्क्षन् भरतो भ्रातृवत्सलः ।
भ्रातुर्वचनकारी च प्रतिज्ञापारगस्तथा ॥२-११५-२४॥
पादुके त्वभिषिच्याथ नन्द्रिग्रामेऽवसत्तदा ।
भरतः शासनं सर्वं पादुकाभ्यां न्यवेदयत् ॥२-११५-२५॥
ततस्तु भरतः श्रीमानभिषिच्यार्य्यपादुके ।
तदधीनस्तदा राज्यं कारयामास सर्वदा ॥२-११५-२६॥
तदा हि यत्कार्य्यमुपैति किञ्चिदुपायनं चोपहृतं महार्हम् ।
स पादुकाभ्यां प्रथमं निवेद्य चकार पश्चाद्भरतो यथावत् ॥२-११५-२७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे नन्दिग्रामनिवासः नाम पञ्चदशाधिकशततमः सर्गः ॥२-११५॥
Previous
अयोध्याप्रवेशः
Next
खरविप्रकरणकथनम्