अयोध्याप्रवेशः

अयोध्याकाण्डः / अयोध्याप्रवेशः

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे अयोध्याप्रवेशः नाम चतुर्दशाधिकशततमः सर्गः ॥२-११४॥
स्त्रिग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभुः । अयोध्यां भरतः क्षिप्रं प्रविवेश महायशाः ॥२-११४-१॥
बिडालोलूकचरितामालीननरवारणाम् । तिमिराभ्याहतां कालीमप्रकाशां निशामिव ॥२-११४-२॥
राहुशत्रोः प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् । ग्रहेणाभ्युत्थिते नैकां रोहिणीमिव पीडिताम् ॥२-११४-३॥
अल्पोष्णक्षुब्धसलिलां धर्मोत्तप्तविहङ्गमाम् । लीनमीनझषग्राहां कृशां गिरिनदीमिव ॥२-११४-४॥
विधूमामिव हेमाभामध्वराग्नेः समुत्थिताम् । हविरभ्युक्षितां पश्चात् शिखां विप्रलयं गताम् ॥२-११४-५॥
विध्वस्तकवचां रुग्णजवाजिरथध्वजाम् । हतप्रवीरामापन्नां चमूमिव महाहवे ॥२-११४-६॥
सफेना सस्वना भूत्वा सागरस्य समुत्थिताम् । प्रशान्तमारुतोद्घातां जलोर्मिमिव निस्वनाम् ॥२-११४-७॥
त्यक्तां यज्ञायुधैः सर्वैरभिरूपैश्च याजकैः । सुत्याकाले विनिर्वृत्ते वेदिं गतरवामिव ॥२-११४-८॥
गोष्ठमध्ये स्थितामार्त्तामचरन्तीं तृणं नवम् । गोवृषेण परित्यक्तां गवां पत्तिमिवोत्सुकाम् ॥२-११४-९॥
प्रभाकराद्यैः सुस्निग्धैः प्रज्वलद्भिरिवोत्तमैः । वियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव ॥२-११४-१०॥
सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम् । संहृतद्युतिविस्तारां तारामिव दिवश्च्युताम् ॥२-११४-११॥
पुष्पनद्धां वसन्तान्ते मत्तभ्रमरनादिताम् । द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलतामिव ॥२-११४-१२॥
सम्मूढनिगमां स्तब्धां संक्षिप्तविपणापणाम् । प्रच्छन्नशशिनक्षत्रां द्यामिवाम्बुधरैर्वृताम् ॥२-११४-१३॥
क्षीणपानोत्तमैर्भिन्नैः शरावैरभिसंवृताम् । हतशौण्डामिवाकाशे पानभूमिमसंस्कृताम् ॥२-११४-१४॥
वृक्णभूमितलां निम्नां वृक्णपात्रैः समावृताम् । उपयुक्तोदकां भग्नां प्रपां निपतितामिव ॥२-११४-१५॥
विपुलां विततां चैव युक्तपाशां तरस्विनाम् । भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात् ॥२-११४-१६॥
सहसा युद्धशौण्डेन हयारोहेण वाहिताम् । निक्षिप्तभाण्डामुत्सृष्टां किशोरीमिव दुर्बलाम् ॥२-११४-१७॥
शुष्कतोयां महामत्स्यैः कूर्मैश्च बहुभिर्वृताम् । प्रभिन्नतटविस्तीर्णां वापीमिव हृतोत्पलाम् ॥२-११४-१८॥
पुरुषस्याप्रहृष्टस्य प्रतिषिद्धानुलेपनाम् । सन्तप्तामिव शोकेन गात्रयष्टिमभूषणाम् ॥२-११४-१९॥
प्रावृषि प्रविगाढायां प्रविष्टस्याभ्रमण्डलम् । प्रच्छन्नां नीलजीमूतैर्भास्करस्य प्रभामिव ॥२-११४-२०॥
भरतस्तु रथस्थः सन् श्रीमान् दशरथात्मजः । वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत् ॥२-११४-२१॥
किं नु खल्वद्य गम्भीरो मूर्च्छितो न निशम्यते । यथापुरमयोध्यायां गीतवादित्रनिस्वनः ॥२-११४-२२॥
वारुणीमदगन्धश्च माल्यगन्धश्च मूर्च्छितः । धूपितागरुगन्धश्च न प्रवाति समन्ततः ॥२-११४-२३॥
यानप्रवरघोषश्च स्निग्धश्च हयनिस्वनः । प्रमत्तगजनादश्च महांश्च रथनिस्वनः । नेदानीं श्रूयते पुर्यामस्यां रामे विवासिते ॥२-११४-२४॥
चन्दनागरुगन्धांश्च महार्हाश्च नवस्रजः । गते हि रामे तरुणाः सन्तप्ता नोपभुञ्जते ॥२-११४-२५॥
बहिर्यात्रां न गच्छन्ति चित्रमाल्यधरा नराः । नोत्सवाः सम्प्रवर्त्तन्ते रामशोकार्दिते पुरे ॥२-११४-२६॥
सह नूनं मम भ्रात्रा पुरस्यास्यद्युतिर्गता । नहि राजत्ययोध्येयं सासारेवार्जुनी क्षपा ॥२-११४-२७॥
कदा नु खलु मे भ्राता महोत्सव इवागतः । जनयिष्यत्ययोध्यायां हर्षं ग्रीष्म इवाम्बुदः ॥२-११४-२८॥
तरुणैश्चारुवेषैश्च नरैरुन्नतगामिभिः । सम्पतद्भिरयोध्यायां नाभिभान्ति महापथाः ॥२-११४-२९॥
एवं बहुविधं जल्पन् विवेश वसतिं पितुः । तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव ॥२-११४-३०॥
तदा तदन्तःपुरमुज्झितप्रभं सुरैरिवोत्सृष्टमभास्करं दिनम् । निरीक्ष्य सर्वन्तु विविक्तमात्मवान् मुमोच बाष्पं भरतः सुदुःखितः ॥२-११४-३१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अयोध्याप्रवेशः नाम चतुर्दशाधिकशततमः सर्गः ॥२-११४॥