पादुकाग्रहणम्
अयोध्याकाण्डः / पादुकाग्रहणम्
Script
Translation
Previous
पादुकाप्रदानम्
Next
अयोध्याप्रवेशः
अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे पादुकाग्रहणम् नाम त्रयोदशाधिकशततमः सर्गः ॥२-११३॥
ततः शिरसि कृत्वा तु पादुके भरतस्तदा ।
आरुरोह रथं हृष्टः शत्रुघ्नेन समन्वितः ॥२-११३-१॥
वसिष्ठो वामदेवश्च जाबालिश्च दृढव्रतः ।
अग्रतः प्रययुः सर्वे मन्त्रिणो मन्त्रपूजिताः ॥२-११३-२॥
मन्दाकिनीं नदीं रम्यां प्राङ्मुखास्ते ययुस्तदा ।
प्रदक्षिणं च कुर्वाणाश्चित्रकूटं महागिरिम् ॥२-११३-३॥
पश्यन् धातुसहस्राणि रम्याणि विविधानि च ।
प्रययौ तस्य पार्श्वेन ससैन्यो भरतस्तदा ॥२-११३-४॥
अदूराच्चित्रकूटस्य ददर्श भरतस्तदा ।
आश्रमं यत्र स मुनिर्भरद्वाजः कृतालयः ॥२-११३-५॥
स तमाश्रममागम्य भरद्वाजस्य बुद्धिमान् ।
अवतीर्य रथात् पादौ ववन्दे भरतस्तदा ॥२-११३-६॥
ततो हृष्टो भरद्वाजो भरतं वाक्यमब्रवीत् ।
अपि कृत्यं कृतं तात रामेण च समागतम् ॥२-११३-७॥
एवमुक्तः स तु ततो भरद्वाजेन धीमता ।
प्रत्युवाच भरद्वाजं भरतो भ्रातृवत्सलः ॥२-११३-८॥
स याच्यमानो गुरुणा मया च दृढविक्रमः ।
राघवः परमप्रीतो वसिष्ठं वाक्यमब्रवीत् ॥२-११३-९॥
पितुः प्रतिज्ञां तामेव पालयिष्यामि तत्त्वतः ।
चतुर्दश हि वर्षाणि या प्रतिज्ञा पितुर्मम ॥२-११३-१०॥
एवमुक्तो महाप्राज्ञो वसिष्ठः प्रत्युवाच ह ।
वाक्यज्ञो वाक्यकुशलं राघवं वचनं महत् ॥२-११३-११॥
एते प्रयच्छ संहृष्टः पादुके हेमभूषिते ।
अयोध्यायां महाप्राज्ञ योगक्षेमकरे तव ॥२-११३-१२॥
एवमुक्तो वसिष्ठेन राघवः प्राङ्मुखः स्थितः ।
पादुके अधिरुह्यैते मम राज्याय वै ददौ ॥२-११३-१३॥
निवृत्तोऽहमनुज्ञातो रामेण सुमहात्मना ।
अयोध्यामेव गच्छामि गृहीत्वा पादुके शुभे ॥२-११३-१४॥
एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मनः ।
भरद्वाजः शुभतरं मुनिर्वाक्यमुवाच तम् ॥२-११३-१५॥
नैतच्चित्रं नरव्याघ्र शीलवृत्तवतां वर ।
यदार्यं त्वयि तिष्ठेत्तु निम्ने सृष्टमिवोदकम् ॥२-११३-१६॥
अमृतः स महाबाहुः पिता दशरथस्तव ।
यस्य त्वमीदृशः पुत्रो धर्मज्ञो धर्मवत्सलः ॥२-११३-१७॥
तमृषिं तु महात्मानमुक्तवाक्यं कृताञ्जलिः ।
आमतन्त्रयितुमारेभे चरणावुपगृह्य च ॥२-११३-१८॥
ततः प्रदक्षिणं कृत्वा भरद्वाजं पुनःपुनः ।
भरतस्तु ययौ श्रीमानयोध्यां सह मन्त्रिभिः ॥२-११३-१९॥
यानैश्च शकटैश्चैव हयैर्नागैश्च सा चमूः ।
पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी ॥२-११३-२०॥
ततस्ते यमुनां दिव्यां नदीं तीर्त्वोर्मिमालिनीम् ।
ददृशुस्तां पुनः सर्वे गङ्गां शुभजलां नदीम् ॥२-११३-२१॥
तां रम्यजलसम्पूर्णां सन्तीर्य सहबान्धवः ।
शृङ्गिबेरपुरं रम्यं प्रविवेश ससैनिकः ॥२-११३-२२॥
शृङ्गिबेरपुराद्भूयस्त्वयोध्यां संददर्श ह ॥२-११३-२३॥
अयोध्यां च ततो दृष्ट्वा पित्रा भ्रात्रा विवर्जिताम् ।
भरतो दुःखसन्तप्तः सारथिं चेदमब्रवीत् ॥२-११३-२४॥
सारथे पश्य विध्वस्ता सायोध्या न प्रकाशते ।
निराकारा निरानन्दा दीना प्रतिहतस्वरा ॥२-११३-२५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पादुकाग्रहणम् नाम त्रयोदशाधिकशततमः सर्गः ॥२-११३॥
Previous
पादुकाप्रदानम्
Next
अयोध्याप्रवेशः