पादुकाप्रदानम्

अयोध्याकाण्डः / पादुकाप्रदानम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे पादुकाप्रदानम् नाम द्वादशाधिकशततमः सर्गः ॥२-११२॥
तमप्रतिमतेजोभ्यां भ्रातृभ्यां रोमहर्षणम् । विस्मिताः सङ्गमं प्रेक्ष्य समवेता महर्षयः ॥२-११२-१॥
अन्तर्हितास्त्वृषिगणाः सिद्धाश्च परमर्षयः । तौ भ्रातरौ महात्मानौ महात्मानौ काकुत्स्थौ प्रशशंसिरे ॥२-११२-२॥
स धन्यो यस्य पुत्रौ द्वौ धर्मज्ञौ धर्मविक्रमौ । श्रुत्वा वयं हि सम्भाषामुभयोः स्पृहयामहे ॥२-११२-३॥
ततस्त्वृषिगणाः क्षिप्रं दशग्रीववधैषिणः । भरतं राजशार्दूलमित्यूचुः सङ्गता वचः ॥२-११२-४॥
कुले जात महाप्राज्ञ महावृत्त महायशः । ग्राह्यं रामस्य वाक्यं ते पितरं यद्यवेक्षसे ॥२-११२-५॥
सदानृणमिमं रामं वयमिच्छामहे पितुः । अनृणत्वाच्च कैकेय्याः स्वर्गं दशरथो गतः ॥२-११२-६॥
एतावदुक्त्वा वचनं गन्धर्वाः समहर्षयः । राजर्षयश्चैव तदा सर्वे स्वांस्वां गतिं गताः ॥२-११२-७॥
ह्लादितस्तेन वाक्येन शुभेन शुभदर्शनः । रामः संहृष्टवदनस्तानृषीनभ्यपूजयत् ॥२-११२-८॥
स्रस्तगात्रस्तु भरतः स वाचा सज्जमानया । कृताञ्जलिरिदं वाक्यं राघवं पुनरब्रवीत् ॥२-११२-९॥
राजधर्ममनुप्रेक्ष्य कुलधर्मानुसन्ततिम् । कर्त्तुमर्हसि काकुत्स्थ मम मातुश्च याचनाम् ॥२-११२-१०॥
रक्षितुं सुमहद्राज्यमहमेकस्तु नोत्सहे । पौरजानपदांश्चापि रक्तान् रञ्जयितुं तथा ॥२-११२-११॥
ज्ञातयश्च हि योधाश्च मित्राणि सुहृदश्च नः । त्वामेव प्रतिकांक्षन्ते पर्जन्यमिव कर्षकाः ॥२-११२-१२॥
इदं राज्यं महाप्राज्ञ स्थापय प्रतिपद्य हि । शक्तिमानसि काकुत्स्थ लोकस्य परिपालने ॥२-११२-१३॥
इत्युक्त्वा न्यपतद् भ्रातुः पादयोर्भरतस्तदा । भृशं सम्प्रार्थयामास राममेव प्रियंवदः ॥२-११२-१४॥
तमङ्के भ्रातरं कृत्वा रामो वचनमब्रवीत् । श्यामं नलिनपत्राक्षं मत्तहंसस्वरं स्वयम् ॥२-११२-१५॥
आगता त्वामियं बुद्धिः स्वजा वैनयिकी च या । भृशमुत्सहसे तात रक्षितुं पृथिवीमपि ॥२-११२-१६॥
अमात्यैश्च सुहृद्भिश्च बुद्धिमद्भिश्च मन्त्रिभिः । सर्वकार्याणि सम्मन्त्र्य सुमहान्त्यपि कारय ॥२-११२-१७॥
लक्ष्मीश्चन्द्रादपेयाद्वा हिमवान् वा हिमं त्यजेत् । अतीयात् सागरो वेलां न प्रतिज्ञामहं पितुः ॥२-११२-१८॥
कामाद्वा तात लोभाद्वा मात्रा तुभ्यमिदं कृतम् । न तन्मनसि कर्त्तव्यं वर्त्तितव्यं च मातृवत् ॥२-११२-१९॥
एवं ब्रुवाणं भरतः कौसल्यासुतमब्रवीत् । तेजसादित्यसङ्काशं प्रतिपच्चन्द्रदर्शनम् ॥२-११२-२०॥
अधिरोहार्य पादाभ्यां पादुके हेमभूषिते । एते हि सर्वलोकस्य योगक्षेमं विधास्यतः ॥२-११२-२१॥
सोऽधिरुह्य नरव्याघ्रः पादुके ह्यवरुह्य च । प्रायच्छत् सुमहातेजा भरताय महात्मने ॥२-११२-२२॥
स पादुके सम्प्रणम्य रामं वचनमब्रवीत् । चतुर्दश हि वर्षाणि जटाचीरधरो ह्यहम् ॥२-११२-२३॥
फलमूलाशनो वीर भवेयं रघुनन्दन । तवागमनमाकांक्षन् वसन् वै नगराद्बहिः ॥२-११२-२४॥
तव पादुकयोर्न्यस्तराज्यतन्त्रः परन्तप । चतुर्दशे हि सम्पूर्णे वर्षेऽहनि रघूत्तम । न द्रक्ष्यामि यदि त्वां तु प्रवेक्ष्यामि हुताशनम् ॥२-११२-२५॥
तथेति च प्रतिज्ञाय तं परिष्वज्य सादरम् । शत्रुघ्नं च परिष्वज्य भरतं चेदमब्रवीत् ॥२-११२-२६॥
मातरं रक्ष कैकेयीं मा रोषं कुरु तां प्रति । मया च सीतया चैव शप्तोऽसि रघुसत्तम ॥२-११२-२७॥
इत्युक्त्वाऽश्रुपरीताक्षो भ्रातरं विससर्ज ह ॥२-११२-२८॥
स पादुके ते भरतः प्रतापवान् स्वलङ्कृते सम्परिपूज्य धर्मवित् । प्रदक्षिणं चैव चकार राघवं चकार चैवोत्तमनागमूर्द्धनि ॥२-११२-२९॥
अथानुपूर्व्यात् प्रतिनन्द्य तं जनं गुरूंश्च मन्त्रिप्रकृतीस्तथानुजौ । व्यसर्जयद्राघववंशवर्द्धनः स्थिरः स्वधर्मे हिमवानिवाचलः ॥२-११२-३०॥
तं मातरो बाष्पगृहीतकण्ठ्यो दुःखेन नामन्त्रयितुं हि शेकुः । स त्वेव मातऽरभिवाद्य सर्वा रुदन् कुटीं स्वां प्रविवेश रामः ॥२-११२-३१॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पादुकाप्रदानम् नाम द्वादशाधिकशततमः सर्गः ॥२-११२॥