भरतानुशासनम्

अयोध्याकाण्डः / भरतानुशासनम्

Back to Valmiki Ramayanam

Script

Translation

अथ श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे भरतानुशासनम् नाम एकादशाधिकशततमः सर्गः ॥२-१११॥
वसिष्ठस्तु तदा राममुक्त्वा राजपुरोहितः । अब्रवीद्धर्मसंयुक्तं पुनरेवापरं वचः ॥२-१११-१॥
पुरुषस्येह जातस्य भवन्ति गुरवस्त्रयः । आचार्य्यश्चैव काकुत्स्थ पिता माता च राघव ॥२-१११-२॥
पिता ह्येनं जनयति पुरुषं पुरुषर्षभ । प्रज्ञां ददाति चाचार्यस्तस्मात्स गुरुरुच्यते ॥२-१११-३॥
सोऽहं ते पितुराचार्य्यस्तव चैव परन्तप । मम त्वं वचनं कुर्वन् नातिवर्त्तेः सताङ्गतिम् ॥२-१११-४॥
इमा हि ते परिषदः श्रेणयश्च द्विजास्तथा । एषु तात चरन् धर्मं नातिवर्त्तेः सताङ्गतिम् ॥२-१११-५॥
वृद्धाया धर्मशीलाया मातुर्नार्हस्यवर्त्तितुम् । अस्यास्तु वचनं कुर्वन् नातिवर्त्तेः सताङ्गतिम् ॥२-१११-६॥
भरतस्य वचः कुर्वन् याचमानस्य राघव । आत्मानं नातिवर्त्तेस्त्वं सत्यधर्मपराक्रम ॥२-१११-७॥
एवं मधुरमुक्तस्तु गुरुणा राघवः स्वयम् । प्रत्युवाच समासीनं वसिष्ठं पुरुषर्षभः ॥२-१११-८॥
यन्मातापितरौ वृत्तं तनये कुरुतः सदा । न सुप्रतिकरं तत्तु मात्रा पित्रा च यत्कृतम् ॥२-१११-९॥
यथाशक्ति प्रदानेन स्नापनोच्छादनेन च । नित्यं च प्रियवादेन तथा संवर्द्धनेन च ॥२-१११-१०॥
स हि राजा जनयिता पिता दशरथो मम । आज्ञातं यन्मया तस्य न तन्मिथ्या भविष्यति ॥२-१११-११॥
एवमुक्तस्तु रामेण भरतः प्रत्यनन्तरम् । उवाच परमोदारः सूतं परमदुर्मनाः ॥२-१११-१२॥
इह मे स्थण्डिले शीघ्रं कुशानास्तर सारथे । आर्य्यं प्रत्युपवेक्ष्यामि यावन्मे न प्रसीदति ॥२-१११-१३॥
अनाहारो निरालोको धनहीनो यथा द्विजः । शेष्ये पुरस्तात् शालाया यावन्न प्रतियास्यति ॥२-१११-१४॥
स तु राममवेक्षन्तं सुमन्त्रं प्रेक्ष्य दुर्मनाः । कुशोत्तरमुपस्थाप्य भूमावेवास्तरत् स्वयम् ॥२-१११-१५॥
तमुवाच महातेजा रामो राजर्षिसत्तमः । किं मां भरत कुर्वाणं तात प्रत्युपवेक्ष्यसि ॥२-१११-१६॥
ब्राह्मणो ह्येकपार्श्वेन नरान् रोद्धुमिहार्हति । न तु मूर्द्धाभिषिक्तानां विधिः प्रत्युपवेशने ॥२-१११-१७॥
उत्तिष्ठ नरशार्दूल हित्वैतद्दारुणं व्रतम् । पुरवर्य्यामितः क्षिप्रमयोध्यां याहि राघव ॥२-१११-१८॥
आसीनस्त्वेव भरतः पौरजानपदं जनम् । उवाच सर्वतः प्रेक्ष्य किमार्यं नानुशासथ ॥२-१११-१९॥
ते तमूचुर्महात्मानं पौरजानपदा जनाः । काकुत्स्थमभिजानीमः सम्यग्वदति राघवः ॥२-१११-२०॥
एषोऽपि हि महाभागः पितुर्वचसि तिष्ठति । अत एव न शक्ताः स्मो व्यावर्त्तयितुमञ्जसा ॥२-१११-२१॥
तेषामाज्ञाय वचनं रामो वचनमब्रवीत् । एवं निबोध वचनं सुहृदां धर्मचक्षुषाम् ॥२-१११-२२॥
एतच्चैवोभयं श्रुत्वा सम्यक् सम्पश्य राघव । उत्तिष्ठ त्वं महाबाहो मां च स्पृश तथोदकम् ॥२-१११-२३॥
अथोत्थाय जलं स्पृष्ट्वा भरतो वाक्यमब्रवीत् । श्रृण्वन्तु मे परिषदो मन्त्रिणः श्रेणयस्तथा ॥२-१११-२४॥
न याचे पितरं राज्यं नानुशासामि मातरम् । आर्यं परमधर्मज्ञं नानुजानामि राघवम् ॥२-१११-२५॥
यदि त्ववश्यं वस्तव्यं कर्त्तव्यं च पितुर्वचः । अहमेव निवत्स्यामि चतुर्दश समा वने ॥२-१११-२६॥
धर्मात्मा तस्य तथ्येन भ्रातुर्वाक्येन विस्मितः । उवाच रामः सम्प्रेक्ष्य पौरजानपदं जनम् ॥२-१११-२७॥
विक्रीतमाहितं क्रीतं यत् पित्रा जीवता मम । न तल्लोपयितुं शक्यं मया वा भरतेन वा ॥२-१११-२८॥
अपधिर्न मया कार्य्यो वनवासे जुगुप्सितः । युक्तमुक्तं च कैकेय्या पित्रा मे सुकृतं कृतम् ॥२-१११-२९॥
जानामि भरतं क्षान्तं गुरुसत्कारकारिणम् । सर्वमेवात्र कल्याणं सत्यसन्धे महात्मनि ॥२-१११-३०॥
अनेन धर्मशीलेन वनात् प्रत्यागतः पुनः । भ्रात्रा सह भविष्यामि पृथिव्याः पतिरुत्तमः ॥२-१११-३१॥
वृतो राजा हि कैकेय्या मया तद्वचनं कृतम् । अनृतन्मोचयानेन पितरं तं महीपतिम् ॥२-१११-३२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे भरतानुशासनम् नाम एकादशाधिकशततमः सर्गः ॥२-१११॥